SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ चरित्त 1145 - अभिधानराजेन्द्रः - भाग 3 चरित्त निव्वाणम्मि असंतम्मि, सव्वा दिक्खा निरत्थया / / तीर्थस्याचारित्रतायां साधुनिर्वाणं न गच्छति। असति च निर्वाणे सर्वा दीक्षा निरर्थका / व्य०१० उ०। पञ्चा०। ('उवसम' शब्दे द्वितीयभागे 1028 पृष्ठे चारित्रमो हनीयस्योपशमताऽभिहिता) “नाणेण होइ करणं, करणं नाणेण फासियं होइ। दुण्ह पिसमाओगे, होइ विसोही चरित्तस्स / / " द०प०ा केषाञ्चित्कषाणामुदये चरित्रस्य लाभ एव न भवति, केषाञ्चित् पुनर्लब्धमपि अतिचरति प्रतिपतति च। आ० चू०१ अ०। वीतरागाणां चरित्रं न वर्द्धते, नापि हानिमुपगच्छति, कषायाणामभावात्, किन्त्ववस्थितमेकमेव परमप्रकर्षप्राप्त संयमस्थानमिति, सरागसंयतानां तु केषाञ्चिद् वर्धते, केषाञ्चिद्धीयते / व्य०१० उ० / वयवहारनयमते देशभङ्गेऽपि सर्वभङ्गाभावः चारित्रमवतिष्ठत एव / व्य०१ उ०। वस्तुतो योगस्थैर्यरूपं चारित्रं महाभाष्यस्वरससिद्धमिति महता प्रवन्धेनोपपादितमध्यात्ममतपरीक्षायाम् / प्रति० / “चारित्रमात्मचरणाद, ज्ञान वा दर्शनं सुनेः / शुद्धज्ञाननये साध्यक्रियालाभात् क्रियानयः / / 3 / / " अष्ट०१३ अष्ट / “सम्मत्त आचरितस्स हुज भयणाएँ नियमसो नत्थि। जो पुण चरित्तजुत्तो, तस्स हु नियमेण सम्मत्तं / / 1 / / " संथा० / सम्मत्तम्मि उ लद्ध, पलियपुहत्तेण सावओ होजा। चरणोवसमवयाणं, सायरसंखतरा हुति।" श्रा०। आधिक्यस्थैर्यसिद्ध्यर्थं , चक्र भ्रामकदण्डवत्। असौ व्यञ्जकताऽप्यस्य, तदलोपनतिक्रिया // 26 // आधिवयं सजातीयपरिणामप्राचुर्य, स्थैर्य च पतनप्रतिबन्धः, तसिद्ध्यर्थ चक्रभ्रामकदण्डवदसावुपदशे उपयुज्यते / यथाहि दण्डो भ्रमतश्चक्रस्य दृढीभ्रम्यर्थं, भग्नभ्रमेर्वा भ्रम्याधानार्थमुपयुज्यते, न तूचितभ्रमवत्येव, तत्र तथोपदेशोऽपि गुणप्रारम्भाय, तत्प्रतिबन्धाय चोपयुज्यते, नतु स्थितिपरिणाम प्रतीति। तदुक्तमुपदेशपदे-"उवएसो वि हुसफलो, गुणठाणारंभगाण जीवाणं। परिवडमाणाण तहा, पायन उ तट्टियाणं पि" // 1 // व्यञ्जकताऽप्यस्योपदेशस्य तबलेन परिणामबलेनोपनतिक्रिया सन्निधानलक्षणा, अन्यथा घटादी दण्डादेरपि व्यञ्जकत्वापत्तेरिति भावः / 26 / द्वा०१७ द्वा० / द्रव्यस्तवं निर्दूषणं प्रसाध्य-"अलमित्थपसंगेणं, एवं खलु होइ भावचरणं तु / परिसुज्झिस्सतंऽण्णे, भावे जिअकम्मजोएणं // " इत्यादि / अथवाऽत्र द्रव्यचरणम् - "भावचरणमुग्गविहारणा य दव्वचणं तु जिणपूजा। पढमा जइ ण दुण्णि वि, जइणं पढम चिय पसत्था / / 1 / / कंचणमाणस्सुसिए सवण्णतले जो कारवेज जिणहरं, तओ वि संजमतवो अणंतगणो, तवसंजमेण बहुभवसमजिअपाव-कम्ममलपवह निद्वविऊणं अइसासयसुखं वए सुखं काउं जिणायणेहि मंडिअंसयलमेइणीवट्ट दाणाइचोक्केण वि सुट्ट विगच्छिज्ज इअ भूयं न परओ ति।" प्रति०। (चारित्रस्य निन्दा प्रशंसा च 'अदुसराइय' शब्दे प्रथमभागे 811 पृष्ठे उक्ता) (चारित्रस्यावर्ण वदतीति अवण्णवाय' शब्दे 763 पृष्ठे व्याख्यातम्) नचरित्रं विराधयेतजया विसए उदिजंति, पमणाऽसणविसं पि वा। काऊवंधिऊण मरियव्वं, नो चरित्तं विराहए।। अह एयाई न सके जा, तो गुरुणो लिंगं समप्पिय / विदेसे जत्थ नागच्छे, पउत्ती तत्थ गंतूणं / / अणुव्वयं तु पालिज्जा णो मविया णिद्धम्मो। महा०५ अ०। विइयचरिमव्वयाई, पई चरित्तमिह सव्वदव्वेसु" इति 'सामाइय' शब्दे प्रपञ्चयिष्यते) आहारशुद्धिरेव मुख्यश्चारित्रहेतुरुपुष्यते / यदुक्तम्"पिंड असोहयंतो, अचरित्ती इत्थ संसओ नस्थि / चारित्तम्मि असते, सव्वा दिक्खा निरत्थीया।" ध०२०। इदानीमप्यस्ति चारित्रं पञ्चयामचातुर्यामचिन्तां कृत्वा, ननु तर्हि द्वाविंशतिजिनयतीनां ऋजुप्राज्ञानां भवतु धर्मः, परं प्रथमजिनयतीनां जुजडानां कुतो धर्मः?, अनवबोधात्, तथा च वक्रजमानां वीरयतीनां तु सर्वथा धर्मस्य अभाव एव, मैवम्, ऋतुजडाना प्रथमजिनयतीनां जडत्वेन स्खलनासद्भावेऽपि भावस्य विशुद्धत्वाद् भवतिधर्मः तथा वक्रजडानामपि वीरजिनय-तीनां ऋजुप्राज्ञापेक्षया अविशुद्धो भवति, परं सर्वथा धर्मो च भवति इति न वक्तव्यम्, तथावचने हि महान् दोषः। यदुक्तम्- “जो भणइनस्थिधम्मो, नय सामइयं न चेव य वयाई सो समणसंघवज्झो, कायव्यो समणसघेण" / / 1 / / कल्प०१क्षण। दर्श०। पञ्चा०॥ एष एवार्थः पुष्करिण्यादिदृष्टान्तेन भायनीयः। यथापूर्वकाले पुष्करिण्यादयो महापरिमाणा आसन, इदानीं तु न तथा, तथापि पुष्करिण्य एवेत्येवमिदानी हीनमपि चारित्रत्वं न विजहाति, किन्तु यावत्प्रायश्चित्तं तावत्प्रायश्चित्तम्। न विणा तित्थ नियंठे-हि नियंठा वा अतित्थगा चेव / छक्कायसंजमो जा-व ताव अणुसज्जणा दोण्हं। निर्ग्रन्थेविना तीर्थं न भवति, तेनापि विना निर्गन्था अतीर्थकास्तीर्थरहिता भवन्ति, परस्परव्यवच्छिन्नतया एकस्याऽपरस्य भावात्, तिम्रन्थग्रहणं संयतानामुपलक्षणं, तदेतदपि द्रष्टव्यमसंयतैर्विना न तीर्थ, नापि तीर्थमन्तरेण संयता निर्ग्रन्थाः, संयताश्च प्रथमभवनेन चतुर्दशपूर्वधरव्यवच्छेदेऽपि विद्यन्ते, यतो यावत् षट्कायसंगमस्तावत् द्वयानामनुषज्जनाऽनुवर्तमाना समस्ति, षट्कायसंयमश्च प्रत्यक्षत्तोऽद्याप्युपलभ्यते, ततः सन्ति निर्गन्थाः, सन्ति संयता इति प्रतिपत्तव्यं, तत्सत्त्वं प्रतिपत्तव्य, तत्सत्त्वप्रतिपत्तौ च तीर्थसचारित्रमित्यपि, प्रत्येकभव्यं चारित्रे सति प्रायश्चित्तमस्त्येव / / सवण्णू हिँ परूविय, छक्काय महव्वया य समितीओ। सच्चेव य पन्नवणा, संपतिकाले वि साहूणं / / तेनोववन्न तित्थं, दसणनाणेहिँ एव सिद्धं तु / निजवगा वोच्छिन्ना, जं पि य भणियं तु तन्न तहा।। पूर्वसाधूनां सर्वज्ञैश्चारित्रस्य प्रतिपत्तयो रक्षणाय च षट्कायानां महाव्रतानि समितयश्च प्ररूपिताः, सैव च प्रतिज्ञापना सम्यगाराध्यतया संप्रतिकालेऽपि साधूनामस्ति, तत उपपन्नं सम्प्रत्यपि चारित्रमस्ति, एवं च सिद्धं न तीर्थं ज्ञानदर्शनाभ्यां व्रजति, किं तु ज्ञानदर्शनचारित्रैरिति। व्य०१०उ०। तचाकल्किराजपर्यन्तम् - “से भयवं ! उर्ल्ड पुच्छा ? गोयमा ! तओ परेणं उड्ढे हीयमाणे कालसमये, तत्थ णं जे के इ छक्कायसमारंभविवज्ज से णं धन्ने
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy