________________ चरित्त 1143 - अभिधानराजेन्द्रः - भाग 3 चरित्त सुहुम अहक्खायाइं, खयओ समओ व नण्णत्तो॥१२५७।। सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकलक्षणान्याद्यानि त्रीणि चारित्राणि श्रेणिद्वयादन्यत्र कषायक्षयोपशमात् पूर्वप्रतिपन्नानि प्रतिपाद्यमानानि च लभ्यन्ते, अनिवृत्तिबादरस्य पुनरुपशमश्रेणौ तदुपशमात्पूर्वप्रतिपन्नानां तेषां लाभः, क्षपक श्रेणौ तु क्षयादिति / सूक्ष्मसंपराययथाख्यातचरित्रे तूपशमश्रेणौ कषायोपशमात्, क्षपक श्रेणी तु तत्क्षयाल्लभ्येते, नान्यतः, क्षयोपशमान प्राप्यत इत्यर्थः / / 1257 / / आह-ननु "तस्स विसेसा इमे पंच'' (1254) इत्यत्र किं सामान्य चारित्रमात्रं तच्छब्दस्य वाच्यम्, आहोस्वित् द्वादशानां कषायाणां क्षयादिभ्यो यदनन्तरमेवोक्तं तदेवेत्याशड्ययाहलब्भइ चरित्तलाभो, खयाइओ वारसण्ह नियमोऽयं / न उपंचविहनियमणं, पंच बिसेस त्ति सामण्णं // 1258|| द्वादशानां कषायाणां क्षयादितः क्षयक्षयोपशमोपशमेभ्य एव | लाभश्चारित्रस्य, नान्यथा इत्येवमेवेह नियमो द्रष्टव्यो, न तु पञ्चविधनियमनं, द्वादशकषायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न कर्तव्य इत्यर्थः / किं तर्हि ?, द्वादशानामधिकानां वा कषायाणां क्षयादितो लब्धस्य तस्य सामान्येनैव | चारित्रस्यैते वक्ष्यमाणाः पञ्च विशेषा इत्येवं सामान्यं चारित्रमात्र तच्छब्दस्य संबध्यत इति॥१२५८।। अथ कस्माद्वादश कषायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न क्रियते इत्याहजं तिण्णि वारसण्णं, लभंति खयाइओ कसायाणं। सुहमं पन्नरसण्हं, चरिमं पुण सोलसण्हं पि।।१२५६।। यतः सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकलक्षणानि त्रीण्येव चातित्राणि द्वादशकषायाणां क्षयादितो लभ्यन्ते, इति कथं तत्क्षयादिलभ्यस्य चारित्रस्य पञ्चविधत्वं स्यात् ? सूक्ष्मसंपरायचारित्रं तु संज्वलनलोभवर्जितानां शेषपञ्चदशकषायाणां क्षयादुपशमाद्वा लभ्यते / चरमं तु यथाख्यातचारित्रं षोडशानामपि कषायाणां क्षयात्, उपशमाद्या प्राप्यते। एवं च सतिसामान्यस्यैव चारित्रस्य पञ्च विशेषा भवन्ति। इतिगाथापञ्चकार्थः / / 1256 / / (चरित्रादेव मोक्ष इति 'किरिया णय' शब्देऽस्मिन्नेव भागे 554 पृष्ठे उपपादितम्) चरित्ररहितं ज्ञानं दर्शनं वा न स्वातन्त्र्येण मोक्षसाधनम्। आव०२ अ०। साम्प्रतमसहायदर्शनपक्षे दोषा उच्यन्ते। यदुक्तं-"ने सेणिओ आसि" इत्यादि। तन्न / तत्त्वत एवासौ नरकमगमत्, असहायदर्शनयुक्तत्वात्, अन्येऽप्येवंविधा दसारसिंहादयो नरकमेव गता इत्याह - दसारसीहस्सय सेणिअस्स, पेढालपुत्तस्स य सचइस्स। अणुत्तरा दंसणसंपया तया, विणा चरित्तेण हरागई गया || दसारसिंहस्य अरिष्टनेमिपितृव्यपुत्रस्य, श्रेणिकस्य च प्रसेनजितपुत्रस्य, पेढालपुत्रस्य च सत्यकिनः, अनुत्तरा प्रधाना, क्षायिकीत्मुक्तं भवति का ? दर्शनसंपत्, तदा तस्मिन् काले, तथापि विना चारित्रेण धरागतिं गता नरकगतिं गताः, नरकगति प्राप्ता इति वृत्तार्थः / / 64|| किंचसव्याओ विगईओ, अविरहिआ नाणदंसणधरेहिं। ता मा कासि पमायं, नाणेण चरित्तरहिएणं // 15 // सर्वा अपि नारकतर्यड्नरामरगतयः अविरहिता अवियुक्ताः कः ?, ज्ञानदर्शनधरैः, यतः सस्वेिव सम्यक्त्वश्रुतसामायिकद्वयमस्त्वेव, न नरकगतिव्यतिरेकेण अन्यासु मुक्तिः, चारित्राभायात्, तस्माचारित्रमेव प्रधानं मुक्तिकारणं, तगावभावित्वादिति, यस्मादेवं (तामा कासि पयायं ति) तत्तस्मान्मा काषीः प्रमादं ज्ञानेन चारित्रम्, एतेन तस्येष्टकलासाधकत्वात्। ज्ञानग्रहणं च दर्शनोपलक्षणार्थमिति गाथार्थः / / 65|| इतश्चारित्रमेव प्रधान, नियमेन चारित्रयुक्ते एव सम्यक्त्वसद्भावादाहचसम्मत्तं अचरित्त-स्स हुन्न भयणाइ निअमसो नत्थि। जो पुण चरित्तजुत्तो, तस्स उनिअमेण सम्मत्तं / / 16 / / सम्यक्त्वं प्रानिरूपितस्वरूपम्, अचारित्रस्य चारित्ररहि-तस्य प्राणिनः, भवेत् भजनया विकल्पनया, कदाचिद् भवति कदाचिन्नेति नियमशो नास्ति नियमेन न विद्यते, प्रभूता नां चारित्ररहितानां मिथ्यादृष्टित्वात्, यः पुनश्चारित्रयुक्तः सत्त्वस्तस्यैव, तुशब्दस्यावधारणर्थत्वात् नियमेनावश्यं तया सम्यवत्वमतः सम्यक्त्वस्यापि नियमतश्चारित्रयुक्त एव भावात्प्राधान्यमिति गाथार्थः / / 66 / / किञ्च - जिणवयणबाहिरा भा-वणाहि उव्वट्टणं अयाणंता। नेरइअतिरिअएगि-दिएहि जह सिज्झई जीवो / / 17 / / जिनवचनबाह्या यथावस्थितागमपरिज्ञानरहिताः, प्रत्येकं ज्ञानदर्शननयाऽवलम्बिनः (भावणाहिं ति उक्तेन न्यायेन ज्ञानदर्शनभावनाभ्यां सकाशान्मोक्षमिच्छतीति वाक्यशेषः उद्वर्तनामजानानां नारकतीर्यगेकेन्द्रियेभ्यो यथा सिद्ध्यति जीवस्तथोद्वर्तनामजानाना इति योगः। इयमत्र भावनाज्ञानदर्शनाभावेऽपि न नारकादिभ्योऽनन्तरमनुष्यभावमप्राप्य सिद्ध्यति कश्चित्, चरणाभावात्, तेन तयोः केवलयोरहेतुत्वमोक्षं पतितेभ्य एवैकन्द्रियेभ्यश्च ज्ञानादिरहितेभ्योऽप्युद्वृत्तो मनुष्यत्वमपि प्राप्य चारित्रपरिणाम एव सिद्ध्यति, नायुक्तो अकर्मभूमिकादिरत इयमुद्वर्तना कारणावैकल्यं सूचयतीति गाथार्थः / / 671) पुनरपि चारित्रमेव पक्षं समर्थयन्नाह - सुद्ध वि सम्मविट्ठी, न सिज्झई चरणकरणपरिहीणा। जं चेव सिद्धिमूलं, मूढो तं चेव नासेइ॥९८|| सुष्ठवप्यतिशयेनाऽपि, सम्यग्दृष्टिन सिद्ध्यति, किंभूतः? चरणकरणपरिहीनः, तद्वादमेव च समर्थयति, किमिति ? यदेव सिद्धिमूलं तदेव मोक्षकरणं सम्यक्त्वं, मूढस्तदेव नाशयति, केवलंतद्वादसमर्थनेन “एक पि असद्दहतो, मिच्छत्त" इति वचनात् / अथवा-सुष्ठवपि सम्यग्दृष्टि, क्षायिक सम्यग्दृष्टिरपीत्यर्थः / न सिद्ध्यति चरणकरणपरिहीनः श्रेणिकादिवत्, किमिति ? यदेव सिद्धिमूलचरणकरणमूढस्तदेव नाशयति, अनासेवयेति गाथार्थः / / 68||