SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ओमजायण 86- अभिधानराजेन्द्रः - भाग 3 ओमरत्त ओमजायण-पुं०(अवमज्जा (द्या) यन) ऋषिभेदे,यस्य गोत्रे पुष्यनक्षत्रम्, जं०७ वक्ष० / सू०प्र०। चं० प्र०॥ ओमत्त-अवमत्व-न० ऊतायाम्भ०१८ श०३ उ०। हीनत्वे, व्य० प्र०१ उ०॥ ओमदोस-पुं०(अवमदोष) संखडीशब्दे दर्शयिष्यमाणे संखड्यां | स्तोकसंस्कृतत्वेनानेषणीयपरिभोगात्मके दोष, आचा०२श्रु०१ अ०३ उ०॥ | ओमरत्त-पुं० (अवमरात्र) अवमा हीना रात्रिरवमरात्रः समासान्ते टचि “रात्राहाहाः पुंसि" इति पुंस्त्वम्। दिनक्षये, “छओमरत्ता पण्णत्ता तं जहा। तइए पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पण्णरसमे पव्वे एगूणवीसइमे पव्वे तेवसिइमे पव्वे" स्था०४ ठा० कर्ममासा-पेक्षया एकैकस्मिन् ऋतौ लौकिकमेकैकंचन्द्रर्तुमधिकृत्य व्यवहारत एकैकोऽवमरात्रौ भवति। सकले | तुकर्मसंवत्सरे षडक्मरात्रास्तथा चाह। ता सब्वे विणं एते चंदउडू दुवे मासा तिचउपण्णेणं आदाणेणं गणिज्जमाणा सातिरेगाइं एगूणसहि एगूणसहि राइंदिवाई राइंदियग्गेणं आहितेति वदेजा तत्थ खलु इमे छ ओमरत्ता पण्णत्तातं जहा ततिए पव्वे सत्तमे पव्वे एकारसमे पव्वे पन्नरसमे पटवे एकूणवीसतिमे पव्वे तेवीसतिमे पथ्ये। तत्र कर्मसंवत्सरे चन्द्रसंवत्सरमधिकृत्य व्यवहारतः खल्विमे वक्ष्यमाणक्रमाः षट् अवमरात्राः प्रज्ञप्तास्तद्यथा तइए पव्वेत्यादि सुगमम्। सू०प्र०१२पाहु०॥ एसा तिहिनिप्पत्ती, भणिया मे वित्थरंय पहिऊणं। वोच्छामि ओमरत्तं, उल्लिंगितो समासेण॥ एषा अनन्तरोदितस्वरूपा तिथिनिप्पत्तिर्मया विस्तरं प्रहाय परिहृत्य भणिता प्रतिपादिता। संप्रति समासेन संक्षेपेण उल्लिङ्गन किंचिन्मात्रतया प्रतिपादयन् अवमरात्रान् वक्ष्यामि / ननु कालः सर्वदानादिप्रवाहपतिततयाप्रतिनियतस्वभाव एव परावर्ततेन तस्य कापि हानि पि कश्चिदपि स्वरूपोपवयः। ततः कथमव-रात्रतासंभव इत्यत आह। कालस्स नेव हाणी, न वि वुडी वा अवडिओ कालो। जायइ वुडववुड्डी,मासाणं एकमेकाओ। कालस्य सूर्यादिक्रियोपलक्षितस्यानादिप्रवाहपतितप्रतिनियतस्वरूपतो न हानि पि कश्चिदपि स्वरूपोपचयः किं तु सदा तथा जगत्स्वाभाव्यादवस्थित एव / तथा प्रतिनियतरुपतया कालः केवलं यो जायते जायमाने प्रतीयते वृद्ध्यपवृद्धी मासानांते एकमेकस्मात् / एकस्यान्यतरस्य सूत्रे द्वितीया प्राकृतत्वात् भवति हि प्राकृतलक्षणवशाह्यत्ययः स्वादिविभक्तीनां यदाह पाणिनिः स्वप्राकृतलक्षणे "व्यत्ययोऽप्यासामिति" एकस्मादन्यतरस्मान् मासात् अत्र स्थाने पः कर्मधारय इत्यनेन पञ्चमी ततोऽयमर्थ एकमपरं मासमधिकृत्यैकस्या-1 नयतरस्य मासस्य वृद्ध्यपवृद्धी भवतः / किमुक्तं भवति / / कर्ममासात्सूर्यमासकालचिन्तायां वृद्धिः स्वरूपापेक्षया तु त्रयोऽपि मासास्तदप्रतिनियतस्वरुपभावाः परा-वर्तन्ते न तु कश्चित् कालस्य | वृद्धिानिसंभवः / संप्रति ते एव वृद्धिानिमपेक्ष्य चन्द्रमासे कर्ममासमपेक्ष्य | मासचिन्तायां कालस्य हानि दर्शयति। चंदउडू मासाणं, अंसाजे दिस्सए विसेसम्मि। ते ओमरत्तभागा, भवंति मासस्स नायव्या। इह कर्मसासपरिपूर्णत्रिंशदहोरात्रप्रमाणश्चन्द्रमास एकोनत्रिंशदहोरात्री द्वात्रिंशश्च द्वाषष्टिभागा अहोरात्रस्य / ततश्चन्द्रमासपरिमाणस्य ऋतुमासस्य कर्ममासपरिमाणस्य चेत्यर्थः / परस्परं विश्-लेषः क्रियते विश्लेषे च कृते सति ये अंशा उद्वरिता दृश्यन्ते त्रिंशद्वाषष्टिभागरूपास्ते अवमरात्रस्य भागास्तव्यवमरात्रं परिपूर्ण भवति / मासद्वयपर्यन्ते ततस्तस्य सक्तास्ते भागा मासस्यावसाने द्रष्टव्याः / किमुक्तं भवति एकस्मिन् कर्ममासे परिपूर्णे सति त्रिमासद्वयमपर्यन्तेषु शतद्वाषष्टिभागा अवमरा त्रस्य संबन्धिनः प्राप्यन्ते इति। यदिमासपर्यन्ते एतावतोऽवमरात्रा भागाः प्राप्यन्ते ततः प्रतिदिवसं कति प्राप्यन्ते इति / यदि मासपर्यन्ते एतन्निरूपणार्थमाह। वावट्ठिभागमेगं, दिवसेः संजाइ ओमरत्तस्स। वावट्टिएहि दिवसेहि, ओमरत्तं तओ भवइ। एकस्मिन् एकस्मिन् एकैकस्मिन् दिवसे कर्मभाससंबन्धिनि अवमरात्रस्य संबंधी द्वाषष्टिभागः एकैकः संजायते / सूत्रे च नपुंसकता प्राकृतत्वात् कथमेतदवसीयत इति चेदुच्यते त्रैरात्रं केवलाता तथाहि यत एकैकस्मिन् दिवसे एकैको द्वाषष्टिभागोऽवमरात्रस्य संबंधी प्राप्यते ततो द्वाषष्टया दिवसैरेकोऽवमरात्रौ भवति / किमुक्तं भवति / दिवसे दिवसे अवमरात्रसत्कैकद्वाषष्टिभागवृद्ध्या द्वाषष्टितमे दिवसे त्रिषष्टितमा तिथिः प्रवर्तत इति / एवं च सति य एकषष्टितमोऽहोरात्रस्तस्मिन्नेकषष्टितमा द्वाषष्टितमा च तिथिर्निधनमुपगतेति द्वाषष्टितमा तिथिलॊके पतितेति व्यवहृयते। यथा चाहएकम्भि अहोरत्ते, दो वि तिहिनिहणमेजासु। सोत्थ तिही परिहायइ, सुहमेण हविज सो चरिमो॥ एकैकस्मिन्नहोरात्रे तिथिसक्तो द्वाषष्टिभागो द्वाषष्टिहानिमुपगच्छन् यस्मिन्नेकषष्टितमे अहोरात्रे द्वे अपिएकषष्टितमारुपे तिथी निधनमायातः द्वाषष्टितमा तिथिरत्र एकषष्टितमे अहोरात्रैः परिहीयते। एवं च सतिसूक्ष्मेण द्वाषष्टितमरूपतया अतिश्लेक्ष्णेन एकैकेन भागेन परिहीयमानाया द्वाषष्टितमायास्तिथैः स एकषष्टितमो दिवसश्चरमपर्यवसानसर्वात्मना निधनमुपगतेति भावः / संप्रति वर्षाहिमगीष्मकालेषु चतुर्मासप्रमाणेषु प्रत्येकं कस्मिन् पक्षे अवमरात्रं भवतीत्येतन्निरूपयति। तइयम्मि ओमरतं, कायवं सत्तमम्मि पक्खम्मि। वासहिमगिण्हकाले, चाउम्मासे विधीयते॥ इह कालस्त्रिधा तद्यथा / वर्षाकालो हिमसंबन्धी शीतकाल इत्यर्थः ग्रीष्मकालश्च एतेच त्रयोऽपि चतुर्मासकप्रमाणाः / वर्षाकालस्य चतुर्मासप्रमाणस्य श्रावणदेस्तृतीये पर्वणि प्रथमोऽवमरात्रः। तस्यैव वर्षाकालस्य संबन्धिनि सप्तमे पर्वणि द्वितीयोऽवमरात्रस्तदनन्तरशीतकालस्य तृतीये पर्वणि मूलापेक्षया एकादशे तृतीयोऽवमरात्रस्तस्यैव शीतकालस्य सप्तमे पर्वणि मूलात्पञ्चदशे चतुर्थस्तदनन्तर ग्रीष्मकालस्य सप्तमे पर्वणि मूलापेक्षया त्रयोविंशतितमेषष्ठः। इह आषाढाद्यालोके ऋतवः प्रसिद्धिमैयरुस्ततो लौकिकव्यवहारमपेक्ष्याषाढादारभ्य प्रतिदिवसमेकैकद्वाषष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिपर्वसु यथोक्ता अवमरात्रीभूतया तया सह का तिथिः परिसमाप्तिमुपैतीति शिष्यः प्रश्नं कारयति।।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy