________________ ओसप्पिणी 105 - अभिधानराजेन्द्रः - भाग 3 ओसप्पिणी स्ताभिः। ततः पदद्वयपदद्वयमीलनेन कर्मधारयः। तथा वितिमिराः करा यस्यासौ वितिमिरकरो निरन्धकारकिरणः स चासौ सूरश्च तस्येव यः प्रसृत उद्योतः प्रभासमूहस्तेन (चिल्लिआहिं ति ) देशीयपदमेतत् / दीप्यमानाभिरित्यर्थः / ज्वाला एव यदुज्ज्वलं प्रहसितं हासस्तेनाभिरामा रमणीयास्ताभिः अत एव शोभमानम् / तथैव ते दीपशिखा अपि द्रुमगणा अनेकबहुविविधविनसा परिणतेनोद्योतविधिनोपपेताः / यथा दीपशिखा रात्रौ गृहान्तरूद्योतन्ते दिवा गृहादौ तद्वदेते द्रुमा इत्याशयः / एवं च वक्ष्यमाणज्योतिषिकाख्यद्रुमेभ्यो विशेषः कृतोऽपि भवतीति शेष | प्राग्वत्। अथपञ्चमकल्पवृक्षस्वरूपमाह। तीसे णं समाए तत्थ तत्थ बहवे जोइसिआ णामं दुमगणा पण्णत्ता। समणाउसो जहा से अइरूग्गयसरयसूरमंडलपगंतउक्कासहस्सदिप्पंतविजुञ्जालहुअवहणिद्धमजलिअणिद्धतधो-- अतत्ततवणिज्जकिंसुआसोअजपाकुसुमवियसि अपुंजमणिरयणकिरणजच्चहिंगुलस्यणिगररूवाइरेगरूवा तहेव तेजोइसिआ | विदुमगणा / अणेगबहुविविहवीससा परिणया य उज्जोअविहीए उववेया सुहलेसा मंदलेसा मंदयवलेसा कूमा इव ठाणहिआ अन्नोन्नसमोगाढाहिं लेसाहिं साए पहाए तिप्पएसे सव्वओ समंताओ हासें ति उज्जोअंतिपभासंति कुसुमं जाव चिटुंतीति। अत्र व्याख्या। तस्यां समायां तत्थेत्यादि पूर्ववत्।ज्योतिषिका नाम द्रुमगणाः प्रज्ञप्ता इत्यन्वययोजना। अन्वर्थस्त्वयं ज्योतींषि ज्योतिष्का देवास्त एव ज्योतिषिकाः। अत्र मन्तावरणस्वार्थे इक्प्रत्ययः। उणादयो व्युत्पन्नानि नामानि इत्युव्युत्पत्तिपक्षाश्रयणाद्धि सप्रत्ययान्तत्वाभावादिकारलोपाभावश्च संभाव्यते / जीवाभिगमवृत्तौ ज्योतिषिका इति संस्कारदर्शनात् / तत्रापि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं तेनात्र ज्योतिषिकशब्देन सूर्यो गृह्यते तत्सदृशप्रकाशकारित्वने वृक्षा अपि ज्योतिषिकाः।ज्योतिर्वहिदिनेशयोरिति वचनात्।ज्योतिःशब्दः सूर्यवाचको वहिवाचको वा शेषस्वार्थिकप्रत्ययादिकं तथैव। ते च किंविशिष्टा इत्याह / तथा ते अचिरेत्यादिना हुतवह इत्यन्तेन संबन्धः / अचिरोद्गतं शरत्सूर्यमण्डलं यथा वा पतदुल्कासहस्त्र प्रसिद्धं यथा वा दीप्यमाना विद्युत् यथावा उद्गता ज्वाला यस्य स उज्ज्वालस्तथा निधूमोधूमरहितो ज्वलितो दीप्तो यो हुतवहो दहनः सूत्रे पदोपन्यासव्यत्ययः प्राकृतत्वात्। ततः सर्वेषामेषां द्वन्द्वः। एतेच कथंभूता इत्याह। नितितरमनिसंयोगेन यद्धौतं शोधितं तप्तं च तपनीयं ये च किंशुकाशोकजपाकुसुमानां विकसितानां पुजा ये च मणिरतकिरणाः। यश्च जात्यहिडलकनिकरस्तद्रुपेभ्योऽतिरेकेणातिशयेन यथायोग्यं वर्णतः प्रभया च रूपं स्वरूपं येषां ते तथा। ततः पूर्वपदेन विशेषणसमासः। तथैव तेज्योतिषिका अपि दुमगणाः अनेकबहुविधविससा परिणतेनो द्योतविधनोपपेता यावत्तिष्ठन्तीति संटङ्कः / ननु यदि सूर्यमण्डलादिवत्तेजप्रकाशकास्तहिं तद्वत्ते दुर्निरीक्ष्यत्वतीवत्वजङ्गमत्वादिधर्मो पेता अपि भवन्तत्यिाह / सुखलेश्या सुखकारिणीलेश्यास्तथामन्दलेश्यास्तथा मन्दातपस्य / जनितप्रकाशस्य लेश्या येषां ते तथा सूर्यानलाद्यातपस्य तेजो यथा / दुःसहं न तथा तेषामित्यर्थः / तथा