________________ उज्जममाण 764 - अभिधानराजेन्द्रः - भाग 2 उज्जयत उज्जममाणस्स गुणा, जह हुँति ससत्तिओ तवसु। एमेव जहासत्ती, संजममाणे कहं न गुणा 2" उद्यच्छत उद्यम कुर्वतः तपःश्रुतयोरिति योगः गुणास्तपो ज्ञानाव्याप्तिनिर्जरादयो यथा भवन्ति स्वशक्तितः स्वशक्त्युद्यमवत एवमेव यथाशक्ति शक्त्यनुरूपमित्यर्थः (संजममाणे) कह ण गुणत्ति) संयममाने संयमं पृथिव्यादिसंरक्षणादिलक्षणं कुर्वति सति साधौ कथं न गुणाः गुणा एवेत्यर्थः / अथवा कथं गुणा येनाविकल संयमानुष्ठानरहितो विराधकः प्रतिपाद्यत इत्यत्रोच्यते॥ आव०३ अ०। उज्जय त्रि०(उद्यत)उद्यम् कर्तरिक्त / उद्यमयुक्ते, कृतोद्यमे, भावे क्तः उद्यमेन यमेन यमेनियमनार्थत्वे कर्माणि क्तः / उत्तोलिते, याचा उद्यतविहारिणि, व्य० प्र०१ उ०|| उज्जयंत-उज्जयन्त-पुं०रैवतकगिरौ, हेमला वाचा यत्रारिष्टनेमिः सिद्धः / आ० म०प्र०।तद्वक्तव्यता यथा / / नामभिः श्रीरैवतको, जयन्ताद्यैःप्रथामि तम्। श्रीनेमिपाठितं स्तौमि, गिरनारगिरीश्वरम्।।१।। स्थाने देशः सुराष्ट्राख्यं, विभर्ति भुवनेष्वसौ। यद्भूमिकामिनीभाले, गिरिरेष विशेषकः / / 2 / / शृङ्गारयन्ति खङ्गाराः दुर्ग श्रीऋषभादयः। श्री पार्श्वस्तेजलपुरं, भूषितैतदुपत्यकम्॥३॥ योजनद्वयतुङ्गेऽस्य, शृङ्गे जिनगृहावलिः। पुण्यराशिरिवाभाति, शरद्वन्ध्वंशुनिर्मला ||4|| सौवर्णदण्डकलशामलशारकशोभितम्। चारु चैत्यं चकास्त्यस्यो-परि श्रीनेमिनःप्रभोः॥५॥ श्रीशिवासूनुदेवस्य, पादुकात्र निरीक्षता। स्पृष्टार्चिताऽवशिष्टानां, पापव्यूह व्यपोहति॥६॥ प्राज्यं राज्यं परित्यज्य, जरत्तृणमिव प्रभुः। बन्धून विधूय च स्निग्धान्प्रपेदेऽत्र महाव्रतम्।।७।। अत्रैव केवलं देवः, स एव प्रतिलब्धवान्। जगज्जनहितैषि स, पर्यणैषीच निर्वृतिम्।।८। अत्र एवात्र कल्याण, त्रयमन्दिरमादधे / श्रीवस्तुपालोमन्त्रीशश्चमत्कारितभव्यकृत् / / 6 / / जिनेन्द्रबिम्बपूर्णेन्दु-मण्डपस्था जनाइह। श्रीनेमिर्मजन कर्तुमिन्द्रा इव चकासति॥१०॥ गजेन्द्रपदनामास्य, कुण्ड मण्डयते शिरः। सुधाविधैर्जलैः पूर्ण,स्नानार्ह तत्स्वनक्षमैः॥११।। शत्रुजयावतारे च, वस्तुपालेन कारिते।. ऋषभः पुण्डरीकोष्टा-पदानन्दीश्वरास्तथा।।१२।। सिंहयाना हेमवर्णाः, सिद्धबुद्धसितान्वयाः। कम्राम्रलुम्बभृत्यानि,रत्नं वा संघविघ्नहृत्॥१३॥ श्रीनेमिपत्पद्मसूत-मवलोकननामकम्। विलोकयन्तः शिखरं, यान्ति भव्याः कृतार्थताम्॥१४॥ शाम्बोजाम्बवतीजातस्तुङ्गे शृङ्गेऽस्य कृष्णजः। प्रद्युम्नश्चमहाद्युम्नस्तेपाते दुस्तपंतपः।।१५।। नानाविधौषधिगणा, जाज्वल्यन्त्यत्र रात्रिषु। किंच घण्टाक्षरच्छत्र-शिलाशालन्त उच्चकैः // 16|| सहस्राम्रवणं लक्षा-रामोन्येऽपि वनव्रजाः। मयूरकोकिलाभृङ्गी-संगीतशुभगा इह // 17 / / नसवृक्षानसा वल्ली, न तत्पुष्पं न तत्फलम्। नश्यतेऽत्राभियुक्तैर्यदित्यैतिह्याविदो विदुः||१८|| राजीमतीगृहागर्भ , कैन नामात्र वन्द्यते। रथनेमिर्ययोन्मार्गात्सन्मार्गमवतारितः।।