________________ उग्गह 741 अभिधानराजेन्द्रः / भाग 2 उग्गह एवमसंस्तरद्भिर्वस्त्रादेरनुज्ञापना कर्त्तव्या क्षेत्रिकैरपि संस्मरद्भि तेषामनुज्ञाकर्तव्या। जइ पुण संथरमाणा, ण दिति इतरे व तेसिं गहति। तिविधं आदेसो वा, तेण विण जाय परिहणी।। यदिपुनः संस्तरन्तः क्षेत्रिकाः असंस्तरन्तः सक्षेत्रिकाणां वस्त्रादिकंन प्रयच्छन्ति इतरे वा अक्षेत्रित्रका असंस्तरन्तोऽपि तेषां क्षेत्रिकाणामनापृच्छच्च वस्त्रमोटिका वा गृहन्ति ततस्विविध जघन्यमध्यमोत्कृष्टनिप्पन्नं पञ्चकमासलधुचतुर्लधुलक्षणं प्रायश्चितम्। सूत्रस्यादेशाद्वा नवमं तेन व स्त्रादिना जायते परिहाणिस्तन्निप्पन्नमपि तेषां प्रायश्चित्तम्। इदमेव व्यक्तीकरोति।। जे खेतिया मोत्तिण देंति थागं, लंभेवि जागंतु वयं तहाणं। पेल्लंतिवागंतु असंथरम्मि, चिरं वदोण्हपि विराहणाओ। ये क्षेत्रिका वयमिति कृत्वा भक्तपानादेः प्राचुर्येण लाभेऽपि अन्येषां (थागं) अवकाशं न प्रयच्छन्ति तत आगन्तुकानां व्रजतां या परिहाणिर्भवति ततस्तेषां प्रायश्चितम् / अथ क्षेत्रिणामसंस्तरणेऽप्यागन्तुकाः प्रेरयन्ति प्रेष्यं विना तिष्ठन्ति ते चागन्तुकाः आदेशिकाः प्राघूर्णकाश्चततश्विरं वा प्रभूतं कालं वा- शब्दादल्यं वा कालंन संस्तरणं तेषां भवेत् ततो द्रयेषाम- प्यागन्तुकानां वास्तव्यानां च या विराधना तन्निप्पन्न प्रायश्चित्तम् / यत एवमतः। अस्थि हु वसभग्गामा, कुदेसणगरोवमासुहविहारा। बहुवत्युवग्गहकरी, सामच्छेदेण वसियट्वं / सन्ति विद्यन्ते वृषभग्रामा इहाचार्य आत्मद्वितीयो गणावच्छेदकश्चात्मतृतीय एष पञ्चको गच्छो भवति। ईदृशास्त्रयो गच्छाः पञ्चदश जनाः एते यत्र ऋतुबद्धे निर्वहन्ति वर्षासु पुनः सप्तको गच्छस्तद्यथा आचार्य आत्मतृतीयो गणावच्छेदक आत्मचतुर्थः। ईदृशास्त्रयो गच्छाः पञ्चविंशतिजना भवन्ति / एते या वर्षावासे जघन्येन निर्वहन्ति ते वृषभग्रामा उच्यन्ते तेच कीदृशा इत्याह। कुदेशस्य यन्नगरं तेनोपमा येषां ते कुदेशनगरोपमास्ते च सुखविहाराः सुलभभक्तपाना निरुपद्रवाश्च / अत एव बहूनामन्थतरोक्तप्रमाणानां त्रिप्रभृतीनां गच्छानामुपग्रहकरस्ततस्तेषु सीमाच्छेदेन बहुभिरपि गच्छैर्वस्तव्यम् / न कैरपि परस्परं मत्सरो विधेय इति भावः / सीमाच्छे दो नाम साहिका ग्रामार्द्धवाटकादिविभजनम्।यथा अस्यां साहिकायां भवद्भिपर्यटनीयम् अस्यां पुनरस्माभिरित्यादि। यद्वा येता क्षेत्रो समकं प्राप्तास्तैः समच्छेदेन वस्तव्यं यथा युष्माकं सचित्तमस्माकम-चित्तम्। अथवा युष्माकमन्तः अस्माकं बहिः युष्माकं स्त्रियो ऽस्माकं पुरुषाः युष्माकं श्राद्धाः अस्माकमश्राद्धाः। अथवा यो यल्लप्स्यते तत्तस्यैव नदातव्यम्। इदमेव व्याख्यानयति।। एकवीस जहण्णेणं, पुटवट्टिते उग्गहो इतरे। पल्लीपडिवसभेवा,सीमाए अंतरागासे। पूर्वोक्तनीत्या वर्षासु एकविंशतिजना उपलक्षणत्वादृतुबद्धे पञ्चदशजना या जघन्येन संस्तरन्ति स वृषभग्राम उच्यते। उत्कर्षतस्तु द्वयोरपि कालयोभत्रिंशत्सहरासंख्याको गच्छो या सस्तरति स