SearchBrowseAboutContactDonate
Page Preview
Page 1166
Loading...
Download File
Download File
Page Text
________________ चरित्त 1142 - अभिधानराजेन्द्रः - भाग 3 चरित्त स्साई, अपरिस्साई / एवामेव चउव्विहे चरित्ते पन्नत्ते तं जहाभिन्ने० जाव अपरिस्साई। तथा भिन्नः स्फुटितो, जर्जरितो राजीयुक्तः, परिश्रावी दुष्पक्वत्वात् क्षरकः, अपरिश्रावी कठिनत्वादिति / चारित्रं तु भिन्न मूलप्रायश्चित्तापत्त्या, जर्जरितं छेदादिप्राप्त्या, परिश्रावि सूक्ष्मातिचारतया, अपरिश्रावि निरतिचारतयेति / इह च पुरुषाधिकारेऽपि यचारित्रलक्षणं पुरुषधर्मभणनं तद्धर्मधम्मिणोः कथञ्चिभेदादनवद्यमवगन्तव्यमिति / स्था०४ ठा०४ उ०1 (सामायिकदिशब्देषु पृथग्व्याख्यानम्) सामायिकादि पञ्चविधं चारित्रम् - सामाइयऽत्थ पढम, छे ओवट्ठावणं भवे वीयं / परिहारविसुद्धीअं,सुहुमं तह संपरायं च / / 1260 // तत्तो य अहक्खायं, खायं सव्वम्मि जीवलोगम्मि। जं चरिऊण सुविहिया, वचंतऽयरामरं ठाणं / / 1261 / / (एषां पदानां व्याख्या स्वस्वस्थाने) विस्तरार्थं तु भाष्यकृदाहसव्वमिणं सामइयं, छेयाइविसेसओ पुणो भिन्नं / अविसेसियमाइमयं, ठियमिह सामण्णसन्नाए।१२६२।। सावजजोगविरइ, त्ति तत्थ सामाइयं दुहा तं च। इत्तरमावकहं तिय, पढमं पढमंतिमजिणाणं // 1263|| तित्थेसुमणारोविय-वयस्स सेहस्सथोवकालीयं / सेसाणमावकहियं, तित्थेसु विदेहवाणं च / / 1264 / सर्वमपीदं चारित्रमविशेषतः सामायिकमेव, एतदेव च छे दादिविशेषविशिष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते, तत्राद्यं विशेषणाभावात्सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति। तत्र सावद्ययोगविरतिस्वरूपमेतत्सामायिकम् / तच द्विधा-इत्वर, यावत्कथितं च / तत्त्वरं स्वल्पकालीनं भरतैरावताद्यचरमतीर्थकरतीर्थयोरेवानारोपितमहाव्रतस्य शिष्यकस्य दृष्टव्यम् / यावत्कथिकं यावजीविकं भरतैरावतप्रथमचरमवर्जशेषतीर्थकरतीर्थसाधूनां महाविदेहजानां च साधूनामवसेयमिति / / 1264 // अथ प्रेरकः प्राह - नणु जावजीवाए, इत्तरियं पि गहियं मुयंतस्स। होइ पइन्नालोवो, जहाऽऽवकहियं मुयंतस्स / / 1265 / / आह-ननु करोमि भदन्त ! सामायिकं यावजीवमित्येवं व्रतग्रहणकाले इत्वरमपि सामायिकं गृहीतमुपस्थापनायां मुञ्चतः प्रतिज्ञालोपः प्राप्नोति, यावत्कथितपरित्याग इव / अत्रोत्तरमाहनणु भणियं सव्वं चिय, सामाइयमिणं विसुद्धिओ भिन्नं / सावजविरइमइयं, को वयलोवो विसुद्धीए।।१२६६।। ननूक्तं सर्वमेवेदं चारित्रमविशेषतः सावद्ययोगविरतिसामान्यात् सामायिकमेव छेदादिविशुद्धिविशेषर्विशेष्यमाणमन्यथात्वं प्रतिपद्यते, ततः को नाम विशिष्टतरायां विशुद्धौ प्रतिपद्यमानायां व्रतलोपः ? न कश्चिदित्यर्थः / / 1266 // कुत इत्याह - उन्निक्खमओ भंगो, जो पुण तं चिय करेइ सुद्धयरं। सन्नामित्तविसिटुं, सुहुमंपिव तस्स को भंगो।।१२६६।। उन्निष्क्रामतः प्रव्रज्यात्यागमेव कुर्वतो व्रतमङ्गो भवति, यर पुनस्तदेव प्राक् ग्रहीतं चारित्रं विशुद्धतरं संपादयति, संज्ञामात्रेण तु चारित्रं विशिष्ट भिन्नं, तस्य भङ्गोन भवति, किंतु सुतरामेव व्रतनैर्मल्यं संपद्यते, यथा सामायिकसंयतस्य (सुहुमंति) सूक्ष्मसंपरायं प्रतिपद्यमानस्य, छेदोपस्थावपनीयस्य वा परिहारविशुद्धिकमड़ीकुर्वतो व्रतनिर्मलत्वमिति // 1267|| छेदोपस्थापनीयस्य व्याख्यानमाह - परियायस्स य छेओ, जत्थोवट्ठावणं वएसु च / छेओवट्ठावणमिह, तमणइआरेयरं दुविहं / / 1268|| सेहस्स निरइयारं, तित्थंतरसंकमे च तं होजा। मूलगुणघाइणो सा-इयारमुभयं च ठियकप्पे / / 1266 / / (जत्थति) यत्र चारित्रे पूर्वपर्यायस्य छेदो व्रतेषु चोपस्थापन विधीयते, तदिह छे दोपस्थापनं, तत्र द्विधा-सातिचारमनतिचार च / तत्र शिष्यकस्योपस्थापनायां, तीर्थान्तरसंक्रान्तौ वा यदारोप्यते तन्निरतिचारं भवेत, यत्तु मूलगुणघातिनः पुनरपि समारोप्यते तत्सातिचारम् / एतचोभयमपि स्थितकल्प एव भवति, न स्थितास्थितकल्पे, तत्र भरतैरावतप्रथमचरमतीर्थकरसाधूनां स्थितकल्पः / विशे०। प्रव०। आतु०। सूत्र०। पं० भा०। आ० म०। ('सामाइय' आदिशब्दे पृथक् 2 व्याख्यानम्) (केषां कषायाणामुदये चारित्रमतिचर्यते इति 'अइयार' शब्दे प्रथमभागे 8 पृष्ठे उक्तम्) अथ तत्क्षयोपशमादिभ्यश्चारित्रप्राप्तिमभिधित्सुराह - वारसविहे कसाए, खविए उवसामिए व जोगेहिं। लब्भइ चरित्तलंभो, तस्स विसेसा इमे पंच / / 1254|| द्वादशविधे द्वादशप्रकारेऽनन्तानुबन्धादिभेदभिन्ने, कषाये, जातावेकवचनं, क्रोधादिलक्षणे, क्षपिते विध्यातानितुल्यता नीते, उपशमिते भस्मच्छन्नदहनकल्पतांप्रापिते, वाशब्दात क्षयोपशमे चार्धविध्यातज्वलनसमतामुपकल्पिते, योगैमनोवाक्कायरूपैः प्रशस्तैहेतुभिर्लभ्यते चारित्रलाभः, तस्य च सामान्येन चारित्रस्य विशेष भेदा एते वक्ष्यमाणाः पञ्च / इति नियुक्तिगाथार्थः / / 1254|| भाष्यम् - खविए उवसमिएवा, वासदेणं खओवसमिए वा। वारसविहे कसाए, पसत्थझाणाइजोगेहिं।।१२५५|| गतार्थाः नवरं प्रशस्तध्यानं प्रशस्त मनः॥१२५५।। क्षीणादिकषायस्वरूपमाह - खीणा निव्वायहुआ-सण्णो वा छारपिहिय ध्व उवसंता। दरविज्झायविहाडिय-जलणोवम्मा खओवसमा।।१२५६। व्याख्यातार्था, नवरम् अर्द्धविध्यातविघट्टितज्वलनोपमाः क्षायोपशमिककषायाः क्षयोपशमावस्थेषु कषायेषु दलिकस्य वेदनमप्यस्ति, तच विघट्टितवह्निकल्पमिति / / 1256 / / / अथ कस्य चरित्रस्यं कथं लाभ इत्याहखयओ वा समओ वा, खओवसमओ व तिन्नि लन्मंति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy