________________ चुल्लहिमवंत 1202- अभिधानराजेन्द्रः-भाग 3 चुल्लहिमवंत णिणआ, साणं कण्णिआ कोसं आयामेणं, अद्धकोसंबाहल्लेणं सवकणगामई अच्छा, तीसे णं कण्णिआए उणि बहुसमरमणिज्जे जाव मणीहिं उवसोभिए। तस्स णं पउमस्स | अवरूत्तरेणं उत्तरपुरच्छिमेणं एत्थ णं सिरीए देवीए चउण्हं सामाणिअसाहस्सीणं चत्तारिपउमसाहस्सीओ पण्णत्ताओ। तस्स णं पउमस्स पुरच्छिमेणं एत्थ णं सिरीए देवीए चउण्हं महत्तरिआणं चत्तारि पउमा पण्णत्ता। तस्स णं पउमस्स दाहिणपुरच्छिमेणं एत्थणं सिरीए देवीए अभिंतरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठपउमसाहस्सीओ पण्णत्ताओ। दाहिणेणं मज्झिमपरिसाए दसण्हं देवसाहस्सीणं दस पउमसाहस्सिओ पण्णत्ताओ, दाहिणपच्छिमेणं बाहिरिआए परिसाए वारसाण्हं देवसाहस्सीणं वारसए पउमसाहस्सीओ पण्णत्ताओ। पञ्चच्छिमेणं सत्तण्हं अणिआहिवईणं सत्त पउमा पण्णत्ता। तस्स णं पउमस्स चउद्दिसिं सव्वओ समंता इत्थं णं सिरीए देवीए सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस पउमसाहस्सीओ पण्णताओ। सेणं पउमवरपरिक्खेवेहिं सव्वओ समता परिक्खित्ते। तं जहा-अभितरके णं मज्झिमएणं वाहिरएणं अम्भितरपउमपरिक्खेवे वत्तीसंपउमसयसाहस्सीओ पण्णत्ताओ, मज्झिमए, पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पण्णत्ताओ। बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ पण्णत्ताओ। एवामेव सपुव्वावरेणं तिहिं पउमपरिक्खेवेहिं एगा पउमकोडी वीसंच पउमसयसाहस्सीओ भवंतीति अक्खाया ''से णं'' इत्यादि। तत् पद्ममन्येनाष्टशतेन पदानां तदर्दोचत्तप्रमाणमात्राणां तस्य मूलपद्मप्रमाणस्यार्द्धमर्द्धपा उच्चत्वे उच्चत्वोच्छ्रये प्रमाणे चायामविस्तारबाहुल्यरूपे मात्र प्रमाणं येषां तानि तथा, तेषां, सर्वतः समन्तात् संपरिक्षिप्तम्। अत्र जलोपरितनभागे उच्चत्वस्य व्यवहारप्राप्तस्य विवक्षाणादर्द्धप्रमाणं संभवत्यन्यथा जलावगाहसहितोचत्वविवक्षायामुत्तरसूत्रे सातिरेकं पञ्चयोजनानि इति वक्तव्यं स्यात्, सामान्यत उक्तमेव मानं व्यनक्ति-"तेण' इत्यादि प्रागुक्तप्रायम्। एषां वर्णकमाह-"तेसि णं' इत्यादि व्यक्तम्। "सा ण" इत्यादि इदमपि व्यक्तम्। "तीसे णं " इत्यादि व्यक्तम्। एषु च श्रीदेव्या भूषणादिवस्तूनि तिष्ठन्ति इति सूत्रानुक्तोऽपि विशेषो बोध्यः।। अथ द्वितीयपद्मपरिक्षेपमाह'तस्स णं' इत्यादि / तस्य मूल पद्मस्यापरोत्तरस्यां वायव्यकोणे, उत्तरस्याः, उत्तरपूर्वस्यामीशानकोणे च, सर्वसंकलनया तिसृषु दिक्षु, अत्रान्तरे श्रिया देव्याश्चतुर्णा सामानिक सहस्त्राणां चत्वारि पद्मसहस्त्राणि प्रज्ञप्तानिातस्य पद्मस्य पूर्वस्यां दिशि, अत्र श्रियाश्चतसृणां महत्तरिकाणां चत्वारि पद्मानि प्रज्ञप्तानि। अत्र प्राग्व्यावर्णितविजयदेवसिंहासनपरिवारानुसारेण पार्षद्यादिपद्मसूत्राणि वक्तव्यानि, सुगमत्वाच्च न विद्रियन्ते, यावत्पश्चिमाया सप्तानिकाधिपतीनां सप्त पद्मानि।। अत्र तृतीयपद्मपरिक्षेपसमयः-"तस्स णं' इत्यादि। तस्य मुख्यपद्यस्य, चतसृणां दिशां समाहारश्चतुर्दिक्, तस्मिन् चतुर्दिशि, सर्वतः समन्तात् अत्रान्तरे श्रिया देव्याः षोमशानामात्मरक्षकदेवसहस्त्राणां षोडश पद्मसहस्त्राणि। तथाहि चत्वारि पूर्वस्यां, चत्वारि दक्षिणस्याम, एवं पश्चिमोत्तरयोः। अथोक्तव्यतिरिक्ता अन्येऽपि