________________ गोयरचरिया EEY - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया नीयात्। तद्यथा-(अंतरुच्छुयं वत्ति) इक्षुपर्वमध्यम्। (उच्छुगंडियं त्ति) सपर्वेक्षुसकलम् (चोयगं) पीलितेक्षुच्छोदिकं (मेरुगं ति) अग्रम् (सालगं ति) दीर्घशाखा (मालगं ति) शाखैकदेश: (संवलि त्ति) मुद्रादीनां विध्यस्तफलि (संवलिथालगं ति) वल्लदिफलीनां पाकः / अत्रैवंभूते परिगृहीतेऽप्यन्तरिक्ष्यादिकल्पमशनीयं बहु परित्यजनधर्मकमिति मत्या न गृह्णीयादिति। आचा०२ श्रु०१ अ०१० उ० परपीडादिप्रतिषेधाधिकारादिदमाहउप्पलं पउमं वा वि, कुमुथं वा मगदंतियं / अन्नं वा पुष्फ सचित्तं, तं च संलुंचिया दए|१४|| उप्पलं नीलोत्पलादि, पद्ममरविन्दं वाऽपि, कुमुदं वा गर्दभकं वा, मगदन्तिकां मेत्तिका, मल्लिकामित्यन्ये, तथा-अन्यद्वा पुष्पं सचित्तं शाल्मलीपुष्पादि, तच्च संलुञ्च्यापनीय छित्त्वा, दद्यादिति सूत्रार्थः॥१४॥ तं भवे भत्त पाणं तु, संजयाणं अकप्पियं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं॥१५॥ उप्पलं पउमं वावि, कुमुयं वा मगदंतियं / अन्नं वा पुप्फ सचित्तं, तं च संमदिया दए॥१६॥ तं भवे भत्त पाणं तु, संजयाणं अकप्पियं / दितियं पडिआइक्खे, न मे कप्पइ तारिसं // 17 // तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत-न मम कल्पते तादृशमिति सूत्रार्थः।।१५।। एवं तच्च संमृद्य दद्यात् / संमर्दनं नाम- पूर्वच्छिन्नानामेयापरिणतानां मर्दनम् / शेष सूत्रद्वयेऽपि तुल्यम्। आह-एतत्पूर्वमप्युक्तमेव-''संमद्दमाणी पाणाणि, वीयाणि हरियाणि य।" इत्यत्र / उच्यते-सामान्येन विशेषाभिधानाददोषः / / 17 / / तथासालुयं वा विरालियं, कुमुयं उप्पलनालियं / मुणालियं सासवनालियं, उच्छुखंडं अनिव्वुडं / / 18|| सालूकं वा उत्पलकन्दं, विरालिकां पलासकन्दरूपां, पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पल-नालौ प्रतीतौ, तथा मृणालिका पद्मिनीकन्दोत्थां, सर्षपनालिकां सिद्धार्थमञ्जरी, तथा इक्षुखण्डम् अनिवुतंसचित्तम्। एतच्चानिर्वृतग्रहणं सर्वत्राभिसंबध्यत इति सूत्रार्थः||१८|| किंचतरुणगं वा पवालं, रुक्खस्स तणगस्स वा। अन्नस्स वा विहरियस्स, आमगं परिवज्जए।।१६।। तरुणं वा प्रवालं पल्ल्वं वृक्षस्य चिश्चिणिकादेः, तृणस्य वा मधुरतृणादे:, अन्यस्य वाऽपि हरितस्याऽऽर्द्रकादे: आमम् अपरिणतं परिवर्जयेदिति सूत्रार्थः।।१६॥ तथातरुणियं वा छिवाडिं, आमियं भज्जियं सई। दितियं पडिआइक्खे, न मे कप्पइ तारिसं / / 20 / / तरुणां वा संजातां (छिवाडिमिति) मुद्रादिफलिम्, आमामसिद्धां सचेतना, तथा भर्जितां सकृदेकवारं ददती प्रत्याचक्षीत, न मम कल्पते तादृशं भोजनमिति सूत्रार्थः।।२०।। तहा कोलमणुस्सिन्नं, वेणुयं कासवनालियं / तिलपप्पमगं नीमं आमगं परिवज्जए।।२१।। तथा कोलं बदरम् अस्विन्नं वयुदकयोगेनाऽनापादितविकारान्तर, वेणुकं वंसकरिल्लं, कासवनालिकं श्रीपर्णीफलम्, अस्विन्नमिति सर्वत्र योज्यम् / तिलपर्पट पिष्टतिलमयम्, नीमं नीलफलम्, आम परिवर्जयेदिति सूत्रार्थः॥२१॥ तहेव चाउलं पिटुं, वियर्ड वा तत्तनिव्वुड। तिलपिट्ठ पूइपिन्नागं, आमगं परिवजए।।२२।। तथैव तान्दुलं पिष्ट, लोट्टमित्यर्थः। विकटं या शुद्धोदकंतप्तनिर्वृतं कथितं सत् शीतीभूतं, तप्तानिवृतम् वा अप्रवृत्तत्रिदण्डं, तिलपिष्ट तिललोट्ट, पूतिपिण्याकं सर्षपखलम, आम परिवर्जयेदिति सूत्रार्थः।।२२।। कविट्ठ माउलिंगं च, मूलगं मूलवत्तियं / आमं असत्यपरिणयं,मणसा विन पत्थए॥२३|| कपित्थं कपित्थफलं, मातुलिङ्ग च बीजपूरकं, मूलकं सपत्रजालकं, मूलवत्तिका मूलकन्दचक्कलिम्, आभासपक्काम् अशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्ताम; अनन्तकायत्वात् गुरुत्वख्यापनार्थमुभयम् / मनसाऽपि न प्रार्थयेदिति सूत्रार्थः / / 23 / / तहेव फलमंथूणि, बीयमंथूणि जाणिय / विहेलगं पियालं च आमगं परिवज्जए॥२४॥ तथैव फलमन्थून बदरचूर्णान, बीजमन्थून यवादिचूणीन, ज्ञात्वा प्रवचनतो विभीतकं विभीतकफलं, प्रियालं वा प्रियालफलं च, आममपरिणत परिवर्जयदिति सूत्रार्थः / / 24 // दश०५ अ०२ उ०। उन्मिश्रम् - असणं पाणगं वा वि,खाइमं साइमं तहा। पुप्फेसु होज उम्मीसं, वीएसु हरिएसु वा / / 57|| अशनं पानकं वाऽपि खाद्यं स्वाद्यं तथा पुष्पैर्जातिपाटलादिभिभवेदुन्मिश्र वीजैर्हरितैर्वेति सूत्रार्थः / / 57|| तं भवे भत्तपाणं तु, संजयाणं अकप्पियं / दितियं पडियाइक्खे, न मे कप्पइ तारिसं // 58|| तादृशं भक्तपानं तु संयतनामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत, न मम कल्पते तादृशमिति सूत्रार्थः // 58| दश०५ अ०१ उ०। (उद्गमोत्पादनादोषा: स्वस्वस्थाने निरूपिता:) (41) साम्प्रतमौषधिविषयं विधिमाहसे मिक्खू वा मिक्खुणी वा गाहावइकुलं पिंडवायपडियाए अणुपविढे समाणे से जाओ पुण ओसहिओ जाणेजाकसिणाओ सासियाओ अविदलकडाओ अतिरिच्छच्छिण्णातो अव्वोच्छिण्णाओतरुणियं वा छिवाडि अणभिकं तामज्जितं पेहाए अफासुयं अणेसणिजं ति मण्णमाणे लाभे संते णो पडिगाहेजा / /