________________ उदउल्ल 767- अभिधानराजेन्द्रः - भाग 2 उदग चाउम्मासियं सागारियं पिंडदेसियं उदउल्लाहडे' नि०चू०२० उ०। उदओदर न०(उदकोदर) जलोदररोगे, जं०२ वक्षः। उर्दक पुं०(उदङ्क) उदको ये नोदकमुदच्यतेतस्मिन, जं०२ वक्ष०ा जी०। उदंच त्रि०(उदञ्च) उद् अनच विच-उदकशब्दार्थे , प्रथमान्ता-धर्थे, दिग्देशादौ, वाचन उदंचण न०(उदञ्चन) उद् अनच णिच् करणे ल्युट् / पिधानार्थे पात्रे, (ढक्कन) भावेल्युट्। ऊर्द्धक्षेपणे, कर्तरि ल्युट् / उत्क्षेपके, त्रि० वाच०। अनु०। उदंत पुं०(उदन्त) उद्गतोऽन्तो निर्णयो यस्मात् / वार्तायाम् , / ज्ञा०८ अ० "गोसे मे वहेजह उदंतं" व्य० द्वि०४ उ०। आ०म०प्र०। साधौ, स्वार्थे कन् / तत्रैव उद्गतोऽन्तो ऽस्य पाकवशात् प्रा०व० गतलोपः। पाकवशात् प्राप्तान्ते, वाच०॥ उदंतवाहय त्रि०(उदन्तवाहक) वार्ताहरे, वाच०। उदक पुं०(उदर्क) उद् अर्क-अच् वा घञ् उत्तरकाले, भाविफल के शुभाशुभकर्मणि, वाच०। उदये, "केषांचिद्विषयज्वरातुरमहो चित्तं परेषां विषा-वेगोदर्ककुतर्कमूञ्छितमथान्येषां तु वैराग्यतः" अष्ट। उदग(य) न०(उदक) उन्द ण्वुल्०नि० नलोपश्च / जले, (चत्तारि उदगा पण्णत्ता उत्ताणे णाममेगे उत्ताणोदए इत्यादि पुरिसजायशब्दे उत्तानसूत्रावसरे व्याख्यास्यते) (चत्तारि उदगा पण्णत्ता तंजहा कदमोदए खंजणोदए बालुओदए सेलोदए इति सदृष्टान्तो भावशब्दे) उदगं च दुविहं वासुदगंचा नि०चू०१० उ०।तं०। सिरापानीये, दश० 4 अ० "जेणं उदएण मट्टियाएण य" औ० / "तिहिं उदगेहिं मज्जावेत्ता" त्रिभिरुदकैर्गन्धोदकोष्णोदकशीतोदकैर्माजयित्वा (स्था० 3 ठा०) उदकात्सिद्धिरिति वादिनः। एगे य सीओदगसेवणेण, हुएण एके पवयंति मोक्खं // तथैके वारिभद्रकादयो भागवतविशेषाः शीतोदकसेवनेन सचिताप्कायपरिभोगेन मोक्ष प्रवदन्ति। उपपत्तिं च ते अभिदधतियथो-दकं बाह्ममलमपनयति एवमान्तरमपि वस्त्रादेश्च यथोदकाच्छुद्धि-रुपजायते एवं बाह्यशुद्धिसामर्थ्यदर्शनादान्तरापिशुद्धिरुदकादेवेति मन्यन्ते। एतेषामुत्तरं यथा॥ उदगेण ये सिद्धिमुदाहरंति, सायं च पावं उदगं फुसंता। उदगस्स फासेणसिया य सिद्धि, सिचंसु पाणा बहवे दगंसि तथा ये केचन मूढा उदकेन शीतवारिणा सिद्धिं परलोकमुदाहरन्ति प्रतिपादयन्ति सायमपराहे विकाले वा प्रातश्च प्रत्यूषसि च आद्यन्तग्रहणात् मध्याह्ने च तदेवं संध्यात्रयेऽप्युदकं स्पृशन्तः स्नानादिकाःक्रिया जलेन कुर्वन्तः प्राणिनो विशिष्टां गतिमाप्नुवन्तीति केचनोदाहरन्ति / एतचासम्यक् / यतो यधुदकस्पर्शमात्रेण सिद्धिः स्यात् तत उदकसमाश्रिता मत्स्यबन्धादयः क्रूरकर्माणो निरनुक्रोशा बहवः प्राणिनः सिद्ध्येयुरिति / यदपि तैरेवोच्यते। बाह्ममलापनयनसामर्थ्यमुदकस्य दृष्टमिति तदपि विचार्यमाणं न घटते। यतो यथोदकमनिष्टमलमपनयत्येवमभिमतमप्यङ्गरागं कुङ्कुमादिकमपनयति / ततश्च पुण्यस्याऽपनयनादिष्टविघातकृ द्विरुद्धः स्यात् / किं च यतीनां ब्रह्मचारिणामुदकस्नानं दोषायैव / तथाचोक्तम् / “स्नानं मददर्पकरं, कामाकं प्रथमं स्मृतम्। तस्मात्कामं परित्यज्य,नतेस्नान्तिदमेरताः // अपि च / नोद-कक्लिन्नगात्रो हि, स्नात इत्यभिधीयते / स स्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरः शुचिः॥