________________ उरब्म 853 - अमिधानराजेन्द्रः - भाग 2 उरब्भ त्याह (माणुस्सत्ति) मनुष्याणामियं मानुषी तां योनिमुत्पत्तिस्थानमायान्त्यागच्छन्ति बालत्वपरिहारेण पण्डितत्वमासेवमाना येते इति सूत्रार्थः / / यथा च मानुषीं योनिमायान्ति तथाहवेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया। उति माणुसं जोणिं, कम्मसचा हु पाणिणो // 20 // जेसिं तु विउला सिक्खा, मूलियं ते अ इत्थिया॥ सीलवंतास विसेसा, अदीणा जंति देवयं // 21 // एवं अदीणयं भिक्खु, अगारिं च वियाणिया / / कहण्ण जिच मेलिक्खं, जिचमाणान संविदे / / 22 / / त्रिविधा मात्रा परिमाणमासां विमात्रा विचित्रपरिमाणास्ताभिः परिमाणविशेषमाश्रित्य विसदृशीभिः शिक्षाभिः प्रकृतिभद्रकत्वाद्यभ्यासरूपाभिरुक्तंहि "चउहि ठाणेहिं जीवा मणुयाउयं बंधंति तंजहा पगतिभद्दयाए पगतिविणिययाए साणुक्कोसयाए अमच्छरियाएत्ति' ये इत्यविवक्षितविशेषा नराः पुरूषा गृहिणश्व गृहस्था सुव्रताश्च धृतसत्पुरुषव्रतास्ते हि प्रकृतिभद्रकत्वाद्यभ्यासानुभावत् एव न विपद्यपि विषीदन्ति सदाचारं वा अवधीरयन्तीत्यादिगुणान्विता इदमेव च सतां व्रतं लौकिका अप्याहुः / विपद्युच्चैः स्थेयं पदमनुविधेयं हि महता, प्रिया न्याय्या वृत्तिमलिनमसुमङ्गेऽप्यसुकरम्। असन्तो नाभ्याः सुहृदपि न वाच्यस्तगुधनः, तता केनोद्दिष्टं विषममसिधाराव्रतमिदम् // इति आगमविहितव्रतधारणं त्वनीषाभसंभविदेवगतिहेतुतयैव तदभिधानात्त ईदृशाः किमित्याह (उविंतित्ति) उपयन्ति (माणुसंति) मानुषीं मानुषसंबन्धिनी योनिमुक्तरूपां कर्मणा मनोवाक्कायक्रियालक्षणेन सत्या अविसंवादिनः कर्मसत्यः / हुरवधारणे ततः कर्मसत्या एव सन्तस्तदसत्यतया तिर्यग्योनिहेतुत्वेनोक्तत्वात् / तथा च वाचकः "धूर्ता नैकृत्तिकाः स्तब्धा, लुब्धाः कार्पटिकाः शठाः / विविधां ते प्रपद्यन्ते, तिर्यग्योनि दुरुत्तरा" मित्यादि पाठान्तरतश्च कर्मस्वर्थान्मनुष्यगतियोग्यक्रियारूपेषु शक्का अभिष्वङ्गवन्तः कर्मशक्ताः प्राणिनो जीवा इह च नरग्रहणे सति प्राणिग्रहणं देवादिपरिग्रहार्थमिति न पुनरुक्तम् यदि वा विमालाभिः शिक्षाभिर्ये नरा गृहिणः सुव्रता यत्तदोर्नित्याभिसंबन्धात्ते मानुषीं योनिमुपयान्ति किमित्येवमत आह (कम्मसच्चाहुपाणिणोत्ति) हु शब्दो यस्मादर्थे यस्मात्सत्यान्यबन्ध्यफलानि कर्माणि ज्ञानावरणादीनि येषां ते सत्यकाणः प्राणिनो निरुपक्रमकमपेिक्षं चैतदिति सूत्रार्थः। संप्रति लब्धालाभोपनयमाह (जेसिंसूत्र) येषां तु पुनर्विपुलानि शङ्कितत्वादिसम्यक्त्वाचाराणुव्रतमहाव्रतादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति गम्यते / मूले भवं मौलिकं मूलधनमिव मानुषत्यं ते य एवं विधाः (तिउड्डियत्ति अतिट्टियत्तिअतिच्छियत्ति) पाठत्रयेऽपि अति क्रान्ता उल्लचितवन्त इत्यर्थः / यद्वा अतिक्रम्यो-ल्लङ्ग्य कीदृशाः सन्तः शीलं सदाचारोऽविरतसम्यग् दृशां विरतिमतां तु देशसर्वाविरमणात्मकं चारित्रं तद्विद्यते येषां ते शीलवन्तः / तथा सह विशेषेण उत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्तन्त इति सविशेषाः अत एवादीनाः कथं वयममुत्र भविष्याम इति वैक्लव्यरहिताः परीषहोपसर्गादिसंभवे वा न दैन्यभाज इति अदीना यान्ति प्राप्नुवन्ति ते / देवभावो देवता सैव दैवतं नतु तत्वतो मुक्तिगतिरेव लाभस्तत्किमिह तत्परिहारतो देवगतिरुक्तेत्युच्यते / सूत्रस्य त्रिकालविषयत्वान्मुक्तेश्चेदानीं विशिष्टसंहननाभावतोऽ भावाद्देवगतेश्च "छेवट्ठण उगम्मत्ति चत्तारि उजाव आदिमा कप्पा'' इति