SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ चक्कवट्टि (ण) 1103 - अभिधानराजेन्द्रः - भाग 3 चक्कवट्टिविजय नगरीषु क्रमेणैते राजानो व्याख्येयाः, ग्रन्थविरोधात् / उक्तं च"जम्मणविणी अउज्झा, सावत्थी पंचहत्थिणपुरम्मि। वाणारसि कपिल्ले रायगिहे चेव कंपिल्ले ति" 1 / अप्रव्रजितचक्रवर्तिनौ तु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पत्रास्ते तत्रैव प्रव्रजिता इति इदमावश्यकाभिप्रायेण व्याख्यातम्, निशीथभाष्याभिप्रायेण तु दशस्वेतासु नगरीषु द्वादश चक्रिणो जातास्तत्र नवस्वेकैकः, एकस्यां तु त्रय इति। आह च"चंपा महुरा वाणा-रसीय सावत्थिमेव साकेयं। हत्थिणपुर कंपिल्लं, मिहिला कोसंवि रायगिहं / / 1 / / संती कुंथूय अरो, तिण्णि वि जिण चक्कि एक्कएकेहि। जाया तेण दस हॉति, केसवजाया जणाइन्नं" / / 2 / / स्था०१० ठा० / (एकस्मिन्क्षेत्रे एकदा द्वौ चक्रवर्तिनौ न भवत इति 'दुवई' शब्दे वक्ष्यते) उत्सर्पिण्या भविष्यन्तश्चक्रिणःजंबुद्दीवे णं दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए वारस चक्कवट्टिणो भविस्संति / तं जहा“भरहे य दीहदंते, गूढदंते य सुद्धदंते य। सिरिउत्ते सिरिभूई, सिरिसोमे य सत्तमे पउमे / / 1 / / महापउमे य विमल-वाहणे विपुलवाहणे चेव / रिटे वारसमे तह, आगामिभरहाहिवा उत्ता"||२|| एएसिणं वारसण्हं चक्कवट्टीणंः वारस पियरो भविस्संति, वारस मायरो भविस्संति, वारस इत्थीरयणा भविस्संति। स०। जम्बूद्वीपे चक्रवर्तिनः पृच्छा-- जंबुद्दीवे णं भंते ! दीवे केवइआ जहण्णपए वा उक्कोस पए वा चक्कवट्टी सव्वग्गेणं पण्णत्ता ? गोअमा ! जहण्णपदे चत्तारि, उक्कोसपदे तीसं चक्कवट्टी सव्वेग्गेणं पण्णत्ता, बलदेवा तत्तिआ चेव, जत्तिआ चक्कवट्टीवासुदेवा वितत्तिआ चेव। जम्बूद्वीपे भदन्त। द्वीपे कियन्तो जघन्यपदे वा उत्कृष्टपदे वा चक्रवर्तिनः प्रज्ञप्ताः ? भगवानाह-गौतम ! जघन्यपदे चत्वारः। उपपत्तिस्तु तीर्थकराणामिव, उतकृष्टपदे त्रिंशचक्रवर्तिनः सर्वज्ञेन प्रज्ञप्ताः / कथमिति चेत् ?, उच्यते-द्वात्रिंशद्विजयेषु वासुदेवस्वामिकान्यतरविजयचतुष्कवर्जितविजयसत्काष्टाविंशतिः, भरतैरावतयोस्तु द्वाविति पूर्वापरमीलितास्त्रिंशत्।यदा महाविदेहे उत्कृष्टपदेऽष्टाविंशतिश्चक्रिणः प्राप्यन्ते, तदा नियमाचतुर्णामर्द्धचक्रिणा संभवेन तन्निरुद्धक्षेत्रेषु चक्रिणामसंभवात्, चक्रिणामर्द्धचक्रिणां च सहानवस्थानलक्षणविरोधादिति। अथात्र तथैव बलदेवार्द्धचक्रिणश्चाह-"बलदेवा तत्तिया" इत्यादि / बलदेवा अपि तावन्त एवोतकृष्टपदे, जघन्यपदेच यावन्तश्चक्रवर्तिनः वासुदेवा अपि तावन्त एव, बलदेवसहचारित्वात्, कोऽर्थः ? यदा चक्रवर्तिन उत्कृष्टपदे त्रिंशत् अवश्यं बलदेववासुदेवौ जघन्यपदे चत्वारः, तेषां चतुर्णामवश्यंभावात्। यदा च बलदेवा वासुदेवा वा उत्कृष्टपदे त्रिंशत, तदा चक्रिणो जघन्यपदे चत्वारः, तेषामपि चतुर्णामवश्यंभावात् / तेनैतेषां परस्परं सहानवस्थानलक्षणविरोधभावेनान्यतराश्रितक्षेत्रे तदन्यतरस्याभाव इति। जं०७ वक्ष०। (कश्चक्रवर्ती कथं लभत इति अंतकिरिया आदिशब्देषु प्रथमभागे 56 पृष्ठे उक्तम्) देशविरतौ चक्रिपदबन्धो भवति नवेति प्रश्ने, उत्तरम् अत्राप्येकान्तो ज्ञातो नास्तीति। ही०६ प्रका० / चक्रवर्तिनस्तिमिश्रगुहाद्वारोद्घाटने ज्वाला निःसरन्ति, न वा यदिन, तर्हि कूणिकस्य कथं निस्ससारेति प्रश्ने, उत्तरमजम्बूद्वीपप्रज्ञप्त्यादिधुत्क्रममस्ति, यचक्रवर्तिनः सेनानीनरो द्वारमुद्घाटयति, ज्वाला चन निःसरति कूणिकस्य तु द्वाराणि नोद्घाटितानि, तर्हि ज्वाला कुतो निःसरेत्, स तु तमिश्रगुहाधिष्ठायकेन दण्डरत्नेन हतः सैन्यानि पश्चादलितानीत्यक्षराणि आवश्यकद्वाविंशतिसहनीमध्ये सन्ति, द्वादशसहरत्रीमध्ये तुज्वालानिःसरणमप्युक्तमस्ति, सा तु कुमतिकृताऽस्ति। आवश्यकटिप्पनके तुकथितमस्ति, यज्ज्वालानिः सरणघोटकपश्चात्पादचलनप्रघोषसिद्धान्तविरुद्धो ज्ञेय इति / 474 प्र० सेन०३ उल्ला० / चक्रवर्ती कियत्कालेन मोक्षं यातीति प्रश्ने, उत्तरम् - जघन्यतस्तद्भवे, उत्कृष्टतस्तु कश्चित्किञ्चिदूना पुद्गलपरावर्तान्तरेणापि मोक्षं यातीति / 68 प्र० सेन०४ उल्ला० / सर्वचक्रवर्तिना सर्वरत्नानि प्रमाणतस्तुल्यानि न्यूनाधिकानि वेति प्रश्ने, उरत्तमसर्व चक्रवर्तिनां काकिण्यादिरत्नानि कियन्ति केषाञ्चिन्मते प्रमाणाङ्कलमाननिष्पन्नानि, कियन्ति तु तत्कालीनपुरुषादिमानोचितमानानि, केषाञ्चिन्मते तु सर्वाग्यपि तत्कालोचितमानानीति 420 प्र० सेन 3 उल्ला०। चक्रवर्तिनो राज्याभिषेकादनु पुत्रो भवति न वेति प्रश्ने, उत्तरम्-चक्रर्तिनो राज्याभिषेकादनु पुत्रो भवतीति श्रीअजितचरित्रादौ विद्यते / 85 प्र० सेन०१ उल्ला० / चक्रवर्तिनः स्कन्धावारो द्वादश योजनान्युत्तरति, चक्रवर्ती तु प्रत्येक योजनमेंकं चलति, ततो द्वादशयोजनप्रान्ते य उत्तरति स योजनमेकं चलति तदा द्वादशयोजनमध्ये क्रियनित दिनानि भवन्तीति प्रश्ने, उत्तरम्-जम्बूद्वीपप्रज्ञप्तौ योजनान्तरेण श्रमेण चक्रवर्ती चलति, तथा चक्रवर्तिसैन्यद्वादश योजनान्युत्तरतीत्यनेकग्रन्थे कथितमस्ति, तस्मात्पूर्वापरविचारणया यद्योजनान्तं कथितमस्ति तस्मात्पूर्वापरविचारणया योजनान्तरं कथितमस्ति तत्सैन्याग्रभागापेक्षया संभाव्यते, तथा चक्रिसैन्यस्यादौ मध्ये नैवात्तरतीत्यक्षराणि व्यक्तानि शास्त्रे न दृष्टानि, आधुनिकठक्करास्तु दिवाले उत्तरतो, दृशयन्ते, ततस्तत्काले यथोचितं भविष्यति तथोत्तरिष्यन्ति, तथाऽपि चक्रवर्तिनां दिव्यानभावेन सैन्यप्रान्तोत्तीर्णास्तेऽपि शीघ्रं सुखेन मार्गमति क्रमिष्यन्तीत्यत्र न काऽप्याशङ्का, यतो दिव्यशाक्तेरचिन्त्याऽस्तीति / 66 प्र० सेन०४ उल्ला०। (व्यासेन तु भरतादिशब्देषु दृश्यम्)। चक्कवट्टिलद्धि-स्त्री०-(चक्रवर्तिलब्धि)। चक्रवर्तित्वप्राप्तिहेतौ लब्धि भेदे, प्रव० 270 द्वार। पा०। चक्कवट्टिविजय-पुं०-(चक्रवर्तिविजय)। चक्रवर्तिनो विजयन्ते येषु यान् वा ते चक्रवर्तिविजयाः / स्था०८ ठा० / चक्रवर्तिविजेतव्ये क्षेत्रखण्डे, ज्ञा०१ श्रु०८ अ०।स। चक्रवर्तिविजयवक्तव्यतामाहजंबूमंदरपुरच्छिमेणं सीयाए महाणईए उत्तरेणं अट्ठ चक्कवट्टिविजया पण्णत्ता। तं जहा-कच्छे सुकच्छे महाकच्छे कच्छमावई आवत्ते० जाव पुक्खलावई। जंबर्मदरपुरच्छि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy