SearchBrowseAboutContactDonate
Page Preview
Page 1317
Loading...
Download File
Download File
Page Text
________________ चेइयथूभ १२६३-अभिधानराजेन्द्रः-भाग 3 चेइयदव्व मंगलगा बहुकिन्हचामरज्झया पण्णत्ता छत्तातिच्छत्ता। तेसिणं चेतियथूभाणं चउदिसिं पत्तेयं पत्तेयं चत्तारि मणिपेढियाओ पण्णत्ताओ।ताओणं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमया० जाव तासि णं मणिपेढियाणं उप्पिं पत्तेयं पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणपित्ताओ पलियंकणिसण्णाओ थूभाभिमुहीओ सन्निक्खित्ताओ चिट्ठति / तं जहा-उसभबद्धमाणचंदाणणवारिसेणा। तेसिणं चेतियथूभाणं पुरओ तिदिसिं पत्तेयं पत्तेयं मणिपेढियाओ पण्णत्ताओ। (जी०) जेणेव चेइयथूभे तेणेव उवागच्छंति, उवागच्छंतित्ता लोमहत्थगं गेण्हंति, गेण्हतित्ता चेइयथूभं लोमहत्थएणं पमजं ति, पमजं तित्ता दिव्वाए, उदगरसेणं पुप्फारुहणं आसत्तोसत्त० जाव धूवं दलयंति। जी० 3 प्रति०। चेइयदव्व न०(चैत्यद्रव्य) जिनद्रव्ये, जिनार्थ सङ्ग्रहीते द्रव्ये, दर्श०। अधुना जिनद्रव्यभक्षणादिद्वारं प्रतिपादयन् गाथाचतुष्टयमाहभक्खेइ जो उवेक्खेइ, जिणदव्वं तु सावओ। पन्नाहीणो भवे जो उ, लिप्पई पावकम्मुणा / / 54 // आयाणं जो भंजइ, पडिवन्नं धणं ण देइ देवस्स। नस्संतं समुवेक्खइ, सो विहु परिभमइ संसारे / / 55 / / चेइयदव्वं साहा-रणं च जो दुहइ मोहियमईओ। धम्म व सो न जाणइ, अहवा बद्धाउओ नरए / / 56 // चेइयदव्वविणासे, तहव्वविणासणे दुविहभेए। साहू उवेक्खमाणो, अणंतसंसारिओ भणिओ // 57 / / भक्षयति यः स्वयमात्मसात्करोति, उपेक्षते अन्येन विलुप्यमानं, जिनद्रव्यम्, तुशब्दः समुच्चयार्थः / ततः श्रावकोऽन्यो वा यथा भद्रकप्रत्यनीकादिः, प्रज्ञाहीनो भवेद् यः, तुशब्दोऽपिशब्दार्थः / ततः प्रज्ञाहीनतया जिनभवनादौ प्रवर्तमानो यदि द्रव्यं प्रणश्यति, तदा सोऽपि लिप्यते श्लिष्यते पापकर्मणा, पातकेनेत्यर्थः / ततः सम्यगागमविधि विज्ञाय सर्वत्र प्रवर्तितव्यम् / तथाऽऽदानं राजाऽमात्यादिना विहितमाभाव्यं, यो भनक्ति विलुम्पति, प्रतिपन्नं यन्नियमेनोपेतम्, इतरथा वा पूजादिनिमित्तम्-यथाऽहमेतद् दास्यामि, धनं द्रव्यं, तस्य वाऽदीयमाने सति सामर्थ्य, समुपेक्षतेकिमेभिः स्वजनादिभिः प्रकोपितैरित्याशयवानुपेक्षां विधत्ते, सोऽपि, न केवलं पूर्वोक्ताः, हुशब्दस्यैवकारार्थस्थादखादन्नपि, जिनाज्ञाऽकरणात्, परिभ्रमति पर्यटति संसारे, तथा चैत्यद्रव्यं, साधारणं च सर्वसामान्यं द्रुह्यति मोहितमतिकः,धर्म वा सन जानाति, बद्धायुष्को वा नरके, चैत्यद्रव्यविनाशे प्रतिमानिष्पात्तिनिमित्त यत् तदुपचाराश्चैत्यद्रव्यं तद्विनश्यति / तद्रव्यविनाशने द्विभेद इति, तस्य चैत्यसंबन्धित्वेन द्रव्यं तद्दव्यं पूजादिकसकलप्रयोजनयोग्यं, परिभुक्तनिर्माल्यद्रव्यं च, तस्मिन् द्विभेदेऽपि, विनश्यति