SearchBrowseAboutContactDonate
Page Preview
Page 1318
Loading...
Download File
Download File
Page Text
________________ चेइयदव्व १२६४-अभिधानराजेन्द्रः-भाग 3 चेइयदव्व जिनबिम्बानि, पूजामपि सपर्यामपि, 'हुः पूरणे, भविष्यन्ति उत्पत्स्यन्ते, यतो यस्मात्, अमी वक्ष्यमाणाः, दोषा दूषणानि, इति गाथार्थः // 6 // तानेवाऽऽहभज्जज्ज व अवणेज्ज व, कोई तुम्हाण कम्मबंधो उ। तम्हा बुज्झह पुन्नं, पावं वा निययपरिणामा॥७॥ भञ्जयेद् विनाशयेद् वाऽपनयेत् स्थानान्तरे कुर्यात् : वाशब्दो समुच्चयाओं, उपलक्षणत्वाद् मठादिकं वा तदुपरि विदध्यात्, कोऽप्येकः,ततः (तुम्हाण त्ति) युष्माकं भक्तां, कर्मबन्ध एव झानावरणीयाद्युपश्लेषः, तुरेवकारार्थो, भवन्निमित्तत्वादिति हृदयम् / तस्माद् बुध्यध्वं जानीत, पुण्यं शुभकर्म, पापं तद्विपरीतं, वाशब्दः समुच्चये / निजकपरिणामात स्वाभिप्रायादिति गाथार्थः / / 7 / / परिणाममेव व्यक्तीकुर्वन्नाहदत्तस्स पुन्नमउलं, भक्खंतस्स य पुणो महापावं / कुसलेयरभावाओ, एवं चिय जिणमहाइसु वि|८|| ददतः प्रयच्छतः, भव्यस्य जिनाय वस्वादीति शेषः। पुण्यं शुभमतुलमनन्यसदृशं, भक्षयतश्च पुनरश्नतो, महापापं गुप्तकिल्विषम्, कुशलेतरभावात् प्रधानेतरान्तःकरणात, एवमित्थम्, जिनमहादिष्वपि सर्वज्ञमन्दिरप्रतिमादिकरणादिष्वपीति गाथार्थः / / 8 / / व्यतिरेकमाहजइ पुण तह कायव्वं,जह दवं नेव होइ चेइहरे। ता कह सहलं वयणं, एयं सिद्धंतसुपसिद्धं // 6 यदि पुनस्तथा कर्त्तव्यं यथा नैव भवति द्रव्यं चैत्यगृहे, ततः कथं सफलं चरितार्थ वचनम्, एतत्-उपदेशपदपठितम्; अर्थतः सिद्धान्तसुप्रसिद्धमिति गाथासंक्षेपार्थः // 6 // तदेव गाथात्रयेणाऽऽहजिणपवयणविद्धिकरं, पभावणं नाणदसणगुणाणं / रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ।।१०।। जिणपवयणविद्धिकर, पभावणं नाणदंसणगुणाणं। वढंतो जिणदव्वं, वित्थरपत्ताइयं लहइ / / 11 / / जिणपवयणविद्धिकरं, पभावणं नाणदंसणगुणाणं / / भक्खंतो जिणदां, अणंतसंसारिओ होइ।।१२।। सुगमाः / अयमाशयः-त्वन्मते जिनद्रव्याभावाक्तथं रक्षणवर्द्धनभक्षणसंभवः / तथा तत्रैव दर्शनशुद्धिप्रथमतत्त्वेचेइयदव्वं साहा-रणं च जो दुहइ मोहियमईओ। धम्मं च सो न जाणइ, अहवा बद्धाउओ नरए / / 56 / / चेइयदव्वविणासे, तद्दव्वविणासणे दुविहभेए। साहू उविक्खमाणो, अणंतसंसारिओ भणिओ / / 57 / / '' तथा पञ्चकल्पे भणितम्--"जया पुण पुव्वपदत्ताणि खेत्तहिरण्णाणि दुपयचउप्पवाई जइ भंडं वा वेड वा चेइयाण लिंगत्था वा चेइयघराओ जिणदव्वोऽयं ति रायभडाई वा छेदेजा, तया तवनियमसंपउत्तो वि साहू जइ न मोएइ, तया तस्स सुद्धी न हवइ, आसायणा य भवइ / एतच कथं सार्थकं, किं च-कृतकत्वाद्देवगृहभङ्गकाले तद् द्रव्याभावात्कथं पुनरुद्धारः क्रियते इति // 12 // सूत्रासंबद्धां गाथामाहअन्नं चाऽसुहतरयं, कुणंतओ विहु सुहाओं भावाओ। पावइ पुण्णं सल्लुद्धरो व्व वीरस्स किं तु सुहं // 13 // अन्यच्चापरं चाशुभकमतिशयानिष्ट, कुर्वाणो विदधानो, 'हुः पूरणे, शुभात्प्रशस्तात्, भावादन्तःकरणात्, प्राप्नोति लभते, पुण्यं शुभं, शल्योद्धारवत् श्रवणकीलिकापनेतृश्वत्, वीरस्य चरमतीर्थकरस्य, किं तु पुनः, शुभं प्रशस्तम् / अयमाशयः-येन कीलिका भगवच्छवणात् निष्कासिता, तेन महती व्यथोत्पादिता, येन तु क्षिप्ता, तेन स्तोकतरा,परं शुभेतराशयादेकस्य स्वर्गोऽपरस्य नरक इति गाथार्थः / / 13 / / इत्थमवस्थिते जीवोपदेशमाहसुपसत्थवत्थकणया-इवत्थुवित्थाररेहिरं पडिमं। कारावसु देसंतो, रे जिय! जई महसि मइ8।। 14 // सुप्रशस्तानि अतिशयरम्याणि, तानि च तानि वरत्रकनकादिवस्तूनि च सचामीकरालङ्कारकर्पूरादिद्रव्याणि, तेषां विस्तारः प्रपञ्चस्तेन ''रेहिरं ति'' देशीभाषया शोभमाना, प्रतिमा जिनबिम्ब, कारय विधापय, दिशन् धर्मकथा कुवन, रे जीव! भो आत्मन! यदि महसि वाञ्छसि, मत्यर्थं चित्ताऽभिप्रेतम् / अयमाशयः-जिनवस्त्रादिनिवारणान्तरायकर्मवश अभीष्टभावस्तव न भविष्यति, इति गाथार्थः / / 14 / / जीवा० 28 अधि०। समर्थः सन् चैत्यद्रव्यपीडामनिवारयन् विसंभोग्यःअहुणा चेतिनिमित्तं, जं कायय्वं तगं वोच्छं। जो देइ चेतियाणं, खेत्तहिरणे व गामगावादी। लग्गंतस्स वि जतिणो, तिकरणसोही कहंणु भवे ? भण्हति इत्थ विभासा, जो एयाइँ सयं वि मग्गेज्जा / / तस्स ण होती सोही, अह कोति हरिज एयाइं। तत्थ करेंत उवेहं,जा सा भणितातु तिगरणविसोहि / / सा य ण होति अभत्ती-ऐं तस्स तम्हा णिवारेज्जा। सव्वत्थामेण तहिं, संघेणं होति लग्गियव्वं तु // पं०भा०। चेइयपरिवाडी स्त्री० (चैत्यपरिपाटी) जिनयात्राक्रमवर्णने, ध०२ अधि० / कल्प० / (चैत्यपरिपाटीकरणादिमहोत्सवः 'अणुजाण' शब्दे प्रथमभागे 367 पृष्ठे उक्तः) चेइयभत्ति स्त्री० (चैत्यभक्ति) चैत्यादिभक्तौ, आव०३ अ०। ('आलंबण' शब्दे द्वितीयभागे 362 पृष्ठे विस्तार उक्तः) चेइयमह पुं० (चैत्यमह) चैत्यमहोत्सवे, आचा०२ श्रु० 1 अ०२ उ०। चेइयरुक्ख पुं० (चैत्यवृक्ष) बद्धपीठवृक्षेषु येषामधस्तात्तीर्थकृतां केयलान्युत्पन्नानि। स०। ('चेइयरुक्खं चलेग्जा' इत्यादि मणुस्सलोय' शब्दे वक्ष्यते) भवनपतीनां दश चैत्यवृक्षाःएएसि णं दसविहाणं भवणवासीणं देवाणं दस चेइयरुक्खा पण्णत्ता / तं जहा "अस्सट्ठसत्तवन्ने,सामलिउंबरसिरीसदहिवन्ने। बंजुलपलासवप्पा-यए य कणियाररुक्खे य॥१॥"
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy