SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ चरण 1126 - अमिधानराजेन्द्रः - भाग 3 चरण व्वओपरिगहाओवेरमणं 5" इतिव्रतानि। “दसविधे समणधम्मे पण्णते। जंजहा-खंती 1 मुत्ती 2 अज्जवे३ मद्दवे 4 लाघवे५ सच्चे 6 संजमे 7 तवे८ चियाए वंभचेरवासे 10 / " क्रोधज्रयः 1, निर्लोभता 2 मायात्यागः३ अहंकारत्यागः 4 परिग्रहत्यागः 5 सत्यं 6 प्राणातिपातविरमणरूपः 7 तपः८ त्यागः सुविहितेभ्यो वस्त्रादिदानरूपः 6 ब्रह्मचर्यम् 10 इति श्रमणधर्मः / पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाणां - पालनान्नव भेदाः 6, अजीवसंयमः पुस्तकचर्मपञ्चकादीनामनुपभोगा यतनया परिभोगो वा हिरण्यादित्यागो वा 10 प्रेक्षासंयमः स्थानादियत्र चिकीत् तत्र चक्षुषा प्रेक्षां कुर्यात् 11 उपेक्षासंयमो व्यापारविषयतया द्वेघा तत्र सदनुष्ठाने सदितः साधूनोपेक्षेत, प्रेरयेदित्यर्थः / गृहिणस्तु आरम्भे सीदतः उपेक्षेत, न व्यापारयेतू 12 प्रमार्जनासंयमः पथि पादयोर्वसत्यादेश्च विधिना प्रमार्जनं 13 परिष्ठापनासंयमः अविशुद्धभतोपकरणादेर्विधिना त्यागः 14 मनोवाकायसंयमाः अकुशलानां मनोवाक्कायानां निरोधाः 15 श्रीउमास्वातिवाचकपादैस्तु संयमभेदाः प्रशमरतावेवमुक्ताः “पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः / / 1 / / इति संयमः। “दसविधे वेयावचे पण्णत्ते। तंजहा-आयरियावचे १उवज्झाय 2 थेर 3 तवस्सि 4 गिलास 5 सेह 6 कुल ७गण 8 संघह वेयावचे साहम्मियवेयावच्चे 10 // " इति वैयावृत्यम् / “नव बंभचेरगुत्तीओ पण्णत्ताओ। तं जहा-विचित्ताई सयणासणाई सेवित्ता भवति, नो इत्थिसंसत्ताई नो पसुसंसत्ताई नो पंडगसंसत्ताई 1 नो इत्थीणं कहं कहेत्ता हवइ।" नो स्त्रीणां केवलानां कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपाम् 2 “नो इस्थिट्ठाणाई सेवेत्ता भवति। ठाणं निषद्या 3, णो इत्थीणं मणोहराईमणोरमाइं इंदियाई आलोइत्ता निभाइत्ता भवइ ४,णोपणीयरसभोई५. णो पाणभोयणस्स अइमात्तमाहारए सया भवति 6, णो पुव्वरयं पुटवकीलियं सरिता भवइ 7, णो सद्दाणुवाती णो रूवाणुवाई णो सिलोगाणुवाई 8, णो सायासोक्खपडिवखे यावि भवइ 6 इति ब्रह्मगुप्तयः / ज्ञानदर्शनचारित्रलक्षणं ज्ञानादित्रिकं तपो द्वादशधा पूर्वोक्तम् 12, क्रोधमानमायालोभत्यागः 4 क्रोधादिनिग्रह इति चरणम् / ग०१ अधि० / सप्ततिसंख्याश्चरणस्य चारित्रस्य भेदा भवन्तीति, चरणसप्ततिसंज्ञा इत्यर्थः / अत्रायं विवेकःचतुर्थव्रतान्तर्गतत्वेऽपि नवब्र गुप्तीना पृथगुपादानं तुर्यव्रतस्य निरपवादत्वसूचनार्थम् / यत उक्तमागमे-"न य किंचि अणुण्णायं, पडिसिद्धं या वि जिणवरिंदेहिं / मुत्तु मेहुणभावं, न विणा तं रागदोसेहि / / 1 / / , तथा व्रतग्रहणेन चारित्रस्य गतार्थत्वेऽपि ज्ञानादित्रिके चारित्रग्रहणं शेषचतुर्विधचारित्रसंग्रहार्थं, व्रतशब्देन सामायिकादिपञ्चविधचारित्रस्यैकांशरूपसामायिकाभिधेयत्वेन शेषचतुर्विधचारित्राग्रहणात् तथा श्रमणधर्मान्तर्भूतत्वेऽपि संयमतपसोः पृथगुपन्यासस्तयोमोक्षाङ्ग प्रति प्राधान्यख्यापनार्थम्। दृष्ट श्चायं न्यायः यथा ब्राह्मणा आयाता वसिष्ठोऽप्यायात इत्यादि। प्राधान्यं च तयोः क्रमेणापूर्वकर्माश्रवनिरोधहेतुत्वेनानशनादिभ्योऽतिशायित्वोपदर्शनार्थ, तथा श्रमणधर्मग्रहणेन गृहिणामपि क्रोधनिग्रहादीनां पृथगुपादानम्, उदयप्राप्तक्रोधादीनांनिष्फलीकरणं क्रोधादिनिग्रह इति व्याख्यानात, क्षान्त्यादीनां तु | उदीर्णक्रोधाद्यनुदयरूपत्वात्। अथवा-क्षान्त्यादयो ग्राह्याः, क्रोधादयो हेय इति भेदात् इत्युक्ता मूलगुणाः। ध०३ अधि० / दश० / चर्यते इति चरणम्। चारित्रे, उत्त०१ अ०। सूत्र० / न० / सर्वतो देशतश्च चारित्रे, विशे० / चारित्रक्रियायाम्, अनु०। सूत्र० / आचा० / विशे०। उत्त०। दर्श० / विरतिपरिणामे, सूत्र०२ श्रु०६ अ० / दर्श०। समग्रविरतिरूपे चारित्रे, दश०३ अ०। सकलयतिसमाचाराचरणे, दर्श० / चरणं त्रिविधं त्रिप्रकारम् / तद्यथा-क्षायिकम्, औपशमिकम, क्षायोपशमिकं च / तत्र क्षायिकं सम्यक्त्वं क्षायिकसम्यग्दृष्टः, औपशमिकमुपशमश्रेण्यां शेषकालं क्षायोपशमिक चरणमपि क्षायिकं,क्षपकनिर्ग्रन्थस्य औपशमिकमौपशमिक श्रेण्यामन्यदा क्षायोपशमिकम्। व्य०२ उ०। विशे०। तस्स वि सारो चरणं, सारो चरणस्य निव्वाणं / / 1126|| तस्याऽपि श्रुतज्ञानस्य सारश्चरणं, सारशब्दोऽत्र फलवचनः प्रधानवचनश्च मन्तव्यः, तस्य फ्लं चरणम् / यदि वा-तस्मादपि श्रुतज्ञानाचरणं प्रधानम्, न तु चरणं नाम संवररूपा क्रिया, क्रिया च ज्ञानाभावे हता "हेया अन्नाणतो किरिया" इतिवचनात्, ततो ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति समानत्वमेवोभयोः, कथं ज्ञानस्य सारश्चरणमिति ? उच्यते-इह यद्यपि 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति समानं ज्ञानचरणयोर्निर्वाणहेतुत्वमुपन्यस्तं, तथाऽपि गुणप्रधानभावोऽस्ति / तथा ज्ञान प्रकाशकमेव, "नाणं पयासयमिति" वचनात, चरणं त्वभिनवकर्मादाननिरोधफलं, प्रागुपात्तकर्मनिर्जराफलं च, ततो यद्यपि ज्ञानमपि प्रकाशतयोपका-रीति ज्ञानचरणरूपद्विकाधीनो मोक्षस्तथापि प्रकाशकतयैव व्याप्रियते ज्ञानं, कर्मलशोधकतयाऽनुचरणमिति प्रधानगुणभावाचरणं ज्ञानस्य सारः / उक्तं च-"नाणं पयासयं वी, गुत्तिविसुद्धिफलं च जं चरणं / मोक्खो य दुगाहीणो, चरणं नाणस्स तो सारो।।११३०॥ अपिशब्दात्सम्यक्त्वस्यापि सारश्चरणम्। अथवा अपिशब्दस्यव्यवहितः संबन्धः, तस्य श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दान्निर्वाणमपीत्यर्थः / अन्यथा ज्ञानस्य निर्वाणहेतुता न स्यात्, किंतु चरणस्यैव, अनिष्ट चैतत्, 'सम्यम्दर्शनज्ञानचारित्राणि मोक्षमार्गः' / तथा-"नाणकि रियाहिं मोक्खो" इत्यादिवचनात्केवलं सा ज्ञानस्य निर्वाणहेतुता गौणतया प्रतिपत्तव्या, मुख्यतया तु चरणस्य, यतः केवलज्ञानलाभेऽपि न तत्क्षणमेव मुक्तिरुपजायते, किं तु शैलश्यवस्थाचरमसमयभाविचरणप्रतिपत्त्यनन्तरमतो मुख्य कारणं निर्वाणस्य चरणम् / तथा चोक्तम्-“ज सय्वनाणलंभानंतरमहवा न मुच्चए सव्वो। मुघइय सव्वसंवर-लाभे तो सो पहाणयरो" || तत उक्तं तस्य सारश्चरणमिति। तथा “सारोचरणस्य निव्वाणं" इत्यत्र सारशब्दः फलवचनः, चरणस्य संयमतोपोरूपस्य सारः फलं निर्वाणम् / इहापि शैलेश्यवस्थाभाविसर्वसंवररूपचारित्रमन्तरेण निर्वाणस्य भावात्तद्गावे चावश्यं भावादिति प्रधानभावमधिकृत्य उपन्यस्तम्, अन्यथा शैलेश्यवस्थायामपि क्षायिकज्ञानदर्शने स्त इति सम्यग्दर्शनादिरत्नत्रयस्य समुदितस्यैव निर्वाणहेतुत्वमिति। तथा चाह नियुक्तिकारः - सुयनाणम्मि विजीवो, वस॒तो सो नपाउणाइ मोक्खं / जो तवसंजममइए, जोगे न चएइ वोढुं जे // 1143 / /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy