________________ उग्गह 738 - अमिधानराजेन्द्रः - भाग 2 उग्गह राजावग्रहे सैव पूर्वानुज्ञापना वर्तते न पुनरन्यस्मिन् राज्ञि उपविष्ट स भूयोऽवग्रहोऽनुज्ञापयितव्यः / एष प्रथमसूत्रस्यार्थः / द्वितीय-स्योच्यते (से) तस्य भिक्षो राजपरावर्तेषु अन्येषु राज्यं प्रतिपन्नेषु असंस्तृतेषु त्रुटितपूर्वराज्यसंस्थितिषु व्याकृतेषु अन्यवंशीयैर्दायादैर्वा विभज्य समीकृतेषुव्यवस्थितेषुपूर्ववंशेषु अत एव परपरिगृहीतेषु भिक्षुभावस्यार्थाय भिक्षुभावो नाम ज्ञानदर्शनचारित्राणि तेषामैव भिक्षुशब्दप्रवृत्तिनिमित्तवादेतदेव प्रथमोद्देशके सप्रपञ्च भावितंतस्यार्थाय स भिक्षुभावः परिपूर्णो भूयादित्येवमर्थमित्यर्थः। अन्यथा सचित्तादीनामनुज्ञापनेऽदत्तादानं स्यात् / द्वितीयेऽपि वारमवग्रहो ऽनुज्ञापयितव्यः एष द्वितीयस्यापि सूत्रार्थः। सांप्रतमेनामेव व्याख्यां भाष्यकृदप्याह। संथडमो अविलुत्तं, पडिवक्खो वा न विज्जत्ती जस्स। अणहिट्ठियमत्तेणव, अववोगडदाइसामन्नं / / संस्तृतं नाम राज्यं यदविलुप्तं मो इति पादपूरणे यस्य वा प्रतिपक्षो न विद्यते नाप्यन्येन केनाप्यधिष्ठितम्। अव्याकृतं नाम दायिनां सामान्य न पुनस्तैर्विभक्तम्। अव्वोगडं अविगडं, संदिटुं वा विजं हवेजाहि। अव्वो च्छिन्नपरंपर-मागयतस्सेववंसस्स। अव्याकृतं नाम यदविकृतंन केनापि विकारमापादितम् यदि वा यद्भवेत् पूर्वराजेन संदिष्ठं यथा एतस्मै राज्यं देयमिति तत अव्या--कृतम्।। अव्यच्छिन्नं नाम यत्तस्यैव वंशस्य परंपरया समागतमिति। पुव्वाणुना जा पुव्व-एहिं राईहिं इह अणुनाया। लंदंतु होइ कालो, चिट्ठइ जा उग्गहो तेसिं / / पूर्वानुज्ञा नाम या पूर्वकै राजभिरनुज्ञाता। "जहालंदमवीत्यत्र लंदो नाम भवति कालस्ततोऽयमों यावन्तं कालं तेषामवग्रहस्तवन्तमपि कालं सैवावग्रहे पूर्वानुज्ञा / तदेवं प्रथमसूत्रव्याख्या कृता / संप्रति द्वितीयसूत्रव्याख्यानार्थमाह। जं पुण असंथडं वा, सगडं मह वोगउं व वोच्छिन्नं / नंदमुरियाण व जहा, वोच्छिन्नो जत्थ वंसो उ॥ यत्पुनरसंस्तृतं शकटमिवशरारुतया संवरीतुमशक्नुवत् तथा व्याकृतं दायादैरन्यवंजैर्वा विभज्य अङ्गीकृतम्। व्यवच्छिन्नं यत्र नन्दमौर्याणामिव वंशो व्यवच्छिन्नः। तत्थ उ अणुन्नविजइ, भिक्खुभावट्ठमग्गहो निययं / दिक्खा भिक्खूभावो, अहवातइयव्वयादीउ॥ तत्र नियतमवश्यंभावेन भिक्षुभावार्थी यथावस्थितभिक्षु भावः तत्रैव भिक्षुभाव इत्याह / दीक्षादिरादिशब्दात्सम्यग ज्ञानादिपरिग्रहः / भिक्षुभावो ऽथवा तृतीयव्रतादिकं भिक्षुभावः / तत्रैव भिक्षु-शब्दस्य परमार्थत्वात्तदेवं कृता सूत्रव्याख्या। संप्रति नियुक्तिविस्तरः। रण्णा कालगयम्मि, अथिरगुरुगा अणुण्णवे तम्मि। आणादिणो य दोसा, विराहणा इमेसु गणासु / / राज्ञि कालगते ये द्वौ वा त्रयो वा दायिनस्तेषां मध्ये यः स्थिरः | सोऽनुज्ञापयितवयः। यदि पुनरस्थिरमनुज्ञापयन्ति तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः आज्ञादयश्च देषास्तथाविराधना आत्मविराधना संयमविराधना वा। एषु वक्ष्यमाणेषु स्थानेषु