कूटानीव पर्वतादिशृङ्गाणीव स्थानस्थिताः स्थिरा इति समयक्षेत्रबहिर्वर्ती ज्योतिष्का इव तेऽवभासयन्तीति भावः। तथा अन्योऽन्यं परस्परंसमवगाढाभिर्लेझ्याभिः सहिता इति शेषः किमुक्तं भवति / यत्र विवक्षितज्योतिषिकाख्यतरूलेश्या अवगाढा तत्रान्यस्य लेश्या अवगाढा यन्त्रान्यतरूतललेश्या अवगाढा तत्र विवक्षिततरूलेश्या अवगाढा इति “साए पभाए इत्यादि पभाए संतीत्यन्तं " सूत्रं विजयद्वारतोरणसंबन्धिरतकरण्डकवर्णने व्याख्यातमिति / कुशविकुशेत्यादि पूर्ववत् / एषां च बहुव्यापी दीपशिखावृक्षप्रकाशापेक्षया तीव्रश्वप्रकाशो भवतीति पूर्वेभ्यो विशेषः। अथषष्ठकल्पवृक्षस्वरूपमाह। तीसे णं समाए तत्थ तत्थ बहवे चित्तंगा णामं दुमगणा पण्णत्ता / समणाउसो जहा से पेच्छाघरे विचित्ते रम्मे वरकुसुमदाममालुजले भासतमुक्कपुष्पगुंजोवयारकलिए विरल्लिअविचित्तमल्लसिरिसमुद्दप्पगन्भे गतिमवेड्डिमसंघाइमेण मल्लेण छेअसिप्पिविभागरइएणं सवओ चेव समणुबद्धे पविरललंबंतविप्पइट्ठपंचवणे हिं कुसुमदामेहिं सोभमाणे वणमाले कयग्गए चेव दिप्पमाणे तहेव ते चित्तंगा वि दुमगणा अणेगबहुविविहवीससा परिणयाए मल्लविहीए उववेआ कुसविकुसं जाव चिटुंतीति। तस्यां समयामित्यादि प्राग्वत् नवरं - चित्तंगा' इति चित्रस्यानेकप्रकारस्य विवक्षायाः प्राधान्यान्माल्यस्याङ्गकरणं तत्संपादकत्वात् वृक्षा अपि चित्राङ्गाः। यथा तत्प्रेक्षागृह विचित्रंनानाचित्रोपेतमतएवरम्यरमयति द्रष्टणां मनांसि इति बाहुलकात्कर्तरि यप्रत्ययः / किं विशिष्टमित्याह / वरकुसुमदाम्नां मालाः श्रेणयस्ताभिरूज्ज्वलं देदीप्यमानत्वात्। तथा भास्वान् विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुजोपचारस्तेन कलितं तथा विरल्लितानि तनु विस्तारे इत्यस्य स्तेनस्तडतद्वत् विरल्ला इत्यनेन विरल्लादेशे कृतेक्तप्रत्यये च विरल्लितानि विरलीकृतानि विचित्राणि यानि माल्यानि ग्रन्थितपुष्पमालास्तेषां यः श्रीसमुदायः शोभाप्रकर्षस्तेन प्रगुल्लमतीव परिपुष्टम् / तथा ग्रन्थितं यत्सूत्रेण ग्रन्थितं वेष्टितं यतः पुष्पमुकुटमिन्दोरूपर्युपरिशिखराकृत्या मालास्थापनं पूरितं यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते संघातिमं यत्पुष्पं पुष्पेण परस्परं नालप्रवेशेन संयोज्यते ततः समाहारद्वन्द्वे एवं विधेन माल्येन छेकशिल्पिना परमदक्षेण कलावता विभागरचितेन विभक्तिपूर्वककृत्येन यद्यत्र योग्यं ग्रन्थितादि तत्प्रयत्नेन सर्वतः सर्वासु दिक्षु समनुबद्धम् / तथा प्रविरलैर्ल म्बनानस्तत्र प्रविरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनायाह। विप्रकृष्टवृहदन्तरालैः पञ्चवर्णैः ततः कर्मधारयः कुसुमदामभिः शोभमानं वनमाला वन्दनमाला वन्दनमालाकृता अग्रभागे यस्य तत्तथा / तथाभूत्तं सद्दीप्यमानं तथैव चित्राङ्गा अपि नाम द्रुमगणाः / अनेकबहुविविधविस्रसा परिणतेन माल्यविधिनोपपेताः “कुसविकुसविसुद्धमूलादि" प्राग्वत्। अथ सप्तमकल्पवृक्षस्वरूपमाह। तीसेणं समाए तत्थ तत्थ बहवे चित्तरसा णाम दुमगणा पणत्ता समणाउसो जहा से सुगंधवरक मलसालितंदुलविसिइणिरूवहयदुद्धरद्धे सारयघयगुलखंडमहुमोलिए अइरसे परमरमणे होजा उत्तमवण्णगंधपते / अहवारण्णो चक्कवट्टि