________________ उप्पत्तिया 853 - अभिधानराजेन्द्रः - भाग 2 उप्पत्तिया उप्पत्तिया स्त्री०(औत्पत्तिकी) उत्पत्तिरेव न शास्त्रभ्यासकर्मपरिशीलनादिकं प्रयोजनं यस्याः सा औत्पत्तिकी तदस्य प्रयोजनमिति इकण / / ना। अदृष्टाश्रुताननुभूतविषयादकस्माद् भवनशीलायां बुद्धौ, रा०। ननु सर्वस्याः बुद्धेः कारणं क्षयोपशमः तत्कथमुच्यते उत्पत्तिरेव प्रयोजनमस्या इति उच्यते क्षायोपशमः सर्वबुद्धिसाधारणः ततो नासौ भेदेन प्रतिपत्तिनिबन्धनं भवति / अथ च बुद्ध्यन्तरभेदेन प्रतिपत्यर्थ व्यपदेशान्तरं कर्तुमारब्धं तत्र व्यपदेशान्तरनिमित्तमत्र न किमपि विनयादिकं विद्यते केवलमेवमेव तथोत्पत्तिरिति सैव साक्षानिर्दिष्टा / नं0 औत्पत्तिक्या लक्षणम्। पुटवमदिट्ठमसुयम-वेइयतक्खणविसुद्धगहिअत्था। अय्वाहयफलजोगा, वुद्धी ओप्पत्तिया नाम // 2 // पूर्व बुद्ध्युत्पादात्प्राक् स्वयं चक्षुषा न दृष्टो नाप्यन्यतः श्रुतो मनसाऽप्यविदितोऽपर्यालोचितस्तस्मिन् क्षणेषु बुझ्युत्पादकाले विशुद्धो यथावस्थितो गृहीतोऽवधारितोऽर्थो यस्याः सा तथा। पुव्वमदिद्रुत्यादौ मकारोऽलाक्षणिकः। तथा अव्याहतेन अवाधितेन फलेन परिच्छेद्येनार्थेन योगो यस्याः सा अव्याहतफलयोगा बुद्धिरौत्पत्तिकी नाम / संप्रति विनेयजनानुग्रहायास्याः स्वरूप प्रतिपादनार्थमुदाहरणान्याह। भरहसिलपणियरुक्खे, खुङगपडसरडकायउच्चारे। गयपायणगोलखंभे, खुड्डगमग्गित्थिपइ पुत्ते / / 3 / / भरहसिलं मिढ कुकुड, तिलवालुयहत्थिअगडवणसंडे।। पायसअइया पत्ते, खाडहिलापंचपियरोय॥४॥ महुसित्थमुदिअंकेइ, नाणए भिक्खचेडगनिहाणे। सिक्खाय अत्थसत्थे, इच्छायमहसयसहस्से / / 5 / / आसामर्थः कथानकेभ्योऽवसेयः / तानि च कथानकानि विस्तरतोऽभिधीयमानानि ग्रन्थगौरवमापादयन्ति ततः संक्षेपेणोच्यन्ते / उज्जयिनी नाम पुरी तस्याः समीपवर्ती कश्चिन्नटानामेको ग्रामः तत्र च भरतो नाम नटः तस्य भार्या परासुरभूत् तनयश्चास्य रोहकाभिधोऽद्याप्यल्पवयास्ततस्तेन स्वस्य तनयस्य च शुश्रूषाकरणायान्या समानिन्ये वधूः / सा च रोहकस्य सम्यग्न वर्तते ततो रोहकेण सा प्रत्यापादि मातन मे त्वं सम्यक् वर्तसे ततो ज्ञास्यसीति ततः सा सेय॑माह रे रोहक ! किं करिष्यसि? रोहकोऽप्याह। तत्करिष्यामि येन त्वं मम पादयोरागत्य लगिष्यसीति ततः सातमवज्ञाय तूष्णीमतिष्ठत् रोहकोऽपि तत्कालादारभ्य गाढसंजाताभिनिवेशोऽन्यदा निशि सहसा पितरमेवमभाणीत् भो भो पितरेष पलायमानो गोहो याति तत एवं वालकवचः श्रुत्वा पितुराशङ्का समुदपादि नूनं विनष्टा मे महेलेति तत एवमाशङ्कावशात्तस्यामनुरागः शिथिली बभूव। ततो नतांसम्यक् संभाषते नापि विशेषतस्तस्यै पुष्पताम्बूलादिकं प्रयच्छति दूरतः पुनरपास्तं शयनादिततः सा चिन्तयामास नूनमिदं बालकविचेष्टितम् अन्यथा कथमकाण्ड एवैष दोषाभावे पराङ् मुखो जातः ततो बालकमेवमवादीत्वत्स रोहक! किमिदं त्वया चेष्टितं तव पिता मे संप्रति दूरं पराङ् मुखीभूतः रोहक आह किमिति तर्हि त्वं सम्यग्न वर्तसे तयोक्तमित ऊर्द्ध सम्यग् वर्तिष्ये / ततो बालक आह भव्यं तर्हि मा खेदमाकार्षीस्तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते इति ततः सा तत्कालादारभ्य सम्यग् वर्तितु प्रवृत्ता। रोहकोऽप्यन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदाशङ्कापनोदायबालभावं प्रगटयन् निजच्छायाममुल्यग्रेण दर्शयन् पितरमेवमाह भो पितरेष गोहो याति गोहो यातीति। तत एवमुक्ते