________________ चव्वाग 1167 - अभिधानराजेन्द्रः - भाग 3 चाइ (ण) यदतीतं वरगात्रि ! तन्नते। नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम्॥२॥" सूत्र०१ श्रु०१ अ०१ उ०। प्रमाणं चात्र प्रत्यक्षमेव, नानुमानादिकम् - संति पंच महब्भूया, इह मेगेसिमाहिया। पुढवी आउ तेऊवा, वाउ आगास पंचमा॥७॥ सन्ति विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि, सर्वलोकव्यापित्वान्महत्वविशेषणम्, अनेन च भूताभाववादिनिराकरण द्रष्टव्यम्।। इहास्मिम् लोके एकेषां भूतवादिनामाख्यातानि प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिर्हिस्पत्यमतानुसारिभिराख्यातानि स्वयमङ्गी-कृत्यान्येषां च प्रतिपादितानि / तानि चामूनि-(सूत्र०टी०) पृथ्वी 1 आपो जलं 2 तेजो बह्निः 3 वायुः४ आकाशं पञ्चमं येषां तानि। ननु सांख्यादिभिरपि भूतानि मन्यन्त एव तत् कथं चार्वाकमतापेक्षयैव भूतोपन्यास इति चेत् ?, उच्यते-साङ्यादिभिर्हि प्रधानाहङ्कारादिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमङ्गीक्रियते / चाकिस्तु भूतव्यतिरिक्तं नात्मादि किञ्चिन्मन्यत इति तन्मताश्रयणेनैवायं सूत्रोपन्यास इति। (सूत्रन्दी०) यथा चैतत् तथा दर्शयितुमाह -- एए पंच महन्भूया, तेडभो त्ति आहिया। अह तेसिं विणासेणं, विणासो होइदेहिणो / "एए पंच महन्भूया" इत्यादि। एतान्यनन्तरोक्तानि पृथिव्यादीनि पञ्च महाभूतानि यानि तेभ्यः कायाकारपरि-णतेभ्य एकः कश्चिचिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यरिक्तोऽपरः कश्चित्परपरिकल्पितः परलोकानुयायी सुखदुःखभोक्ता जीवास्यः पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते। तथाहि एवं प्रमाणयन्ति-न पृथिव्यादिव्यतिरिक्त आत्माऽस्ति, तद्गाहकप्रमाणाभावात् / सूत्र०१ श्रु०१ अ०१ उ० / आच०। ('आता' शब्दे द्वितीयभागे 180 पृष्ठे चैतदात्मनः साम्परायिकत्वसिद्धिय॑क्षेणोपापादि) चव्वागि (ण) त्रि० (चार्वाकिन्): 'चव्वाइण' शब्दार्थे , प्य०३ उ०। चसग पुं० (चषक)। सुरापानपात्रे, जं०५ वक्ष०! चाइ (ण) त्रि० (त्यागिन्)। सङ्गत्यागवति, भ०२ श०१ उ०। पं०व०। आजीविकादिभयप्रव्रजितः संक्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एवाऽत्याग्येव, कथम्?, यत आह सूत्रकारःवत्थगंधमलंकारं, इत्थीओ सयणाणि य अच्छंदा जे न भुंजंति, न से चाइ ति वुच्चइ // 2 // वस्त्रगन्धालङ्कारानित्यत्र वस्त्राणि चीनांशुकादीनि, गन्धाः कोष्टपुटादयः, अलङ्काराः कटकादयोऽनुस्वारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, शयनानि पर्यादीनि, चशब्द आसनाद्यनुक्त समुच्चयार्थः / एतानि वस्त्रादीनि किम् ?, अच्छन्दा अस्ववशाः,ये केचन, नभुञ्जतेनासेवन्ते। बहुवचनोद्देशेऽप्येक वचननिर्देशः / विचित्रत्वात्सूत्रगतेः, विपर्ययश्च भवत्येवेति कृत्वा आह-नाऽसौ त्यागीत्युच्यते सुबन्धुवन्नासौ श्रमण इति सूत्रार्थः / कः पुनः सुबन्धुरित्यत्र कथानकम्-“जया णंदो चंदगुत्तेण | णिच्छूढो, तया तस्स दारेण निगाच्छंतस्स दुहिया चंदगुत्ते दिढि बंधइ। एयं अक्खाणयं जहा आवस्सए-जाव विंदुसारो राया जाओ, णंदसतिओ य सुवंधूणाम अमचो। से