१४॥" मच्छा य कुम्माय सिरीसिवाय, मग्गू य उहादगरक्खसा य / अट्ठाणमेयं कुसला वयंति, उदगेण जे सिद्धिमुदाहरंति / 15 / किञ्च यदि जलसंपर्कात्सिद्धिः स्यात्ततो ये सततमुद कावगाहिनो मत्स्थाश्च कूर्माश्च सरीसृपाश्च तथा मद्वस्तथोष्ट्रा जलचरविशेषास्तथोदकराक्षसा जलमानुषाकृतयो जलचरविशेषा एते प्रथमंसिद्धेयुर्न चैतदृष्टमिष्टम् ततश्च ये उदके न सिद्धिमुदाहरन्त्येतदस्थानमयुक्तमसांप्रते कुशलनिपुणा मोक्षमार्गाभिज्ञा वदन्ति / 15 / किञ्चान्यत्। उदयं जइ कम्ममलं हरेजा, एवं सुहं इच्छामित्तमेवं / / अंधंवणे यारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा1१६॥ यधुदकं कर्ममलमपहरेदेवं शुभमपि पुण्यमपहरेत्। अथ पुण्यं नापहरेदेव कर्ममलमपि नापहरेत् / अत इच्छामात्रमेवैतद्यदुच्यते जलं कपिरिहारीति / एवमपि व्यवस्थिते ये स्नानादिकाः क्रिया: स्मार्तमार्गमनुसरन्तः कुर्वन्ति ते यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रुतयो भवन्ति नाभिप्रेतं स्थानमवाप्नुवन्ति / एवं स्मार्त्तमार्गानुसारिणो जलशौचपरायणा मन्दा अज्ञाः कर्तव्याकर्तव्यविवेकविकलाः प्राणिन एव तन्मयान् तदाश्रितांश्च पुत्तरकादीन् विनिघ्नन्ति व्यापादयन्ति अवश्यं जलक्रि यया प्राणव्यपरोपणस्य संभवादिति / / 16 / / अपिच पावाइँ कम्माई पकुय्वतोहिं, सिओदगं तू जइतं हरिजा। सिज्झंसु एगे दगसत्तघाति, मुसं वयंते जलसिद्धिमाहु।१७। पापानि पापोपादानभूतानि कर्माणि प्राण्युपमर्दकारीणि कुर्वतोऽसुमतो यत्कर्मापचीयते तत्कर्म यधुदकमपहरेत् / यद्येवं स्यात् तर्हि यस्मादर्थे यस्मात्प्राण्युपमर्दकर्मोपादीयते जलावगाहनाचा-ऽपगच्छति तस्मादुदकसत्त्वघातिनः पापभूयिष्ठा अप्येवं सिद्ध्ययुः। न चैतदृष्टमिष्टं वा / जलावगाहनात्सिद्धिमाहुस्ते मृषा वदन्ति / / . किंचाऽन्यत्।। आहंसुमहापुरिसा, पुटिव तत्ततवोधणा। उदयेण सिद्धिमावन्ना, तत्थमंदो वसीयति||१|| केचन अविदितपरमार्था आहुरुक्तवन्तः / किं तदित्याह / यथा महापुरुषाः प्रधानपुरुषावल्कलचीरितारागणर्षिप्रभृतयः। पूर्व पूर्वस्मिन् काले तप्तमनुष्ठितं तप एव धनं येषां ते तप्ततपाधेनाः पञ्चाग्न्यादितपोविशेषेण निष्ट देहास्त एवंभूताः शीतोदकपरिभोगेन उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च सिद्धिमापन्नाः सिद्धि गतास्तत्रैवंभूतार्थसमाकर्णने तदर्थसद्भावावेशात् मन्दोऽज्ञः स्नानादित्याजितः प्राशुकादेकपरिभोगभग्नः संयमानुष्ठाने प्रविषीदति। यदि वा तत्रैव शीतोदकपरिभोगे विषीदति लगति निमज्जतीति यावत् / नचासौ वराक एवमवधारयति यथा तेषां तापसादिव्रतानुष्ठायिनां कुतश्चिजातिस्मरणादिप्रत्ययादाविर्भूतसम्यग्दर्शनानां मौनीन्द्रभावसंयमप्रतिपत्त्या अपगतज्ञानावरणादि-कर्मणां भरतादीनामिव मोक्षावाप्तिर्न तु शीतोदकपरिभोगादिति // 1 // किंचान्यत्॥ अभुजिया नमि विदेही, रामगुत्ते य भुंजिया // बाहुए उदगं भोचा, तहा तारा गणे रिसी // 2 // केचन कुतीर्थिकाः साधुप्रतारणार्थमेवमूचुः। यदि वा स्ववाः शीतलविहारिण एतद्वक्ष्यमाणमुक्तवन्तस्तद्यथा नमी राजा विदेहो नाम जनपदस्तत्रभवा वैदेहास्तन्निवासिनो लोकास्तेऽस्य