________________ उग्गह 740- अभिधानराजेन्द्रः - भाग 2 उग्गह भत्तादिफासुएणं, अलब्ममाणे य पणगहाणीए। अट्ठाणे कायव्वा, जयणा उग्गा जहिं भणिया / / अध्वनिमार्गे प्राशुके भक्तादावलभ्यभानेपञ्चकहान्या यतना कर्तव्या। यत्र ग्रामे नगरे अरण्ये वा पूर्व कल्पाध्ययने भणिता।व्य० द्वि०७ उ०॥ (15) अवग्रहक्षेत्रमानम्। (सूत्रम्) सगामंसि वा जाव संनिवेसं वा कप्पइ निग्गथाण वा निग्गंथीण वा सव्वउसमंता सकोसं जाणणं उग्गहं तु गिण्हित्ताणं चिट्ठित्तए॥ अस्य संबन्धमाह। गामाइयाण वेसिं, उग्गहपरिमाणजाणणासुत्तं / कालस्स वा परिमाणं, वुत्तं इहइंतु खेत्तस्स / / तेषामनन्तरसूत्रोक्तानां ग्रामादीनां कियानवग्रहो भवतीति शङ्कायामवग्रहपरिमाणज्ञापनार्थमिदं सूत्रमारभ्यते / यद्वा पूर्वसूत्रेषु "अहालिंदमवि उग्गहे इत्यादि' भणता अवग्रहविषयकालस्य परिमाणमुक्तमिहं तु क्षेत्रस्य तदेवोच्यते। एतेन संबन्धेनायातस्या-स्य व्याख्या अथ ग्रामे वा नगरे वा यावत्सनिवेशे वा कल्प्यते निर्ग्रन्थानां चावग्रहः सर्वः सर्वासु दिक्षु समन्तात् चतसृष्वपि विदिक्षु सक्रोशं योजनमवग्रहमवगृह्य स्थातुमिति सूत्रार्थः / अथ भाष्य-विस्तरः। उड्डमहे तिरियं पि य, सक्कोसं होइ सव्वतो खित्तं। इंदपदमाइएसुं, विदिसिं सेसेसु चउपंच॥ ऊर्ध्वदिगधो दिग् (तिरियंपियंति) तिर्यकपूर्वदक्षिणापरात्तरालक्षणाश्चतस्रो दिशः एतामुपदिक्षु गिरिमार्गस्थितानां सर्वतः सक्रोश-योजनं क्षेत्रं भवति तच्च इन्द्रपदादिषु संभवति इन्द्रपदो नाम गजाग्रपदगिरिस्तत्र [परिष्टात् ग्रामो विद्यते। अधोऽपि ग्रामो मध्यमश्रेण्यामपि ग्रामस्तस्य चतसृष्वपि दिक्षुग्रामाः सन्ति ततो मध्यमश्रेणिग्रामे स्थितानां षट्सु दिक्षु क्षेत्रं भवति। आदिशब्दादन्योऽपि य ईदृशः पर्वतस्तस्य परिग्रहः शेषेषु चतसृषु पञ्चसु वा क्षेत्रं सक्रोशं योजनक्षेत्रं भवति समभूमिकायां व्याधाताभावे दिक् चतुष्टयक्षेत्रं व्याधातं प्रतीत्य पुनरित्थम्। एग व दो व तिण्णि व, दिसा अकामं तु सम्वतो वा वि। सव्वत्तोतं अकोसे, अगुञ्जणोउ जा खेत्तं / / एकदिग्भाविना पर्वतादिव्याधातेन किंचिद् ग्रामादिकमेकस्यां दिशि अक्रोशं भवति सक्रोशयोजनावग्रहरहितमित्यर्थः / एवं दिग्द्वयभाविना व्याघातेन द्वयोर्दिशोरक्रोशं त्रिदिग्भाविना तिसृषु दिक्षुदिक्चतुष्टयभाविना तु सर्वतोऽप्यक्रोशं भवति। तत्रच सर्वतोऽक्रोशे ग्रामादौ बाह्यान्यावत्क्षेत्रं ततः परमक्षेत्रमिति। किं च। संजमआयविराहण, जत्थ भवे देहउवधितेणावि। तं खलु ण होइ खेत्तं, उग्घेयव्वं च किं तत्थ / / यत्र ग्राभादौ प्राप्तानां संयमात्मविराधना भवति यत्र च देहोपधिस्तेना भवन्ति तत् खमु क्षेत्रं न भवति। किंवा तत्रावग्रहीतव्यं येन क्षेत्रमुच्यते। अथ किं पुनः क्षेत्रमित्याह। खेत्तं चलमचलं वा, इंदमणिंदं सकोसमक्कोसं / वाघतम्मि अकोसं, अडविजले सावए तेणे / / यत्रावग्रहो विचारयितुमुपक्रान्तस्तत् क्षेत्रं चलमचलं वा भवेत् / चलं व्रजिकादिः अचलं ग्रामादिः / पुनरेकै क द्विधा इन्द्रमिन्द्रकीलादियुक्तमिनिन्द्रं वा तद्विपरीतम् / तत्र यदचलमनिन्द्रं वा तस्मात्सक्रोशमक्रोशं वा पश्चानुपूर्व्या / अथ तानेव भेदान् व्याचिख्यासुरिदमाह। (वाघायम्मीत्यादि) यत्र यस्यां दिशिव्याघातस्तत्रस्थमक्रोश भवति / कः पुनयाघात इति चेदत आह / अटवी तस्यां दिशि वर्तते (जलेत्ति) समुद्रो नदी वा ये श्वापदा वा सिंहव्याघ्रादयस्तत्र सन्ति। स्तना वा उपधिशरीरहरा विद्यन्ते एतैः कारणैः ग्रामादिकनिरुद्धा ग्रामा गोकुलाद्यभावादवग्रहीतव्यं किमपि तत्र नास्ति। अथ सक्रोशमाह। सेसे सकोसमंडल, मूलनिबंधणअणुमयंताणं / पुव्वहिताण उग्गहो, सममंतरपल्लिगा दोण्हं / / शेषनाम यदनन्तरोक्तव्याघातरहिततत्रमूलनिबन्धन मण्डलम-सुमतां सर्वतः सक्रोशं योजनमवग्रहो भवति / कथमिति चेदुच्यते / मूलग्रामादेकैकस्यां दिशि योजनार्द्धमईक्रोशेन समधिकं तावदवग्रहो भवति / स च पूर्वापराभ्यां दक्षिणोत्तराभ्यां वा कृत्वा सक्रोशं योजन भवति। यद्वा गतिप्रत्यागतिभ्यामेकस्यामपि दिशि योजनं मन्तव्यं तत्र सक्रोशे अक्रोशे वा ये पूर्वस्थितास्तेषामवग्रहो भवति / यत्र समकमनुज्ञापितं तत् क्षेत्रं साधारणम् / अथ संवट्टेषु क्षेत्रेषु समकमेवाप्रज्ञापितं ततो यदि द्वे अन्तरपल्लिके तत एकेषामेका अपरेषामप्येका / अथैकैवान्तरपल्लिका ततो द्वयोरपि साधारणः / अथ बहवस्तत्रान्तरपल्लिकास्ततः को विधिरित्याह। खेत्तरसंतो दूरे, आसण्णं वा ठिताण समगंतुं। अद्धद्धं वा दुगाई, गच्छाण साहारणा होई॥ द्वित्रिप्रभृतिषु संबन्धेषु क्षेत्रेषु समकमनुज्ञाप्य स्थितानां काश्चिदन्तरपल्लिकाः क्षेत्रान्तः क्षेत्रस्याभ्यन्तरे भवन्ति (दूरेत्ति) काश्चित्तु दूरे याभ्यः समुदानमूलग्रामानीयमानं क्षेत्रातिक्रान्तं भवतीति कृत्वा प्रथममालिकायां तन्निबाईते (आसन्नेत्ति) काश्चित्पुनरासन्ने याभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिक्रान्तं न भवति ततो यावत्यस्ता अन्तर पल्लिकास्तासां सर्वासामपि अर्द्ध वा अर्धार्द्ध वा चतुर्भाग इत्यर्थः / वा शब्दात्रिभागादिकं चाविकादीनां द्वित्रिप्रभृतीनां गच्छानां साधारणं भवति अथात्रैव भाव्यनोभाव्य-विधिमाह। तणडगलच्छारमल्लग, संथारगभत्तपाणमादीणं। सलिलं ते अस्सामी, खेत्तिय ते मोत्तु णुण्णवणा। तृणडगलक्षारमल्लकसंस्थारकभक्तपानादीनां सति विद्यमाने प्राघूर्णे लाभे क्षेत्रिका अस्वामिनः अक्षेत्रिकाणामप्येतान्याभवन्तीत्यर्थः / (ते मोत्तु गुण्णवणत्ति) येषां तृणादीनां क्षेत्रिकैरनुज्ञापना कृता तानि मुक्त्वा तान्यक्षेत्रिकाणां नो भवन्तीति भावः / किंपुनः क्षेत्रिकाणां भवतीत्युच्यते। ओहो उवग्गहो विय, सचित्तं वा विखेत्तियस्सेते। मोत्तूणं पडिहारिय, संथरंतेवणुण्णवणा / / ओघोपधिरुपग्रहोपधिश्च / सचित्तं वा शैक्षादिकम् / एतानि क्षेत्रिक स्याभवन्ति / यद्यक्षे त्रिका एतेषमिक तर गृह्णन्ति तदा प्रायश्चित्तं परं मुक्त्वा प्रातिहारिकं द्विविधमप्युपछि त गृहस्थेभ्यो मार्गयन्तो न प्रायश्चित्तभाज इति हृदयम् / यः पुनर प्रातिहारिक स्तं न लभन्ते / अथ शीतादिना परिताप्यन्ते तत