वृषभग्रामः। या ये सीमाच्छेदो विधातव्यः / कथमित्याह (पल्लीइत्यादि) युष्माभिरन्तरपल्लयां पर्यटनीयमस्माभिः प्रतिवृषभग्रामेप्रतिवृषभो नाम मूलग्रामाद र्द्धयोजने महान्ग्रामः / अथवा अन्तरपल्ल्याः प्रतिवृषभस्य वा अर्द्ध युष्माकमर्द्धमस्माकमेवं सीमायां मूलग्रामस्य प्रतिवृषभग्रामस्य चान्तरा योग्रामस्तस्याप्यर्द्धयुष्माकमर्द्धमस्माकमेत चलमनिन्द्रं च क्षेत्रा मन्तव्यम्। अथाचलसैन्द्रक्षेत्रमाह।। इंदरकीलमणोग्गहो, जत्थ य राया जहिं च पंच इमो। सत्थसन्तपुरोहिया, सेणाव तिसत्थवाहे य।। इन्द्रकीलको नाम इन्द्रस्थूणा सा यत्रोत्तिष्ठति इदं मातृकायास्तत्रायमवग्रहो न भवति / अनिन्द्र कीलकोऽपि या राजा मूर्धाभिषिक्तः परिवसति (रायाजहिंपंचत्ति) या पञ्चवसन्ति / श्रेष्ठी अमात्यः पुरोहितः सेनापतिः सार्थवाहश्चेति। अहण सीए व समोसरे वा विराहण अणुयाणे। एतेसु णत्थि उग्गहो, वसहीएय मग्गणं अखेत्ते / / अथ शीर्षकं नाम यतः परं समुदायेन गन्तव्यं सम्यग्मार्ग वहना त्तत्र मिलितानाम् समवसरणं नाम कुलसमवायो गण समवायः संघसमवायो वा एतेषु वसता तदवग्रहस्य मार्गणा कर्तव्या अथ किमर्थमेतेष्वग्रहो न भवतीत्युच्यते। बहुजणसमागते तेसु, होति बहुगच्छमणिवातो य। मो पुव्वं तु तदट्ठा-पेल्ले व अकोविया खेत्तं / / तेष्विन्द्रकीलकादिषु बहु प्रभूतस्य जनस्य समागमो भवति अध्वशीर्षकादिषु च बहूनां गच्छानां सन्निपातो मीलको भवति। अतः केचिदकोविदस्तदर्थ क्षेत्रमदिमस्माकमेवाभाव्यं भवत्विति कृत्वा पूर्वमन्ये इह प्रथमं समागत्य मा क्षेत्रं प्रेरयेयुरित्येतेषु भावावग्रहो ऽधिक्रियते। इदमेव भावयति। सद्धादलं ता उवहिम्मि सिद्धा, सिद्धे रहस्सम्पि करेज गंतुं। एमावयंते यणमच्छरेणं, तित्थस्स सद्धी दुहतो विहाणी।। तथेन्द्रकीलादौ श्राद्धा केषांचिदाचार्याणामुपधिं वस्त्राधुपकरणं दातुं लग्नास्ते च न वर्तन्ते अस्माकमिदं गृहीतुमिति भणित्वा ते निषिद्धाः ततः श्राद्धाः पृच्छेयु प्रेषणीयान्यप्यन्नानि वस्त्राणि किमिति न कल्प्यन्ते ततो दूरत्वान्नास्माकममूनि आभवन्तीति लक्षणं तेषां पुरतः कथयितव्यम्। तदेव विशिनष्टि कथिते सति ते श्राद्धाः मन्युमप्रीतिं वा कुर्वीरन् / ये च सलब्धयो धर्मकथादिलब्धिसंपन्नास्ते मत्सरिणः वयं किमपि तावन्न लप्स्यामहे अतः किमर्थमेवं प्रयासंकुर्म इत्यनुशयेन तीर्थं धर्मकथादिना नप्रभावयन्तिाततो (दुहतो विहाणित्ति) द्वयोरपि सचित्ताचित्तलाभयोः परिहाणिर्भवति। तत्र सचित्तहानिः कोऽपि देश-विरतिं वा न प्रतिपद्यते। अचित्त हानिराहार वस्त्रादि तथाविधं न प्राप्यते अत एव तेषु नावग्रहो भवति / वसतिं प्रतीत्य पुनरेतेष्वपि भवति कथमित्याह। एगालहियाणं, तुमग्गणा दूरिमग्गणा नत्थि। आसण्णे तुठियाणं, तत्थ इमा मग्गणा होइ।। एकालय एक स्यां वसतो स्थितानामवग्रहस्य मार्गणा भवति तत्रा यः पूर्व तस्यां वसतौ स्थितस्तस्य सचित्तमचित्तं वा आभवति असमकं द्वौ बहवः स्थितास्तदा साधारण सा वसतिः / ये तु तस्या वसते र्दूरे स्थितास्तेषामवगह