वचनाच्छेदपरिवर्तिसंहननिनामिदानींत नानामपि संभवादेव मुक्तमिति सूत्रार्थः / / प्रस्तुतमेवार्थ निगमयन्नुपदेशमाह / (एवं सूत्रम्) एवममुना न्यायेन लाभान्वितम् (अदीणवत्ति) दीडः क्तवतौ दीनवन्तंन तथा दीनवन्समदीनं दैन्यरहितमित्यर्थो भिक्षु यतिमगारिणं च गृहस्थं विज्ञाय विशेषेण तथाविधशिक्षावशाद्देवमनुजगति गामित्वलक्षणेन ज्ञात्वाऽवगम्य यतमान इति शेषः / कथं केन प्रकारेण न कथंचिदत्यर्थो नु वितर्के (जिचंति) सूत्रत्वाञ्जीयेत हार्येत विवेकी तत्प्रतिकूलै : कषायो दयादिभिरिति गम्यते / ईदृक्षमनन्तरोक्तं देवगत्यात्मक लाभ (जिचमाणोत्ति) या शब्दस्य गम्यमानत्वाजीयमानो वा हार्यमामाणस्तैरेव कषायादिभिन्न संवित्ते सूत्रत्वान्न संवेत्ति न जानीते यथाहमेभिर्जीय इति / कथं न्वितीहापि योज्यते ततोऽयमर्थः कथं नु संवित्ते एव जानीते एवज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया चतन्निरोधं प्रति प्रवर्तते एवेत्येवं च वदन् काक्वोपदिशति यत एवं ततो यूयमप्येवं जानाना यथा न देवगतिलक्षणं लाभं जीयध्वं काषायादिभिस्तथा यतध्वं कथंचिज्जीयमानाश्च सम्यग्विज्ञाय तत्प्रतीकारायैव प्रवर्तध्वमिति / यद्वा एवमदी-नवन्तं भिक्षुमगारिणं च लब्धलाभ विज्ञाय यतमानो कथं नु जीयन्ति आर्षत्वात् जीयते हार्यते अतिरौद्रैरिन्द्रियादिभिरात्भातदिति जेयं तच्चेह प्रक्रमान्मानुष्यदेवगतिलक्षणं (पलिक्खंति) सुब्व्यत्ययादीदृक्षोऽभिहितार्थाभिज्ञः कथं नुजीयमानो न संवित्तेऽपितुसं-वित्त एवं संविदानश्च यथा न जीयते तथा यतेतेत्यभिप्रायोऽथ चैवमदीनवन्तं भिक्षुमगारिणं च लब्धलाभं विज्ञाय यतमान कथं नु (जिचंति) आर्षत्याज्जीयते हार्यत विषयादिभिरिति गम्यते / ईदृक्षं देवगतिलक्षण लाभमिति शेषः / अयमाशयो यदि लभमानान विज्ञाताः स्युलाभो वान तथाविधस्तदा जयनमपि स्याद्यदा तु लभमानौ भिक्ष्वगारिणौ दृश्येते लाभश्च देवत्वलक्षण स्तदा कथमयं जानानोऽपि जन्तुर्जीयते यत आह जीयमानो न संवित्ते / किमुक्तं भवति / यदासौ जीयमानो जानीयात्तदा तदुपायपरतया न जीयेत यदा त्वसौ विषयव्यामोहतो न जानीते तदा जीयत एवेति किमत्र चित्रमिति सूत्रार्थः। समुद्रदृष्टान्तमाह। जहा कुसग्गे उदयं, समुद्देण समं मिणे। एवं मणुस्सया कामा, देवकामाण अंतिए॥२३॥ कुसग्गमत्ता इमे कामा, संनिरुद्धम्मि आउए। कस्स हेउं पूरा काउं, जोगक्षेमं न संविदे // 24|| इह कामा नियट्टस्स, अत्तट्टे अवरज्झइ।। सोचा नेयाउयं मम्ग, जं भुजो परिभस्सई॥२६|| यथेति दृष्टान्तोपन्यासेकुशोदर्भविशेषस्तस्याग्रंकोटिः।कुशाग्रतस्मिन्नुदकं जलं तत् किमित्याह समुद्रेणेति तात्स्थ्यात्तव्यप-देश इति न्यायात्समुद्रजलेन समतुल्यं मिनुयात्परिच्छिन्द्यात्। तथा किमित्याहएवमुक्तनीत्या मानुष्यका मनुष्यसंबन्धिनः कामा विषया मनुष्यविशेषणंतु तेषामेवोपदशाहत्वाद्विशिष्टभोगसंभवाच। देवकामानां दिव्यभोगानामन्तिके समीपे कृता इति शेषः / दूरस्थितानां हितं सम्यगवधारणमित्येवमाह / किमुक्तं भवति / यथाऽज्ञः कश्चिकुशाग्रस्थितं जलविन्दुमालोक्य समुद्रवन्मन्यते एवं मूढाश्चक्रवर्त्यादिमनुष्यकामान् दिव्यं भोगोपमानध्यवस्यन्ति तत्वतस्तु कुशाग्रजलविन्दोरिव समुद्रान्मनुष्यकामानां दिव्यभागेभ्यो महदेवान्तरमिति सूत्रार्थः। उक्तमेवार्थ निगमयन्नुपदेशमाह। (कुसमेत्तत्ति) कुशाग्रशब्दन कुशाग्रस्थितो जलबिन्दुरुपलक्ष्यतेतन्मात्रस्तत्परिमाण इमे इति प्रत्यक्षाः कामाः प्रकृतत्वात् मनुष्यविषयाः कदा ये इत्याह / सविरुद्धेऽप्यन्तसंक्षिप्ते यद्वा सममेकीभा