________________ उम्मग्गदेसणा 574 - अभिधानराजेन्द्रः - भाग 2 उम्भग्गदेसणा मुहमहुरं परिणइम-गुलं च गिण्डंति दिति उवएसं / महुकडुयं परिणइ सुं-दरं च विरलव्वि य भणंति / / 2 / / मुखे मधुरं मुखमधुरं यथा धार्मिकस्त्वमसि सङ्घपुरुष इति वा एवंविध वचनं न हि तद्गुणविकलस्यापि मनः प्रह्लादयति परिणतौ मङ्गुलमसुन्दरं परिणतिमङ्गलं चशब्दस्यापि शब्दार्थत्वात्ततोऽसुन्दरमपि भवान्तरे कर्णसुखदत्वात् गृह्णन्ति कुर्वन्तीत्यर्थः / ददति च परचेतोवृत्तिरञ्जनप्रवणपुरुषाणां प्रायः प्रभूतत्वात् मुखकठुकं परिणतिसुन्दरम्। चशब्दस्य पुनः शब्दार्थत्वात्ततो विरला एव पुनर्भणन्ति प्रतिपादयन्ति / अयमत्र भावार्थः। कोहिनामात्मनः कटुकभाषित्वमप्यङ्गीकृत्य यथावस्थितोभयलोकहितोपदेशदाने प्रवर्तते। प्रायेण हि प्रभूततराः स्वार्थाभिमता एव दृश्यन्त एवेति गाथार्थः। यद्येवं कर्णकटुकमुभयलोकहितमपि विरला एव गृह्णन्ति ततः किं तदुपदेशेनेत्याहभवगिहमज्झम्मि पमाय-जलणजलियम्मि मोहनिहाए। उद्दवइ जो सुयंतं, सो तस्स जणो परमबंधू // 30 // भवः संसारःस एव गृहं भवगृहं तस्य मध्यं भवगृहमध्यं तस्मिन् प्रमादो मद्यादिरनेकधा स एव ज्वलनो वैश्वानरः तेन ज्वलितो दीप्तस्स प्रमादज्वलनज्वलितस्तस्मिन् / मोहनीयमेव निद्रा हिताहितविवेकवैकल्यकारकत्वात् तथा स्वपन्तं स्वापं कुर्वन्तं यः कश्चिदनुपकृतः परहितरतः उत्थापयति सदुपदेशदानेन प्रमादव्यवहितानुष्ठाने च प्रवर्तयति स तस्य प्रमादस्यापवर्ती जनो लोकः परर-- बन्धुरात्यन्तिकैकान्तिकबन्धुरितिगाथार्थः / / यत एव सदुपदेश-दानतः परमबान्धवा भवन्ति अत एव भावतस्ते पूजनीया इत्याह-- जइ विहु सकम्मदोसा, भणयं सीयंति चरणकरणेसु / सुद्धपरूवगा तेण, भावओ पूयणिज्जंति // 31 // यद्यपि स्वकर्म्मदोषाचारित्रावरणोदयान्मनाक् सीदन्ति मनागशुद्धानुष्ठाना भवन्ति चरणकरणयोर्वक्ष्यमाणस्वभावयोः शुद्धप्ररूपकाः सम्यग्मार्गावभाषकास्तेन ते भावतोऽपि मोक्षनिमित्तमपिपूजनीया इति। अयमत्र भावार्थः / ये मिथ्यात्वावष्टब्धचेतसो मुग्धधीबन्धनपरायणा लोकरूढ्या बहुश्रुता अपि सम्यक् क्रियावादिनोऽपि परशास्त्राभिप्रायपराङ्मुखास्ते विषान्नाहिसिंहादिवत्परित्याज्याः मार्गाच्छेदकत्वेन संसारकारणत्वात्।येतुस्वयं कर्मपरतन्त्रतयापि मोक्षसुखाभिलाषितया मनाक्सीदन्तोऽपिचरणकरणयोर्भवभ्रमणभीरुतया यथावस्थितशिवमार्गप्रकाशकाः स्वानुष्ठानापक्षपातिनस्ते तृतीयमार्गानुयायित्वाद्भावतः परमार्थतः पूज्या इति गाथार्थः / यत एवं क्रियाविकलोऽपि श्रमणमार्गप्ररूपको भावतोऽपि पूज्यते कुग्राहग्रस्ततयोन्मार्गप्ररूपकः क्रियावानपि सम्पादिवत्परित्यज्यते ततो विवेकवता किमुचितमित्याह / एवं जिया आगमदिद्विदिट्ठ-सुन्नायमग्गा सुहमग्गलग्गा। गयाणुगामीण जणाण मग्गे, लग्गति नो गड्डरिकापवाहे // एवमिति पूर्वकथिमप्रकारेण अत एव शुभमार्गलग्ना जीवाः प्राणिनः सदा सदागमावदातवुद्धयः किं न लग्नन्ति न लीयन्ते व गडरिका-प्रवाहे कथं भूता आगम आप्तवचनं स एव दृष्टिर्हिताहितपदार्थप्रकासकत्वादागमदृष्टिः / तया दृष्टमवलोकितमागमद्राष्टिदष्टं तेन शोभनप्रकारेण ज्ञातो मार्गो ज्ञानादिको यैस्ते आगमदृष्टिदृष्टसुज्ञातमार्गाः। क्व मार्ग केषां जनानां कथंभूतानां गतानुगामिनाम्। गतंगच्छन्तीन्येवं शीला गतानुगामिनस्तेषाम् / अयमभिप्रायः / ये हि सुविहितसंपत्सिम्यगाप्तमोक्षमार्गा भवन्ति तान् मुक्त्वा मिथ्यात्वमोहमो हितमतिगतानुगतप्रवर्तितमार्गे गडरिकाप्रवाहकृत्यं नाङ्गीकुर्वन्त्यपि तु सन्मार्ग एव व्रजन्तीतिवृत्तार्थः / / नन्वित्थं भूताः केचन एवावदातबुद्धयः स्वल्पा दृश्यन्तेप्रभूततराः पुनःप्रवाहानुयायिन इति किमत्र तत्त्वमित्याह "नेगंतेणं चिय" अथवा बहुतरतमाः शास्त्रगर्भार्थवेदिनोऽप्येवंविधप्रवृत्तिमन्त एव दृश्यन्ते लोकेऽप्येवंविधमेव श्रूयते यथा 'महजनो येन गतः स पन्थाः" इत्याशयवतः शिष्यस्य शिक्षार्थमाहनेगतेणं चिय लो-गनायसारेण एत्थ होयव्वं / बहुमुंडाइवयणाउ, आणाइत्तो इह पमाणं // 33 // नैकान्तेनैव लोकज्ञातसारेण भाव्यम् / अत्र धर्मविचारे तस्यहि विचित्राश्रयेणानेकरूपत्वात् तदप्रवृत्तौ हेतुमाह बहुमुण्डादिवचनात् यदिह बहुवचनप्रवृत्तिरेव गरीयसी तदा नेदमागमवचनमभविष्यत्त-द्यथा "कलहकरा डमरकरा, असमाहिकरा अनिव्वुइकस य / होहिंति भरहवासे, बहुमुंडे अप्पसमणा य' इत एतस्माद्धेतोराहवेह प्रमाणं शास्त्रमेव प्रमाणमिति गाथार्थः / यदि पुनः प्रमाणं द्रव्यपूजया मिथ्याभिमाना ज्ञानितया वा लोकप्रवृत्तिरेवाङ्गीक्रियते.ततोऽन्यदर्थान्तरमापद्यत इत्याहबहुजणपवित्तिसित्तं, इत्थं तेहिं इह लोइओ चेव / धम्मो न उज्झियव्यो, जेण तहिं बहुजणपवित्ती॥३४॥ बहवश्च बहुजनास्तेषां प्रवृत्तिरेकान्तेनागमनिरपेक्षितया स्वरुचिविरचितानुष्ठानस्यैव बहुजनप्रवृत्तिमात्रं तदिच्छद्भिरिह धर्मविचारे लौकिक एव धर्मो नैव परित्याज्यः स्यात् येन कारणेन तत्र तस्मिन् लौकिके धर्मे बहुजनप्रवृत्तिप्रभृतीनां प्रवृत्तिदर्शनादिति गाथार्थः / यत एवाज्ञाप्रमाणमत एवाह॥ ता आणाणुगया जं, तं चेव बुहेण सेवियव्वं तु। किमिह बहुणा जणेणं हंदिणेस अस्थि णो बहुया ||35|| यस्मात्कारणात् बहुजनप्रवर्त्तमानं सेवनीयं ता तस्मात्कारणादाज्ञानुगतं यत्तदेव बुधेन जिनाज्ञापरिपालनफलवेदिना सेवनीयमासे व्यमित्यर्थः / तुशब्दश्चैवकारार्थो योजित एव किमिति न किश्चिदित्यर्थः / इहैव धर्मविचारे परलोकचिन्तायां वा बहुना जनेन बहुजनोन्मार्गप्रवर्तकनेत्यर्थः / हन्दीत्युपदर्शने ततः प्रसिद्धमेतत्ते-नैव बहवः श्रेयोर्थिनो मोक्षार्थिनः। संप्रति काले बहवो मुण्डाःअल्पाश्च श्रमणा इति वचनादिति गाथार्थः / इत्यनेकथा विधिमार्गसमर्थनमाकर्ण्य मिथ्यात्वादृतसहसोबोधलोचना यन्मन्यन्ते तदाह / अथवा स्वयं ये सन्मार्गगमनाप्रवणाः इत्थं च सन्मार्गप्ररूपणामाकर्ण्य मुग्धबुद्धिबन्धनार्थं यद्वदन्ति तदाहदूसमकाले दुलहो, विहिमग्यो धम्मि चेव कीरते। ता जायइ तित्थछेओ, केसिं चिय कुग्गहो एसो।।३६|| दुःषमारूपः कालो दुःषमाकालस्तस्मिन् तल्लाभे दुरापः स्वकमपरिणतेरुन्मार्गप्रवृत्तलोकाद्वा विधिमार्गः शास्त्रोक्तानुष्ठानप्रवृत्तिरूपः तस्मिश्च क्रियमाणे विधीयमाने जायते संपद्यते तीर्थोच्छे दः शास्त्रोक्तानुष्ठानवतामत्यल्पत्वादितरेषां चातिबहुत्वादित्यर्थः / तादृग्विधानं च क्वापि कथंचिदेव सद्भावादिति केषांचित्कुग्रह एष इति कुग्रहताचैवैषामतोऽवसीयते यतः सदनुष्ठानसाध्यमपि मोक्षमसदनुष्ठानेन प्रकल्पयन्ति / नहि नाम सुवर्णरत्नसाध्यमलङ्कारादिकं मृत्तिकया सिध्यतीति गाथार्थः / एतदपि कुतोऽवसीयत इत्याह। जम्हा न मोक्खमग्गं, मोत्तूणं आगमं इह पमाणं। विजइ छउमत्थाणं, तम्हा तत्थेव जइयव्वं // 37 //