तान्येवाह। धुवमण्णे तस्स मज्झे, वसथेरेथेरमज्झ संताहे। दोसो गयपरदोसो, अणणुण्णवणेथिरे गुरुगा। ध्रुवमन्यस्मिन्नन्यवंशजे अस्थिरे तस्य वा पूर्वराजस्य संबन्धिनां दायिनामेकस्मिन् अस्थिरे संयतिरनुज्ञाषितः सन् चिन्तयति स तथा विचिन्तनास्ति। तथा भावस्यान्यथाभाव इति स एको मुक्तसन्नाहो वर्तते। तंच विश्वस्तंज्ञात्वाऽन्यदा सोऽन्येन दायादिना मारितो राज्यमधिष्ठितम् ततः स राजा चिन्तयति। संयतैर्ममामित्रपरिगृहीतैर्येन कारणेनासाववग्रहमनुज्ञापितस्ततः स प्रसिद्धो द्वयोरेकतरस्य प्रद्वेषं कुर्यात् / किमुक्तभवति निर्विषयत्वादि कुर्यात्।जीवचारित्रयोर्वा भेदं कुर्यात्तस्मात् यः स्थिरः सोऽनुज्ञापयितव्योऽननुज्ञापने प्रायश्चित्तं चत्वारो गुरुकाः। अणणुण्णविए दोसा, पच्छा वा अप्पितो अवण्णे वा। पत्तेपुव्वममंगल,निच्छुभणे य दोसपत्थारो।। यदि स्थिरो नानुज्ञाप्यते तदा एतस्मिन्नननुज्ञापिते दोषाः सर्वे सामान्यपाखण्डाः समीपमागता निर्गन्थानां पुनरवज्ञां कृत्वा स्थितास्ततः प्रद्वेषितो निष्काशनादि कुर्यात्तस्माद्व्यविच्छन्नवंशे सोऽवश्यमयग्रहमनुज्ञापयितव्यः / किं पूर्व पश्चान् मध्ये वा तत्र यदि सर्वेरन्यैः पाखण्डै रनु ज्ञापिते स पश्वादनुज्ञाप्यते ततः स चिन्तयति अहमेतेषामप्रियोऽवज्ञा यतो ममैतेः क्रियते तेन पश्चादागताः। अथ प्राप्ते राज्ये पूर्वमनुज्ञाप्यते तदा कदाचिदमङ्गलं मन्येत ततो (निच्छुभणंति) निष्काशनं कुर्यात्प्रद्वेषतः प्रस्तारो जीवनात् व्यपरोपणं क्रियेत तस्मान्मध्येऽनुज्ञापयितव्यः / यदि पुनर्भद्रक इति ज्ञातो भवति चानुज्ञाप्यमाना मङ्गलमिति मन्यते तदा पूर्वमपयनुज्ञापनीयः / अथ कथमस्थिरा ज्ञातव्यः कथंवा भद्रकः कथं वा पूर्वकमनुज्ञाप्यमानो मङ्गलं मन्यते इति तत आह। ओहादी आभोगण निमित्तविसरण वा वि नाऊण / महगपुष्वमणुण्णा, वपंतमण्णाय मज्झम्मि / / अवध्यादीनामतिशयेनादिशब्दान्मनः पर्यवज्ञानश्रुतातिशयविशेषपरिग्रहोऽथवा निमित्तविशेषेण / अथात्मनोऽवध्याघतिशयो निमित्तविशेषो वा न विद्यते तदा अन्यानवध्याधतिशयिनो निमित्तविशेष ज्ञात्वा दृष्टा भद्रकमनुज्ञापयेत। प्रान्तमनुज्ञातं वा मध्ये। एएणं विहिणाउ, सो णुण्णवितो जहेव रजेहिं। राया किं देमित्ति य, जं दिण्णं अण्णरादीहिं / / एतेनानन्तरोदितेन विधिना सोऽनुज्ञापितो राजा यदा वदेत किं ददामीति तदा वक्तव्यं यद्दत्तमन्यै राजभिस्तदेहीति। जाणतो अणुजाणइ, अजाणओ ब्रूति तेहिं किं दिण्णं / पायोग्गंति य भणिए, किं पाउग्गं इमं सुणसु / / एवमुक्ते जानानः सर्वमनुजानाति अज्ञायको ब्रूते तैरन्यै राजादिभिः किं दत्तं तत्र प्रायोग्यमिति भणितव्यम् / तस्मिन् भणितेषु न ब्रूते किं प्रायोग्यमिति ततो वक्तव्यं शृणुत इदं प्रायोग्यं तदेवाह। आहर उवहिसेज्जा, ठाणनिसीयणतुयट्टगमणादी। थीपुरिसाण य दिक्खा, दिण्णा णो पुथ्वराईहिं / / नोऽस्माकं पूर्वराजैराहार उपधिः शय्या स्थानमूर्ध्वस्थानं निषदनं त्वग्वत्तॊ गमनमादिशब्दादागमनपरिग्रहस्तथा स्त्रीपुरुषाणां दीक्षा अनुज्ञाद्वारेण दत्ता।