________________ चरित्त 1146 - अभिधानराजेन्द्रः - भाग 3 चरित्त पुन्ने वंदे पूए नमसणिज्जे जीवियं सुजीविर्य तेसिं" / / महा०५अ०। "अह दूसमारसेसे, होहा नामेण दुप्पसह समणो। अणगारो गुणगारो, धम्मागारो तवोऽगारो // 13|| सो किर आयारधरो, अपच्छिमो होइ ताव भरहवासे। तेण समं आयारो, नस्सिहि सम्मं चरित्तेणं // 14 // " ति०॥ (मूलगुणोत्तरगुणयोरेकस्य नाशे द्वयोरपि नाश इति 'अइयार' शब्दे प्रथमभागे 6 पृष्ठे उक्तम्) अत्र चोदक आह-यदि मूलगुणानां नाशे उत्तरगुणानामपि नाशः, उत्तरगुणानां नाशे मूलगुणानामपि स्यात् ततो न खलु नैव मूलगुणाः सन्ति, नाप्युत्तरगुणाः, यस्मान्नास्ति स संयतो यो मूलात्तरगुणानामन्यतमं गुणं न प्रतिसेवते अन्यतमगुणप्रतिसेवने च द्वयानामपि मूलोत्तरगुणानामभावः, तेषामभावे सामायिकादिसंयमाभावः, तदभावे वकुशादिनिर्गन्थानामभावः, ततः प्राप्त / तीर्थमचारित्रमिति। सूरिराह - चोयग छक्कायाणं, तु संजय जाऽणुधावाए ताव। मूलगुण उत्तरगुणा, दोण्णि वि अणुधावए ताव / / चोदक! यावत् षट्जीवनिकायेषु संयमोऽनुधावति अनुगच्छति प्रबन्धेन वर्तते तावत् मूलगुणा उत्तरगुणाश्च द्वयेऽप्येते अनुधावन्ति प्रबन्धन वर्तन्ते। इत्तरसामइयच्छे-यसंजमा तह दुवे नियंठा य। चउसु पडिसेवणा ता, अणुसज्जंते य जा तित्थं। यावन्मूलगुणा उत्तरगुणाश्चानुधावन्ति तावदित्वरसामायिकच्छेदसंयमावनुधावतः, यावचेत्वरसामायिकच्छेदोपस्थानसंयमौ तावत् द्वौ निर्ग्रन्थावनुधावतः / तद्यथा-वकुशः, प्रतिसेवकश्च / तथाहि-यावद् मूलगुणप्रतिसेवना तावत्प्रतिसेवको, यावदुत्तरगुणप्रतिसेवना तावदकुशः, ततो यावत्तीर्थ तावदकुशाः, प्रतिसेवकाश्च अनुसञ्जन्ति अनुवर्तन्ते, ततो नाचारित्रं प्रसक्तं प्रवचनमिति / अथ मूलगुणप्रतिसेवनायामुत्तरगुणप्रतिसेवनायां वा चारित्रभ्रंशे अस्ति कश्चिद्विशेषः, उत नास्ति ? अस्ति इति ब्रूमः। कोऽसावित्याह - मूलगुणे दइयसगमे, उत्तरगुणे मंडवे सरिसवाई। छक्कायरक्खणहा, दोसु विसुद्धेसु चरणसुद्धी॥ मूलगुणेषु दृष्टान्तो दृतिः, शकटं च / केवलमुत्तरगुणा अपि तत्र दर्शयितव्याः, उत्तरगुणेषु दृष्टान्तो मण्डपं, सर्वपादि, आदिशब्दात् शिलादिपरिग्रहः तत्राऽपि मूलगुणा अपि दर्शयितव्याः / इयमत्र भावनाएकेनापि मूलगुणप्रतिसेवनेन तत्क्षणादेव चारित्रभ्रंश उपजायते, उत्तरगुणप्रतिसेवनायां पुनः कालेन, अत्र दृष्टान्तो दृतिकः / तथाहियथा दृतिक उदकभृतः पञ्चामहाद्वारः, तेषां महाद्वाराणामेकस्मिन्नपि द्वारे मुत्कलीभूते तत्क्षणादेव रिक्तो भवति, सुचिरेण तु कालेन पूर्यते, एवं महाव्रतानामेकस्मिन्नपि महाव्रते अतिचर्यमाणेततक्षणदेव समस्तचारित्रभंशो भवति, एकमूलगुणघाते सर्वमूलगुणानां घातान् / तथा च गुरवो व्याचक्षते-एकव्रतभङ्गे सर्वव्रतभङ्ग इति। एतन्निश्चयनयमतं, व्यवहारतः पुनरेकव्रतभने तदेवैकं भग्नं प्रतिपत्तव्यम्, शेषाणां तु भगः क्रमेण यदि प्रायश्चित्तप्रतिपत्त्या नानुसंधत्ते इति / अन्ये पुनराहुःचतुर्थमहाव्रतप्रतिसेवने तत्कालमेव सकलचारित्रभ्रंशः, शेषेषु पुनर्महाव्रतेष्वभीक्ष्णप्रतिसेवनया महत्यतिचरणे