________________ उद्देस 826 - अभिधानराजेन्द्रः - भाग 2 उद्देस कायोत्सर्गः संपूर्णचतुर्विशतिस्तवं भणित्वा तथास्थित एव पञ्चपरमेष्ठिनमस्कारं वारत्रयमुचार्य"नाणं पंचविहं पणत्तमित्यादि" उद्देशनंदी भणति। तदन्तेचैवं पुनः प्रस्थापनं प्रतीत्य साधोरिद-मङ्गममुं श्रुतस्कन्धं इदमध्ययनं वा उद्दिसामि क्षमाश्रमणानां हस्तेन सूत्रमर्थं तदुभयं च उद्दिष्टमित्येवं वदति / क्षमाश्रमणानामित्यादि त्वात्मनोऽहंकारवजनार्थमभिधत्ते ततो विनेय इच्छामीति भणित्वा वन्दनकं ददाति 2 तत उत्थितो ब्रवीति संदिशत किंभणामीति।ततोगुरुर्वदतिवन्दित्वा प्रवेदयत ततो विनेय इच्छामीति भणित्वा वन्दनकं ददाति 3 ततः पुनरुत्थितः प्रतिपादयति भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्तिम्। ततो गुरुः प्रत्युत्तरयति योगं कुर्विति एवं संदिष्टो विनेय इच्छामीति भणित्या वन्दनकं ददाति 4 ततोऽत्रान्तरे नमस्कारमुच्चारयन्नसौ गुरुं प्रदक्षिणयति तदन्ते च गुरोः पुरतः स्थित्वा पुनर्वदति भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति ततोगुरुराह योगं कुर्विति। एवं संदिष्ट इच्छामीति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षणयति / तदन्ते च पुनस्तथैव गुरुशिष्ययोर्वचनप्रतिवचने तथैव च तृतीयप्रदक्षिणां विदधाति विनेयः / एतानिच चतुर्थवन्दनकादीनि त्रीण्यपिवन्दन-कान्येकमेव चतुर्थं गण्यते एकार्थप्रतिबद्धत्वादिति 2 ततस्तृतीय प्रदक्षिणान्ते गुरुर्निषीदति निषण्णस्य च गुरोः पुरतोऽद्धविनतगात्री विनेयो वक्ति युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामि / ततो गुरुराह प्रवेदयेति / तत इच्छामीति भणित्वाविनेयो वन्दनकं ददाति / 5 / प्रत्युत्थितश्चो चारितपञ्चपरमेष्ठिनमस्कारः पुनर्वन्दनं ददाति।६। पुनरुत्थितो वदति युष्माकं प्रवेदितं साधूनां च तं प्रवेदितं सन्दिशत करोमि कायोत्सर्गम् / ततो गुरुरनुजानीते / कुर्विति ततः पुनरपि वन्दनकं ददाति 7 एतानि सप्तच्छोभवन्दनकानि श्रुतप्रत्ययानि भवन्ति ततः प्रत्युत्थितोऽभिधत्ते अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गभन्यत्रोच्छ्वसितादित्यादियावद्वयुत्सृजामीति ततः कायोत्सर्गे स्थितः सप्तविंशतिमुच्छ्वासंश्चिन्तयति "सागरवरगम्भीरेत्ति" यावच्चतुर्विंशतिस्तवं चिन्तयति इत्यर्थः / "उद्देशसमुद्देसे, सत्तावीसं अणुण्णवणियाए" इति वचनात् ततः पारितकायोत्सर्गः संपूर्ण चतुर्विंशतिस्तवं भणित्या परिसमाप्तोद्देशक्रियत्वाद्गुरोछोभवन्दनकं ददाति तच न श्रुतप्रत्ययं किं तर्हि श्रुतदातृत्वादिना गुरुः परमोपकारी तद्विनयप्रतिनिमित्तमिति / / अनु०॥ आ०म० द्वि० / (श्रुतस्कन्धस्यैवोद्देश इति अणुओगशब्दे-उक्तम्) वाचनायां सूत्रप्रदाने, व्य० प्र०१3०1 श्रुतस्कन्धाङ्गप-रावर्तनोत्तरकालं च सप्तविंशत्युच्छ्वासकालः कायोत्सर्गः। "उद्देस समुद्देसे सत्तावीसं" जी०१ प्रति०। उद्देशे मुहूर्तम् "पुस्सोहत्थो अभिइई, अस्सिणीय तहेव य। चत्तारि खिप्पकारीणि, विजारंभे सुसोहणा // 27 // विजाणं धीरणं कुज्जा" इति। कियत्पर्यायस्य किं श्रुतं दातव्यमित्याह / णो कप्पति णिग्गंथाण वा णिग्गंथीण वा खुड्डागं वा खुड्डियाए वा अव्वंजणजायस्स आयारकप्पे णामज्भयणे उद्दिसित्तए वा कप्पति निग्गंथाण वा निग्गंथीण वा