स पिता परपुरुषप्रवेशाभिमानतो निष्प्रत्याकारं कृपाणमुद्गीर्य प्राधावत रे कथय कुत्र यातीति ततः स बालको बालक्रीडां प्रकटयन्नडल्यग्रेण निजच्छायां दर्शयति पितरेष गोहो यातीति ततः स वीडित्वा प्रत्यावृत्तश्चिन्तयतिस्म च स्वचेतसि प्राक्तनोऽपि पुरुषो नूनमेवंविध एवासीदिति धिग्मया बालकवचनादलीकं संभाव्य विप्रियमेतावन्तं कालं कृतमस्यां भार्यायामिति पश्चात्तापादाढतरमस्यामनुरक्तो बभूव / सोऽपि रोहको मया विप्रियं कृतमास्तेऽस्या इति कदाचिदेषा मा विषादिना मारयिष्यतीति विचिन्त्य सदैव पित्रा सह भुङ्क्तेन कदाचिदपि केवलः। अन्यदाच पित्रा सहोजयिनी पुरीमगमत् दृष्टा च तेन त्रिदशपुरीवोजयिनी सविस्मयचेतसा च सकलाऽपि यथावत्परि-भाविता / ततः पित्रैव सह नगर्या निर्यातुमारेभे पिता च तत्र किमपि विस्मृतमिति रोहकं सिप्रातटेऽवस्थाप्य तदानयनाय भूयोऽपि नगरी प्राविक्षत्। रोहकोऽपि च तत्र सिप्राभिधसिन्धुसैकते बाल-चापलवशात् सप्राकारां परिपूर्णामपि पुरं सिकताभिरालिखत् / इतश्च राजा अश्ववाहनिकायामश्वं वाहयन् कथंचिदेकाकीभूतस्तेन पथा समागन्तुं प्रावर्तत तं च स्वलिखितनगरीमध्येन समागच्छन्तं रोहकः अवादीत् भो राजपुत्र माऽनेन पथा समागमः / तेनोक्तं किमिति / रोहक आह / किं त्वं राजकुलमिदं न पश्यति / ततः स रजाकौतुकवशात्सकलामपि नगरी तदालिखितामवैक्षत पप्रच्छच तं बालक रे अन्यदाऽपि त्वया नगरी दृष्टाऽऽसीत् न वा / रोहकः प्राह नैव कदाचित्के वलमहमद्यैव ग्रामादिहागतः। ततश्चिन्तयामास राजा अहो बालकस्य प्रज्ञातिशयः / ततः पृष्टो रोहकः वत्स किं ते नाम क्व वा ग्राम इति / तेनोक्तं रोहक इति मन्नाम प्रत्यासन्ने च पुरोग्रामे वसामीति। अत्रान्तरे समागतो रोहकस्य पिता चलितौ चस्वग्राम प्रति द्वावपि राजा च स्वस्थानमगमत् चिन्तयति स्म च ममैकोनानि मन्त्रिणां पञ्चशतानि विद्यन्ते तद्यदि सकलमन्त्रिमण्डलमूर्धाभिषिक्तो महाप्रज्ञातिशायी परमो मन्त्री संपद्यते ततो मे राज्य सुखेनैवैधते बुद्धिबलोपेतो हि राजा प्रायः शेषबलैरल्पबलो-ऽपि न पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते / एवं चिन्तयित्वा कतिपयदिनानन्तरं रोहकबुद्धिपरीक्षानिमित्तं सामान्यतो ग्रामप्रधानपुरुषानुदिश्यैवमादिष्टवान्यथायुष्मद्ग्रा-मस्य बहिरतीव महती शिला वर्तते तामनुत्पाट्य राजयोग्यमण्ड-पाच्छादनं कुरुत / तत एवमादिष्ट सकलोऽपि ग्रामलोको राजादेशं कर्तुमशक्यं परिभावयन्नाकुलीभूतमानसो बहिः सभायामेकत्र मिलितवान् पृच्छति स्म परस्परं किमिदानी कर्त्तव्यं दुष्टो राजादेशोऽस्माकमापतितो राजादेशाकरणे च महाननर्थोपनिपातः। एवं चचिन्तयाव्याकुलीभूतानां तेषां मध्यदिनमागतं रोहकश्च पितरमन्तरेण न भुक्ते पिता च ग्राममेलापके मिलितो वर्तते। ततः स क्षुधापीडितः पितुः समीपे समागत्य रोदितुं प्रावर्तत पीडितोहमतीव क्षुधया ततः समागच्छ गृहे भोजनायेत / भरतः प्राह वत्स ! सुखितोऽसि त्वं न किमपि ग्रामकष्ट जानासि। स प्राह पितः किं तदिति / ततो भरतो राजादेशं सविस्तरमचकथत् / ततो निजबुद्धिप्रागल्भ्यवशात् झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तं मा आकुलीभवत यूयं खनत शिलाया राजोचितमण्डप - निष्पादनायाधस्तात् स्तम्भाश्च यथास्थानं निवेशयत भित्तीश्वोपलेपादिना प्रकारेणातीव रमणीयाः प्रगुणीकुरुत। तत एवमुक्ते सर्वैरपि ग्रामप्रधानपुरुषैभव्यमिति प्रतिपन्नम् / गतः सर्वोऽपि