वा वेदितव्यः, उत्तरगुणप्रतिसेवनायां पुन: कालेन चरणदंशो, यदि पुनः प्रायश्चित्तप्रतिपत्त्या नोजवालयति। एतदेव कुतोऽवसेयमिति चेत् ? उज्येते-शकटदृष्टान्तात् / तथाहि-शकटस्य मूलगुणा द्वे चक्रे, उट्ठी, अक्षश्च, उत्तरगुणा वधकीलकलोहपट्टादयः / एतैर्मूलगुणैरुत्तरगुणैश्च सुसंप्रयुक्तं सत् शकटं यथा भारवहनक्षम भवति, मार्गे च सुखं भवति, तथा साधुरपि मूलगुणैरुत्तरगुणैश्च सुसंप्रयुक्तः सन् अष्टादशशीलाङ्गसहस्रभारवहनक्षमो भवति, विशिष्ट उत्तरोत्तरसंयमाध्यवसायस्थानपथे च सुखं वहति। अथ शकटस्य मूलाङ्गानामेकमपि मूलाङ्ग भग्नं भवति तदा न भारवहनक्षम, नापि मार्गे प्रवर्तते. उत्तरानेषु कैश्चितद् विनाऽपि शकट कियत्कालं भारक्षम भवति, प्रवहति च मार्गे, कालेन पुनर्गच्छताऽन्यान्यपरिशटनादयोग्यमेव तदुपजायते / एवमिहापि मूलगुणानामेकस्मिन्नपि मूलगुणे हते न साधूनामष्टादशीलासहराभारवहनक्षमता, नापि संयमश्रेणिपथे प्रवहणम्, उत्तरगुणेषु कैश्चिदप्रतिसेवितैरपि भवति कियन्तं कालं चरणभारवहनक्षमता, स्त्रयमश्रेणिपथे प्रवर्तनं च, कालेन पुनर्गच्छता तन्नऽप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशः ततः शकटदृष्टान्तादुपपद्यते मूलगुणानामेकस्यापि मूलगुणस्य नाशे तत्कालं चारित्रभ्रंशः, उत्तरगुणनाशे कालक्रमेणेति / इतश्चैतदेव मण्डपसर्षपादिदृष्टान्तात् / तथाहिएरण्डादिमण्डपे यद्येको द्वौ बहवो वा सर्षपाः, उपलक्षणमेतत्, तिलतण्डुलादयो वा प्रक्षिप्यन्ते, तथाऽपि न मण्डपो भङ्ग मापद्यते, अतिप्रभूतैश्चाढकादिसंख्याकैर्भज्यते। अथ तत्र महती शिला प्रक्षिप्यते, तदा तयैकयाऽपि तत्क्षणादेव ध्वंसमुपयाति। एवं चारित्रमण्डपोऽप्येकद्वित्र्यादिभिरुत्तरगुणैरतिचर्यमाणैर्न भङ्गमुपयाति, बहुभिस्तु कालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारे तत्कालं ध्वंसमुपगच्छतीति, तदेवं यस्मान्मूलगुणातिचरणे क्षिप्रमुत्तरगुणातिचरणे कालेन चारित्रभंशो भवति तस्मान्मूलगुणा उत्तरगुणाश्च निरतिचाराः स्युरिति षट्कायरक्षणार्थ सम्यक् प्रयतितव्यम्, षड्कायरक्षणे हि मूलगुणा उत्तरगुणाश्च शुद्धा भवति, तेषु च द्वयेष्वपि शुद्धेषु, (अत्र गाथायामेकवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवतीति) चरणशुद्धिः चारित्रशुद्धिः / व्य०१ उ० / नि० चू० / दर्श०। चारित्रफलम् - इह भविए भंते ! चरित्ते, परमविए चरित्ते ? गोयमा ! इह भविए चरित्ते, णो परभविए चरित्ते,णो तदुभय भविए चरिते, एवं तवे, संजमे। चारित्रसूत्रेनिर्वचने विशेषः। तथाहि-चारित्रमैहभविकमेव, नहिचारित्रवानिह भूत्वा तेनैव चारित्रेण पुनश्चारित्री भवति, यावज्जीवताऽवधिकत्वात्तस्य / किञ्चचारित्रिणः संसारे सर्वविरतस्य देशविरतस्य च देवेष्येवोत्वपादात्, तत्र च विरतेरत्यन्तमभावान्मोक्षगतावपि चारित्रसम्भवाभावात्। चारित्रं हि कर्मक्षपणायानुष्ठीयते, मोक्षे च तस्याऽकिञ्चित्करत्वात्, यावजीवमिति प्रतिज्ञासमाप्तेस्तदन्यस्याश्चाग्रहणात्, अनुष्ठानरूपत्वाच्च चारित्रस्य, शरीरभावे च तदयोगात् / अत एवोच्यते-“सिद्धेनो च