________________ चेइमवंदण 1266 - अभिधानराजेन्द्रः - भाग 3 चेइयवंदण शीर्षादिना भूस्पर्शादिलक्षणेन नामा नमनानि प्रह्वीभावा जिनस्याग्रे विधेयाः, नमस्कारकरणकाले भक्तयतिशयख्यापनार्थ त्रीन वारान् श्रोिनमनादि विधेयं, नत्वेकमपि वारमित्येवशब्दो नियुक्तः।यदागमः“तिक्खुत्तो मुद्धाणं धरणितलंसि नभेइ ति / / 3 / / शिरसा त्रिभूमि स्पर्शयतीत्यर्थः / एकः चशब्दः समुच्चयते, द्वितीयस्तु विशेषणे / स चैकाङ्गादिकमपि प्रणामं कुर्वद्भिभूम्याकाश-शिरःप्रभृतिष्वपि सर्वत्र शिरःकराञ्जल्यादि त्रिःपरावर्तनीयमिति विशिनष्टि। एवं च-"पणिवाओ पंचंगो इत्यप्युच्यमानं न विसध्यते, प्रणिपातभेदाङ्गव्यक्तिख्यापनपरत्यात्तस्थाः / यदा-भूमौ जानुन्यासशिरः स्पर्शशिरोऽजलिकरणरूपास्त्रयः प्रणामाः शक्रस्तवादौ विधेयाः। उक्तंच-“वामं जाणु अंचेई" इत्यादि / अथवाअञ्जलिबन्धोऽविनतता, पञ्जाङ्गश्चेति / अत्रैव वक्ष्यमाणलक्षणास्त्रयः प्रणामा इति तृतीयं त्रिकम् / / 3 / / त्रिविधा च त्रिप्रकारा अङ्गाग्रभावाऽऽत्मिका पुष्पामिषस्तुत्यादिनिर्माप्यस्वभावा पञ्चप्रकाराऽष्टप्रकारसर्वप्रकाररूपा याऽत्रैव वक्ष्यमाणस्वरूपा पूजाऽर्चा विधेया। तथेत्यागमादुक्तनीत्या तदुक्ताशेषतत्पूजाभेदा-नामत्रान्तर्भावरूपया। उक्तं चैतचूर्णातिविहा पूया पूप्फेहिं नेवजेहिं थुर्हहिं, सेसभेया इत्थ चेव पविस्संति त्ति"। यद्वा-तथेति “सयमाणयणे पढमा" इत्यादिस्थानान्तराप्रसिद्धाऽनेकधापूजा-त्रयाणां ख्यापकः, तानि चागे दर्शयिष्यामः / इति चतुर्थ त्रिकम् ॥४॥अवस्थात्रिकस्य छद्मस्थकेवलिसिद्धत्वरूपस्य, भावनं पुनः पुनश्चिन्तनं, "भावयेद्ज्योतिरान्तरमिति" वचनात् / पिण्डस्थपदस्थरूपातीतध्यानकृते कर्त्तव्यमे वेति, एवशब्दोऽवधारयति / तथैव पिण्डस्थादिध्यानसिद्धेस्तदर्थत्वाच सर्वस्याऽपि सद्धर्मानुष्ठान्नेपक्रमस्य, रूपस्थध्यानं तु दर्शनमात्रादपि सिद्ध्यति। उक्तंच-“पश्यति प्रथमं रूपं, स्तौतिध्येयं ततः पदैः। तन्मयः स्यात्ततः पिण्डे, रूपातीतः क्रमाद्भवेत्॥१॥” इति पञ्चमं त्रिकम् // 5 // तिदिसिनिरक्खणविरई, पअभूमिपमज्जणं च तिक्खुत्तो।। वन्नाइतियं मुद्दा-तियं च तिविहं च पणिहाणं // तिसुणामूधिस्तिर्यग्रुपाणां वामदक्षिणपाश्चात्यलक्षणानांवा दिशा, निरीक्षणस्यालोकस्य विरतिर्वर्जनं, विदध्यात् / तत्रानुपयोगे वन्दनस्यानादरतादिदोषप्रसङ्गात्, यस्यां दिशि तीर्थकृद्विम्बं तत्संमुखमेव निरीक्ष्येतेत्यर्थः / यदागमः-“भवणेक्कगुरुजिणिंद-पडिमासु विणिवेसियनयणमाणसेण० जाव चेइए वंदियव्ये" षष्ठं त्रिकम्॥६।। पद्भूमेर्निजचरणन्यासभूमेः, सत्त्वादिरक्षार्थे सम्यग् चक्षुषा निरीक्ष्य प्रमार्जनं च त्रिःकृत्वस्त्रीन् वारान् कुर्यात् / उक्तं चागमे "जेइ तिन्नि वारा उचलणाणं हिटगं भूमिन पमजिज्जा, तो पच्छित्त" इति सप्तमं त्रिकम्॥७॥ वर्णादित्रिक चैत्यवन्दनागताक्षरार्थालम्बनरूपया परिज्ञान सम्यगुचारचिन्तनात्रयेणएव एकाग्रतां मनसश्चिन्तयेत् / इत्यष्टमं त्रिकम् / / 8 / / मुद्राणा हस्ताद्यङ्ग विन्यासविशेषलक्षणानां त्रयं च योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्रात्मक सूत्रपाठसमकभावितया मूलमुद्रात्रयरूपं समस्तप्रत्यूहव्यूडव्यपोहार्थं , सकलसमीहितसंपादनार्थ च, यथा महामान्त्रिको मन्त्रादिस्मरन् वज्रमुद्राकृष्टीमुद्रादिका मुद्राः प्रयुक्ते, तथा चैत्यवन्दना-1 सूत्रोचारावसरेऽवश्यं सत्यापनीयत या ज्ञातव्यम्, तदविनाभावित्वा त्सूत्रोचारस्य, “थयणढो होइ जोगमुद्दाएं.' इत्यादिवचनात्। दृष्टश्च समुद्र सूत्रपाठोऽन्यत्राऽपि मन्त्रवेदादौ, परममन्त्रवेदादिकल्पंच सर्व जिनागमसूत्रम्। “कस्स वि स परममंतो" इति। "अट्ठारस पयसहस्सी उ वेओ" इत्यादिवचनात् अञ्जलिमुद्रापञ्चाङ्गी मुद्रादयस्तु अत्र न परिज्ञाताः, उत्तरमुद्रारूपत्वात्तासामनियतत्वात्. सूत्रपाठसमये अनुपयुज्यमानत्वात्, तथाऽनुक्तत्वात् / सूत्रोचारकालात्पूर्वा-परकालभावित्वाद्विनयविशेषदर्शनमात्रफलत्वाचैत्यादिवद् अत्र परिज्ञेयमिति नवमं त्रिकम् / / / / त्रिविधं च त्रिभेदं चैत्यवन्दनामुनिवन्दनाप्रार्थनाभेदात् प्रणिधानं, चैत्यवन्दनाऽवसाने विदध्यादिति शेषः / तथा चागमः-"यंदइ नमसई" त्ति सूत्रस्य वृत्तिः-वन्दते ताः प्रतिमाश्चैत्यवन्दनाविधिना प्रसिद्धेन, नमस्करोति पश्चात्प्रणिधानादियोगेनेति दशमं त्रिकम् / इति प्रतिद्गारगाथाद्वयसमासार्थः।।१०।। उक्तो दशत्रिकाक्षरार्थः। संघा०१ प्रस्ता०। प्रव०।दर्श०। (3) नैषेधिकीत्रयम्। अथ भावार्थ उच्यते-तत्र प्रथम नैषेधिकीत्रिकं भावयन भाष्यकृदाह - घरजिणहरजिणपूजा-वावारचायओ निसीहितिगं। अग्गहारे मज्झे, तइया चिइवंदणासमए।। गृहं च मन्दिरम्, उपलक्षणत्वादापणादिपरिग्रहः / जिनगृहं च देवगृहम्, जिनपूजा च पुष्पादिभिर्जिनाभ्यर्चनं, तेषां व्यापारस्तद्गतकार्यकारणाचिन्तनादिलक्षण आरम्भः, तस्य त्यागाद्वर्जनाद् नैषेधिकी त्रयं पूर्वोक्तशब्दार्थ, यथार्थनामक भवतीति गम्यते। तत्र प्रथमा नैषेधिकीअग्रद्वारे बलानकप्रवेशसमये विधेया। द्वितीया तु मध्ये मुखमण्डपादौ। तृतीया पुनश्चैत्यवन्दनाविधनसमये / इत्यक्षरार्थः / भावार्थस्त्वयम्जिनभवनादिबहिर्भूतगृहहट्टादिगतक्रयविक्रयादिव्यवहाररूपसावधारम्भविधानषेधनिष्पन्ना प्रथमा नैषेधिकी, सा चाग्रद्वारे जिनभवनवलानके वक्ष्यमाण पञ्चविधाऽभिगमविधानपुरस्सरं प्रविशता भुवनमल्लनरेन्द्रवत्कार्या सा। यदुक्तं भाष्ये"पंचविहाभिगमेणं, पविसंतो वलाणए निसिहितिगं। कुजा बहि वावारं, न काहमिहिं ति भाविंतो॥१॥" अत्र मनोवचःकायैहादिव्यापारो निषेध्य इति ज्ञापनार्थमुक्तम् / (निसिहितिगं कुज ति) परमेकैवैषा गण्यते, जिनगृहादिबहिर्भावितयैकरूपस्यैव गृहादिव्यापारस्य निषिद्धत्वात् / तथा च लघुभाष्यम्"तणुक्यणमाणसाणं, निसीह विसया निसीहियाति त्ति"। अत्र भुवनमल्लनरेन्द्रकथानकं चैवम् - "कुसुमपुरी अस्थिपुरी,बहुचउरयणाहिएगचउरयणं। एगहरिं भूरिहरिहिँ , परिहवइ अमरनयरिं जा / / 1 / / हेमप्पहो हरि इव, तत्थऽस्थि निवो गवाहिवो सजओ। भज्जा य तस्स रंभा, पुत्तो पुण भुवणमल्लु त्ति // 2 // सूरो रणम्मि सोमो, नयम्मि वको रिउम्मि जो उबुहो। सत्थम्मि मईऍ गुरू, नीईऍ कई अघे मंदो॥३॥ कइया निवं सहत्थं, वित्ती विन्नवइ देव ! बहि एगो। पुरिसो दडु इच्छइ, पहुं कहेइन असो अप्पं // 4 // मुंच त्ति निवुत्ते जा, मुक्को पत्तो य रायदिट्ठिपह।