चाणकस्स पट्टे समावण्णो छिद्दाणि मग्गति। अण्णया रायाणं विन्नवेइ-जदि वितुम्हे अम्हं वित्तं ण देह, तहा वि अम्हेहिं तुम्ह हियं वत्तव्यं / भणियं च-तुम्ह माया चाणक्केण मारिया। रन्ना धाती पुच्छ्यिा / आमंति। कारणं ण पुच्छिया केण वि कारणेणं रन्नो य सगासं चाणको आमओ, जावदिट्टिणोदेति ताव चाणिक्को चिंतेतिरुट्टो एस राया। अहं गताउत्ति काउंदव्वं पुत्तपपुत्ताण दाऊणं संगोवित्ता य गंधा संजोइया, पत्तयं च लिहिऊण सो वि जोगो समुग्गे बूढो / समुग्गो य चउसु महूसासु बूढो, तासु छुभित्ता पुणों गंधो वरए बूढो, तंबहूहिं कीलियाहिं सुधडियं करेता दव्वजायं णातवग्गं च धम्मे णिउइत्ता अडवीए गोकुलट्ठाणे इंगिणिमरणं अब्भुवगओ। रण्णा य पुच्छियं-चाणको किं करेइ ? धाती यसे सव्वं जहावत्तं परिकहेइ / गहियपरमत्थेण य भाणियं-अहो ! मया असमिक्खियं कतं, सव्वंतेउरजीहवलसमग्गो खामेउं णिग्गतो, दिह्रो अणेण करीसन्भडिओ, खामियं सबहुमाण, भणिओ अणेण-णगरं वचामो। भणति-मए सव्वपरिचाओ कओत्ति, तओ सुवंधुण राया विण्णविओ, अहं से पूर्व करेमि अणुजाणह, अणुण्णाए धूवं डहिऊण तम्मि चेव एगप्पदेसे करीसस्सोवरि ते अंगारे परिवेति। सोय करीसो पलितो, दड्ढो चाणक्को / ताहे सुवंधुणा राया विण्णविओ-चाणकस्स संतियं घरं ममं अणुजाणह, अणुण्णाए गओ पचुविक्खमाणेण य घरं दिट्ठो, अपरवरको घट्टिओ। सुबंधू चिंतेइ-किमवि अच्छति / कवामे भजित्ता उग्घाडिउमंजूसंपासइ / सा वि उग्घाडिया जाव समुग्गं पासइ। मघमघंतगंधयं पत्तयं पेच्छति। तं पत्तयं वाएति। तस्सय पत्तयस्स एसो अत्थो-जो एयं चुन्नयं अग्धाएति-सो जइ ण्हाइ वा, समालभइ वा, अलंकारेइ सीओदगं च पिवति महतीए सिजाए सुवति जाणेण गच्छइ गंधव्वं वासुणेइ, एवमादी अन्ने वा इडे विसए सेवेति। जहा साहुणो अच्छति तह सो जदिण अच्छेइ तो मरति / ताहे सुवंधुणा विणासणत्थं अण्णो पुरिसो अग्घावित्ता सद्दाइणो विसए भुंजाविओ, मओ य, तओ सुवंधू जीवियट्ठी, अकामो साहू जहा अत्यंतो विण साहू।" एवमधिकृतसाधुरपि न साधुरतो न त्यागीत्युच्यते, अभिधेयाऽर्थाभावात्। यथा चोच्यते तथा अभिधातुकाम आहजे य कंते पिए भोए, लद्धे विपिट्टि कुव्वइ। साहीणे चयई भोए, से हु चाइ त्ति वुच्चइ / / 3 / / चशब्दस्य अवधारणार्थत्वात् य एव कान्तान् कमनीयान्, शोभनानित्यर्थः / प्रियानिष्टान्, इह कान्तमपि किञ्चित् कस्यचित् कुताश्चिन्निमित्तान्तरादप्रियं भवति / यथोक्तम्- "चउहि टाणेहिं संते गुणे णासेज्जा / तं जहा-रोसेण, पडिनिवेसेणं, अकयण्णुयाए.मिच्छत्ताभिनिवेसेणं।" अतो विशेषणं प्रियानिति, भोगान् शब्दादीन्विषयान्, लब्धान् प्राप्तान, उपनतानिति यावत् / (विपिट्टि कुव्वइ त्ति) विविधमनेकैः प्रकारैः शुभभावनादिभिः, पृष्ठतः करोति, परित्यजतीत्यर्थः / स चन बन्धनबद्धः प्रोषितो वा, किं तु स्वाधीनोऽपरायत्तः, स्वाधीनानेय त्यजति भोगान् / पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम् / भोगग्रहणं तु संपूर्णभोगग्रहणार्थ, त्यक्तोपनतभोगसूचनार्थ वा / ततश्च य ईदृशः हुशब्दस्यावधारणार्थत्वात्. स एव त्यागीत्युच्यते, भरहतादिवादिति। अत्राह-“जदि भरजंयुनामादिणो संयुण्णे जे संते