खुड्डागस्स वा खुड्डियाए वा वण्णजायस्स आयारकप्पेणामं अज्झयणे उद्विसित्तए विशव्य० सू०१० उ०। न कल्पते निर्ग्रन्थानां वा क्षुल्लकस्य वा क्षुल्लिकाया वा अव्यजनजातस्य व्यञ्जनान्युपस्थरोमाणि जातानि यस्य स तथा तस्य आचारप्रकल्पो नामाध्ययनं निशीथापरपर्यायमुद्देष्टुम् / अत्र कारण भाष्यकृदाह। अहिअट्ठस्स आयारे, अपठिते न उ कप्पति। अव्वंजणजातस्स, वंजणाण परूवणा / / जहा चरित्तं धारेउ, ऊणट्ठो उ अपञ्चलो। तहा वि वक्कं वुड्डाउ, अववायस्स नो सहू। अधिकाष्टवर्षस्याप्यपठितेऽप्याचारे अव्यञ्जनजातस्य / अत्र व्यञ्जनानांप्ररूपणा कर्तव्या साच सूत्रव्याख्यायां कृता नतुनैव सूरयः प्रकल्पमाचारप्रकल्पनामाध्ययनं ददति कुत इत्याह।(जहेत्यादि) यथा ऊनाष्ट-ऊनाष्टवर्षश्चारित्रं धारयितुमप्रत्यलोऽसमर्थः तथा अजातव्यञ्जनतया अपक्वबुद्धिरपवादभाधारणेन वदति तथा कल्पते निर्गन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकायावा व्यञ्जनजातस्य आचारप्रकल्पो नामाध्ययनमुद्देष्टुम् / अथ स्तोककालदीक्षितस्यापि ज्ञातव्यञ्जनस्य दीयते किंवा नेत्यत आह / (अतिवासपरियागस्सेत्यादि) ज्ञातव्यञ्जनस्यापि त्रिवर्षपर्यायस्य श्रमणस्य निर्ग्रन्थस्य कल्पते आचारप्रकल्पो नामाध्यनमुद्देष्टम् / यदि पुनस्त्रयाणां वर्षाणा अभ्यन्तरत उद्दिशति ततस्तस्य प्रायश्चित्तं चत्वारो गुरुकाः त्रिवर्षपर्यायस्याप्यपरिणामक स्यातिपरिणामक स्य चोदितस्य चतुर्गुरुकम्॥ (सूत्रम्) चउवासपरियागस्स समणस्स निग्गंथस्स कप्पइ सूयगडे नाम अंगे उद्दिसित्तए पंचवासपरियागस्स समणस्स निग्गंथस्स कप्पति दसा कप्पववहारा उद्दिसित्तए वि अट्ठवास परियागस्स निग्गंथस्स कप्पति ठाणसमवाए उद्दिसित्तए दसवासपरियागस्ससमणस्स निग्गंथस्स कप्पति विवहनामं अंगे उहिसित्तए। चतुर्वर्षपर्यायस्य श्रमणनिर्ग्रन्थस्य कल्पते सूत्रकृतं नामाङ्ग मुद्देष्टुम् / पञ्चवर्षपर्यायस्य दशकल्पव्यवहाराविकृष्टो नाम षड्भ्य आरभ्य नव वर्षाणि यावत् तत्पर्यायस्य स्थानं समवायस्य दशवर्षपर्यायस्य व्याख्या प्रज्ञप्तिः पञ्चममङ्गमेतदेव सहेतुकं वक्तुकामो भाष्यकृदाह चउवासे सूयगड, कप्पवहारस्स पंचवासस्स। विगट्ठट्ठाणस्स,समवरिसविवाहपण्णत्ती।। चतुर्वर्षी पर्यायस्य सूत्रकृतः पञ्चवर्षस्य कल्पव्यवहारावुपलक्षण–मेतत् दशाश्रुतस्कन्धश्चाविकृष्टपर्यायस्य स्थानं समवायश्च दशव-र्षपर्यायस्य व्याख्या प्रज्ञप्तिरुद्दिश्यते किंकारणमेतावत्कालाति-क्रमेण तत आह / / चउवासो गाढमती, न कुसमएहिं तु हीनपज्जाओ। पंचवरिसओजोग्गो, अववायस्सत्ति तो दिति।। पंचण्हुवरिविगिट्ठो, सुयथेरा जेण तेण उवगिट्ठो। ठाणे महिड्डियंति य, तेण दसवरिसपरियाए। सूत्रकृताङ्गे त्रयाणां त्रिषष्ट्याधिकानां पाषण्डिकशतानां दृष्टयः प्ररूप्यन्ते / ततो हीनपर्यायो मतिभेदेन मिथ्यात्वं यायात् / चतुर्वर्षपर्यायस्तु धर्मे अवगाढमतिर्भवति ततः कुसमयै पहियते। न चतुर्वर्षपर्यायस्य तदुद्देष्टुमनुज्ञातम्। तथा पञ्चमोवर्षोऽपवादस्य योग्य इति कृत्वा पञ्चवर्षस्य दशकल्पव्यवहारान् ददति / तथा पञ्चानां वर्षाणामुपरि पर्यायो विकृष्ट उच्यते / येन कारणेन स्थाने समवाये न चाधीतेन श्रुतस्थविरा भवन्ति तेन कारणेन तदुद्देशनं प्रति विकृष्टपर्यायो गृहीतस्तथा स्थानं समवायश्च महर्द्धिकं प्रायेण द्वादशाना