सति, साधुरपि सर्वसम्वररतः सामर्थ्यवानुपेक्षा कुर्वन्ननन्तसंसारिको भणितः प्रतिपादित आगमे। यत उक्तम्-'सचरित्तऽचरितीणं, एयं सव्वेसि कजं ति।'' इति / गाथाचतुष्कसत्तेपार्थः / / 57 / / व्यासार्थं कथानकादवसेयम् / दर्श०१ तत्त्व। द्वा०। (तच कथानकं 'जिणदव्य' शब्दे वक्ष्यते) जिनद्रव्योत्वादवर्णनम्निययंतरायमगणिय-मेने जपंति कुगहगहगहिया। जिणपडिमाणं पूया, पुष्फाईएहिँ कायव्वा / / 1 // वत्थाईएहि नो पुण, जेणं तद्दष्वभक्खणे को वि। पडिही भवंधकूवे , अम्हनिमित्तं इयमईए // 2 // निजकान्तरायमगणित्वाऽविभाव्य एके केचन, सकारोऽलाक्षणिकः, जल्पन्ति वदन्ति / अयमाशयः- एवं भणन्तं महदन्तरायो भवति / किंविशिष्टाः? कुग्रहग्रहग्रहीता अबोधिपिशाचस्वीकृताः, जिनप्रतिमानां सर्वज्ञप्रतिकृतीनां, पुष्पादिभिः कुसुमवासादिभिः, पूजा, कर्त्तव्या विधेया, वस्त्रादिकैर्वसनालङ्कारादिभिः, नो नैव पुनः, येन तद्रव्यभक्षणे वस्त्रादिवित्तादने, कोऽप्यनिर्दिष्ट नामा, पतिष्यति भवान्धकूपे संसारविषमावटे, अस्मन्निमित्तमस्मत्कारणम्, इतिमत्या अनेन बोधेनेति गाथाद्वयार्थः / / 1-2 // एतन्निराकरणार्थ गाथाद्वयमाहआगममग्गुत्तिन्नो, इय बोहा जेण सुविहियजणो वि। बहु मन्नइ, सङ्घकयं, वत्थाईपूयणं बहुहा // 3 // सक्कारवत्तियाई-वयणेणं सो उ वत्थमाईहिं। भणिओ तो तकरणं, तहाय ववहारउत्तं च / / 4 // आगममार्गोत्तीर्णः सिद्धः तपोऽविभ्रष्ट इत्येवं बोधात् येन सुविहितजनोऽपि सुसाधुलोकोऽपि, न केवलमन्य इत्यपेरर्थः / बहु मनुतेऽनुमोदते, श्राद्धकृतं श्रावकविहितं, वस्त्रादिपूजनं वसनालङ्काराद्यभ्यर्चनं, बहुधाऽनेकधा / / 3 / / सत्कारप्रत्ययमित्यादिवचनेन, स पुनःसत्कारो, वस्त्रादिभिः, मकारः पूर्ववत्, भणित उक्तः / तथा चोक्तम्--"मल्लाइराहिँ" पूया, सक्कारो पवरवत्थमाईहिं / अन्ने विवजओ इह, दुहा वि दव्वत्थओ एसो" / / 1 / / ततस्तकरणं सत्कारविधानं, तथाच परं व्यवहारोक्तं च छेदग्रन्थभणितमिति गाथाद्वयार्थः // 4 // तदेवाह-- लक्खणजुत्ता पडिमा, पासाईया समत्तलंकारा। पल्हायइ जह य मणो, तह निजरमो विआणाहि // 5 // लक्षणयुक्ता परिपूर्णाङ्गादिसहिता, प्रासादिका द्रष्टुणामतिप्रमोदजनिका, समस्तालङ्कारा निःशेषभूषणा, प्रह्लादयति सुखयति, यथा येन प्रकारेण, मनः, तथा तेन प्रकारेण, निर्जरा कर्महासलक्षणा, ओ इति निपातः पादपूरणार्थो, विजानीहि बुद्ध्यस्व, समस्तालङ्कारभणनाद्भवन्मतव्यवच्छेद इति गाथार्थः // 5 // सूत्रणैव विहितपातनां गाथामाहकिं च जइ एव भीरू, तुम्हे ता मा करेह चेइहरं। , पडिमाओ पूयं पिहु, होहिंति जओ इमे दोसा // 6 // किञ्चाऽभ्युचये, यद्येवमित्थमस्मन्निमित्तं कर्मबन्धो मा भवत्विति भीरवः, (तुम्हेत्ति) यूयं, ततो, मेति निषेधेकुरुतविधत्त, चैत्यगृहं जिनमन्दिरम, प्रतिमाः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy