________________ चिलाईपुत्त 1163 - अभिधानराजेन्द्रः - भाग 3 चिलिमिली अड्डाइजेहि राई-दिएहिँ पत्तं चिलाइपुत्तेणं। देविंदामरभवणं, अच्छरगणसंकुलं रम्मं / / 213 / / अर्द्धतृतीयैः रात्रिन्दिवैः प्राप्तं चिलातिपुत्रेण देवेन्द्रस्येव अमर भवनम्, अप्सरोगणसंकुलं रम्यमिति गाथार्थः / आव०२ अ० आ०म०। चिलाय पुं० (किरात) सिन्धुमहानदस्य पश्चिमायामविदूरे बलूचिस्तान इतिख्यातेम्लेच्छदेशभेदे, तजे मनुष्वजातौ च। ये हि भरतेन महाराजेन आपाना नाम किराताः पराजिताः / प्रज्ञा०१ पद / जं० / स्था०। कोटीवर्षस्याधिपती राजनि, आव०४ अ० / आ०क०। आ० चू०। (मूलगुणप्रत्याख्याने कथा) चिलायपुत्त पुं० (किरातपुत्र) किरातीपुत्रे, व्य०१ उ०। चिलिचिलं (देशी) आर्द्र, दे० ना०३ वर्ग। चिलिमिली स्त्री० (चिलिमिलि) जवनिकायाम् व्य०८ उ० / आचा०।। प्रच्छादनपट्याम्, सूत्र०२ श्रु०२ अ०। कप्पइ निग्गंथाण वा निग्गंथीण वा चेलचिलिमिलियं धारित्तए वा। अस्य संबन्धमाहसागारिपच्चयट्ठा, जह घडिमत्तो तहा चिलिमिली वि। रतिं च हेट्ठऽणंतर, इमाउ जयणा उभयकाले // सागारिको गृहस्थः, तत्प्रत्ययार्थयथा घटीमात्रकः, तथा चिलिमित्रिकाऽपि धारयितव्या, तदधस्तात् सूत्र, ततोऽनन्तरं तस्मिन्नपावृतद्वारोपाश्रयसूत्रे रात्रौ चिलिमिलिकादिप्रदानयतना भणिता, इयं तु उभयकाले-रात्रौ दिवा च कर्त्तव्या इति। अनेन संबन्धेनाऽऽयातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा चेलचिलिमिलिकां धारयितुं वा / एष सूत्राक्षरार्थः। अथ भाष्यविस्तरः - धारणया उ अभोगो, परिहरणा तस्स होइ परिमोगो। चेल उपहाणतर तो, गहणं तस्सेव नऽन्नासिं / / धारणता तु अभोगो अव्यापारणं, परिहरणा तु-तस्य चिलिमिलिकाख्यस्योपकरणस्य परिभोगो व्यापारणमुच्यते। आह-वस्त्ररथकटबल्कदण्डभेदात् पञ्चविधा चिलिमिलिका वक्ष्यते, तत्कथं सूत्रे चेलचिलिमिलिकाया एव ग्रहणमिति ? आह-चेलं तु वस्त्रं रऽऽवादीनां मध्ये बहुतरोपयोगित्वात् प्रधानतरं, ततस्तस्यैव सूत्रे ग्रहणं कृतं, नान्यासा रज्जुचिलिमिलिकादीनाम् / अथ चिलिमिलिकाया एव भेदादिनिरूपणाय द्वारगाथामाहभेदो य परूवणया, दुविह पमाणं च चिलिमिलीणं तु / उवभोगो उ दुपक्खे, अगहणऽधरणे य लहु दोसा।। प्रथमतः चिलिमिलिकाभेदो वक्तव्यः, ततस्तासामेव प्ररूपणा कर्तव्या, ततो द्विविधं प्रमाणं गणनाप्रमाणभेदात् चिलिमिलिकानाम-भिधातव्यम्, चिलिमिलिकाविषय उपभोगो द्विपक्षे संयतीपक्षद्वयस्य वक्तव्यः चिलिमिलिकाया अग्रहणे अधारणे च चतुर्लघुकाः प्रायश्चित्तं / दोषाश्चाज्ञादयो भवन्ति। एतद्द्वारगाथासंक्षेपार्थः। अथैनामेव प्रतिद्वारं विवरीषुराह - सुत्तमई रज्जुमई, वग्गमई दंडकड्डगमई य। पंचविह चिलिमिलि पुण, उवम्गहकरी भवे गच्छे / / सूत्रमयी रज्जुमयी वल्कमयी दण्डमयी कटकमयी चेति पञ्चविधा चिलिमिली, एषा पुनर्गच्छे गच्छवासिनामुपग्रहकरी भवति। उक्तो भेदः। अथ सूत्रप्ररूपणा क्रियते-सूत्रस्य विकारः सूत्रमयी, सा च वस्त्रमयी वा, कम्बलमयी वा प्रतिपत्तव्या, रजोर्विकारो रज्जुमयी, ऊर्णादिमयो दवरक इत्यर्थः / वल्कं नाम-शरणादिवृक्षत्वगरूपं, तेन निर्वृत्ता वल्कमयी, दण्डको वंशवेत्रादिमथी यष्टिस्तेन निर्वृत्ता दण्डकमयी, कटो वंशकटादिस्तनिष्पन्ना कटकमयी। गता प्ररूपणा। अथास्याः पञ्चविध्या अपि चिलिमिलिकाया - यथाक्रमं गाथात्रयेण द्विविधं प्रमाणमाहहत्थपणगं उदीहा, तिहत्थ रुंदोन्नियाणऽसइ खोमा। एतप्पमाण गणणे-क्कमेक्क गच्छं व जा वेट्टे॥ प्रमाणगणनाभेदाद् द्विविधं प्रमाणं, तत्र प्रमाणमाश्रित्य सूत्रमयीचिलिमिलिका हस्तपञ्चकं दीर्घा, त्रीन् हस्तान् रुन्दाविस्तीर्णा भवति / एष चोत्सर्गतस्तावदौर्णिकी, ऊर्णिक्या असत्यलाभे क्षौमिकी ग्रहीतव्या। वल्कचिलिमिलिकाया अप्येतदेव प्रमाणम् / गणनाप्रमाणं पुनरधिकृत्य एकैकस्य साधोः, एकैकस्यां यावत्यो वा गच्छं वेष्टयन्त्यो भवन्ति, या वा प्रातिहारिकी गच्छं सकलमपि वेष्टयति सा गणनयैका, प्रमाणेन च नियता। असतोण्णि खामरज्जू, एक पमाणेन जा उ वेटेइ। कटहूवग्गादीहिं, पोत्तेऽसइ भए व वग्गमई॥ रज्जुचिलिमिलिका पूर्वमौर्णिकदवरकरूपा, तस्या अभावे क्षौमिकदवरिका, सैकाऽपि कर्तव्या, साच सर्वेषामपि साधूनां प्रत्येकं गणनयेकैका, प्रमाणेन तु हस्तपञ्चकदीर्घा भवति, गणावच्छेदिकहस्ते वा एक एव दवरको भवति, यः सकलमपिगच्छ शातादिरक्षायै वेष्टयति। कमहू नामवृक्षविशेषः, तस्य यद्वल्कम्, आदिशब्दात्पालाशीशणा-दिसबन्धि, वल्केन निवृत्ता वल्कमयी, सा च (पोत्तेऽसइ ति) वस्त्रचिलिमिलिकाया अभावे, भये वा स्तेनादिसमुत्थे गृह्यते। देहाधिओ गणणेको, दुवारगुत्ती भए व दंडमथी। संचारिम चतुरो वा, भय माणे कडमसंचारं / तस्य प्रमाणदधिको यो दण्डः स देहाधिकः, स च गच्छपरिभाषया देहाचतुरडलाधिकप्रमाणा नालिका भण्यते, एतावता प्रमाणमुक्तम्। स च देहाधिको दण्डको गणनयैकैकस्त्वाधारकैको भवति, सैश्च दण्डकैः श्वापदादिभयेद्वारगुप्तिः-द्वारस्य स्थगनं क्रियते। एष दण्डमयो द्रष्टव्यः / एताश्चादिमाश्चतसश्चिलिमिलिका वस्रतेर्वसतिक्षेत्रात् क्षेत्रं संचरन्तीति संचारिमा उच्यन्ते, कटकमयी तु असंचारिमा, माने च प्रमाणे द्विविधे तां कटकमयीं चिलिमिली भज विकल्पय, अनियतप्रमाणेत्यर्थः तत्र प्रमाणडङ्गीकृत्य यावत्या वक्ष्यमाण कार्य पूर्यते तावत्प्रमाणा कटकचिलिमिली, गणनया तु यद्येकः कटः कार्य न प्रतिपूरयति ततो द्वित्र्यादयोऽपि तावत्संख्याकाः ग्रहीतव्या यावद्धिस्तत्कार्य पूर्यते। गत द्विविधं प्रमाणम्। अथोपभोगो द्विपक्षे इति पदं विवृणोति - सागारिएँ सज्झाए पाणदऍ गिलाणे सावयभए वा।