१६।। पूजास्तवनदानादि,तपश्चात्र कतानि वै। संपद्यन्ते मोक्षसौख्य- हेतवो भव्यजन्मनाम्॥२०॥ दिग्भ्रमावपि योत्राद्रौ, क्वाप्यमार्गेऽपि संचरेत्। सोऽपिपश्यति चैत्यस्था, जिनास्तेिपितार्चिताः।।२१।। काश्मीरगतरत्नेन, कूष्माण्डसदृशेन च। लेप्यबिम्बास्पदे न्यस्ता, श्रीनेमेर्मूर्तिराश्मनी॥२२॥ नदीनिर्झरकुण्डाना, खनीनां वीरुधामपि। विदांकरोच्चात्र संख्या, संख्यावानपि कः खलु // 23 / / आसेवनकरूपाय,महातीर्थाय तायिने। चैत्यालंकृतशीर्षाय,नमः श्रीरैवताद्रये // 24 // स्ततु मयेति सूरीन्द्र, वर्णितो वृजिनप्रभ!। गिरिनारस्तु रैहेम-सिद्धभुमिमुदेस्तु वः॥२५॥ -*अस्थि सुरट्ठिविमाणं उचिंत्तो नाम पव्वओ रम्मो। तस्सिहरै आरुहिओ, भत्तीए नमह नेमिजिणं / / 1 / / अंबाइअंबदेविं,ण्हवणचणगंधधूवदीवहिं। पूइयकयप्पणामा, ता जोअह जेण अत्थत्थि।।२।। गिरिसिहरकुहरकंदर, निज्झरणकवाडविअडकूवेहिं। जोएह खत्तवायं,जह भणियं पुव्यसुरीहिं॥३॥ कंदप्पकप्पराग, कुगइविद्दवणनमिनाहस्स। निव्वाणसिलानामेण, अस्थिभुवणम्मि विण्णेया।|४|| तस्सय उत्तरपासे, दसधणुहेहि अहो मुहविवरं। दारम्मि तस्स लिंग, अवयाणेधणुह चत्तारि॥५॥ तस्स पसुमुत्तगंधो, अत्थिरसो पलसएणसयतंब। विधेवि कुणइ तारं, ससिकुंदसमुज्जलं सहसा॥६॥ पुव्वदिसाए धणुह, तरैसुतस्सेव अस्थि जागवई। पाहणमाया दाहिण, दिसागए वारस धहिं।।७।। दिस्सइ अतस्स पयडो, हिंगुलवण्णो अदिचरसो। बिंधेइ सव्वलोहे,फरिसेणं अग्गिसंगेणं॥८॥ उज्झिते अत्थिनई, विहलानामेण पव्वई पडिमं। दावेइ अंगुलीए, फरिसरसो पव्वई दारं / / 6 / / सक्कावयार ऊज्झित, गिरिवरे मस्स उत्तरे पासे। सोवाणं पंतिआए, पारेवय वण्णिआ पुढवी // 10 // पंचगवण्णे बद्धा, पिंडी धमिया करेइ वरतार। फेढइ दारिद्ववाहि, उत्तराइदुक्खकंतारं॥११॥ सिहरे विसालसिंगे, विसंत पाय कुट्टिमा जत्थ। तस्सासन्ने सिहरे, कव्वडहडपाम होतारं।।१२।। उज्जतरे वयवाण, तत्थय सुद्दारवानरो अत्थिा सोवामकण्णछिन्नो, उग्घाडइ विवरवरदारं / / 23 / / हत्थसएण पविट्ठो, दिक्खइसोवण्णवण्णिआ सक्खो। नीलराणंसवता, सहस्सवे हीर सो नूणं ||14|| तग्गहिऊण निउत्तो, हणुवंतं छिवइ वामपाएण। सो ढक्क्ड वारदारं,जेणन जाणइजणा को वि॥१५॥ उजिंतसिहर उवरिं, कोहि डहरं खुनात विक्खायं। अवरेण तस्सय सिला, तदुभयपासे मुओ संतु॥१६॥ तं अयसि तिल्लमीसं, थंभइ पडिवायबंगिअंवगं। दोगच वाहिहरणं, परितुट्ठा अंबिआ जस्स।।१७।। वेगवई नामवई, मणसिजवण्णाइ तत्थपाहाणा। तो पिंडधम असंते,समसुद्धाहोइवरतारं||१८|| उज्जंते नाणसिला, तस्स अहोकणय वणिआपुढवी। छक्केडयमुत्तपिंडी, खइरंगारे भवे हेमं / / 16 / /