त्रयः परिवेषाः सन्तीत्याह"से णं पउमे' इत्यादि। तत्पद्म त्रिभिरुक्तव्यतिरिक्तैः पद्मपरिक्षेपैः समन्तात् संपरिक्षिप्तम्। तष्ट्याअभ्यन्तरकेणाभ्यस्तरभवेन, मध्यभवेन, बाहिरकेण, बहिर्भवन, एतदेव व्यनक्तिअभ्यन्तरपद्मपरिक्षेपे द्वात्रिंशत्पद्माना शतसहस्त्राणि लक्षाणि, मध्यमके चत्वारिं शत्कपद्मलक्षाणि, बाह्येऽष्टचत्वारिंशत्पद्मलक्षाणि प्रज्ञत्पानि! इदं च पद्मपरिक्षेप त्रिकम् अभियोगिकदेवसंबन्धि बोध्यम्, अत एव भिन्नत्रिकख्यापनपरं सूत्रं निर्दिष्टम्। अन्यथा सूत्रकृत् चतुर्थपञ्चमषष्ठपरिक्षेपा इत्येवाऽकथयिष्यता ननु तर्हि अभियोगिकजातानामेक एवात्मरक्षकाणामिव वाच्यम्। उच्यते-उच्चमध्यनीचकार्यनियोज्यत्वेनानियो गिकानां भिन्नेन परिक्षेपस्यापि भिन्नत्वात्। अथ परिक्षेपत्रिकस्य पद्मसर्वाग्रमाह"एवामेव'' इत्यादि। एवमेवोक्तन्यायेन सपूर्वापरेण पूर्वापरसमुदायेन त्रिभिः पद्मपरिक्षेपैरेका पद्मकोटी विंशतिश्च पद्मलक्षाणि भवन्तीत्याख्यातं मयाऽन्यैश्च तीर्थकृङ्गिः। संख्यानयनं च स्वपमभ्युह्यम्, षण्णां पद्मपरिक्षेप्राणां मुख्यपद्मन सह मीलने सैव संख्या पञ्चासत्सहस्त्रैकशतविंशत्यधिका ज्ञातव्या। स्थापना यथा-५०१२०। ननु कमलानि कमलिन्याः पुष्परूपाणि भवन्ति, मूलं कन्दश्च कमलिन्या एव भवतः, न तु कमलस्य तत् कथमत्र मूलकन्दावुक्तौ? उच्यते-कमलान्यत्र न वनस्पतिपरिणामान, किंतु पृथवीकायपरिणामरूपाणि, कमलाकारक्षाणामेतेषामिमौ न विरुद्धाविति, अत्राद्यपरिक्षेपपद्मानां मूलपमादर्द्धमानं सूत्रकृता साक्षादुक्तम्, उत्तरोत्तरपरिक्षेपपद्मानां तुपूर्वपूर्वपरिक्षेपपद्मभ्योऽर्द्धार्द्धमानतायुक्तितः संगच्छते, देवप्रासाद-उक्तेरिव, अन्यथाऽल्पर्द्धिकमहर्द्धिकदेवानामाश्रयतारतम्यं, चतुर्थादिमहापरिक्षेपपद्यानामवकाशः, शोभमानिस्थितिकत्वं च न संभवेयु। अर्द्धार्द्धमानता चैवम्-मूलपद्मं योजनप्रमाणम्, आद्ये परिक्षेपे पद्मानि द्विक्रोशमानानि, द्वितीये कोशमानानि, तृतीयेऽध्दक्रोशमानानि, चतुर्थे पञ्चधनु:शतमानानि, पञ्चमे सार्द्धद्विशतधनुर्मानानि, षष्ठे सपादशतधनुर्मानानि तथा मूलपद्मापेक्षया सर्वपरिक्षेपेषु जलादुच्छ्यभागोऽप्यद्धिक्रमेण ज्ञेयः। यथा मूलपद्ये जलात्क्रोशद्वयमुच्छ्य आधे परिक्षेपक्रोश उच्छ्रयः, द्वितीये क्रोशार्द्ध , तृतीये क्रोशचतुर्थांशः, चतुर्थे क्रोशाष्टांशः, पञ्चमे क्रोशषोड्शांशः षष्ठे क्रोशद्वात्रिंशांश इति। एवमेव मूलपद्मापेक्षया पद्मानां बाहल्यमप्य र्द्धक्रमेण वाच्यं, ननु षट् परिक्षेपा इति विचार्य, योजनात्मना सहस्वत्रयात्मकस्य धनुरात्मना द्विकोटिद्विचत्वारिंशल्लक्षप्रमाणस्य द्रहपरमपरिधेः षष्ठपरिक्षेपपद्मानां षष्टिकोटिधनुःक्षेत्रमायतानाम् एकया पङ्क्तया कथमवकाशः संभवति?, एवं प्रथम परिक्षेपवर्ज शेषपरिक्षेपाणामपि तत्तत्परिधिमाने पद्ममानं परिभाव्य वाच्यम्। उच्यते-षट्परिक्षेपा इत्यत्र षट्जातीयाः परिक्षेपा इति ग्राहाम्। आद्या भूलपद्मार्द्धमाना जातिः, द्वितीया तत्पादमाना, तृतीया तदष्टमभागमाना, चतुर्था तत् षोडशभागमाना, पञ्चमी तद्द्वात्रिंशत्तमभागमान्ना, षष्ठी तश्चतुःषष्टितमभागमाप्ततश्चतत्परिधिक्षेत्रपरिक्षेपपद्मसंख्यापद्मविस्तारान् परिभावय-यत्र यावत्यः पङक्तयः संभवन्ति गणितज्ञेन करणयोस्तत्र तावतीभिः पङ्क्तिभिरेक एव परि