________________ उग्गह 737- अमिधानराजेन्द्रः - भाग 2 उग्गह एगेण अणुण्णविए, सो चेव य उग्गहो होइ॥ भूतादिना व्यन्तरेण परिगृहीतो यो द्रुमस्तत्र स्वाध्यायार्थ कदाचिद्गन्तव्यं भवति / तं च ध्यन्तरमनुज्ञाप्य स्वाध्यायं करोति / एवमेकेना पि तस्मिन्ननुज्ञापिते शेषाणां साधूनां स वृक्षादाववग्रहो भवति। अथासौ वृक्षः परपरिगृहीतोऽप्यस्तिततः सामी अणुण्णविजइ, दुमस्स जस्सोग्गहो व्व असहीण। कूरसुरपरिग्गहिते, दूमम्मि कणिहगाण गमो।। यस्तस्य द्रुमस्य स्वामी सोऽनुज्ञाप्यते / अथासौ न स्वाधीनस्त तोऽस्वाधीने तस्मिन् यस्यायमवग्रहः सोऽनुजानीतामित वक्तव्यम्। अथासौ द्रुमः क्रूरसुरपरिगृहीतस्ततो येषामगारिणां सत्कस्तेषामागन्तुमसौ न ददात तत्र कणेष्टका गृहगमो मन्तव्यः / तं सुरं कायोत्सर्गेणानुकम्प्य स्वाध्यायादिकुर्वन्तीति भावः। तत्र चायं विधिः। निच्छंतेण व अण्णे, ईसालुसुरेण जं अणुण्णायं / तत्थ वि सो चेव गमो, सागारपिंडम्मि मग्गणता / / ईर्ष्यालुसुरेण अन्येन गृहिणा आगच्छता वृक्षमूलादिकं साधूना-मनुज्ञातं तत्रापि स एव गमः पूर्वानुज्ञापनावस्थानलक्षणे विज्ञेयोनवरं तत्र स्थितानां सागारिकपिण्डस्यमार्गणा कर्तव्या। तामेवाह। जक्खो वि य होइ तरो, वलिमादी गिण्हणा भवे दोसा। सुविणा उवरिंएवा, संखडिकारोवणाभिक्खं॥ येन यक्षेण स द्रुमः परिगृहीतः स एव तत्र स्थितीनां तरूणां शय्या-तरो भवति। ततो यस्तस्य बलिकूरादि निवेद्यते स शय्यातरपिण्ड इति कृत्या परिहियते। बृ०३ उ०। राजावग्रहो देवेन्द्राऽवग्रहश्च। (सूत्रम्) से अणुकड्डेसु वा अणुभित्तिसु वा कुणरियासु वा अणुफरियासु वा अणुपंथेसु वा अणुमग्गेसु वा संघेवग्गहर पुव्वाणुण्णवणा चिट्ठइ अहालंदमविग्गहे। अस्य संबन्धमाह। जे चेव दोण्णि य गता, सागारियरायउग्गहो होति। तेसिं इह परिमाणं, णिवोग्गहम्मी विसेसेणं / / यावेव द्वौ सागारिकराजावग्रहौ पूर्वसूत्रयोः प्रकृती तयोरेवेह सत्रे परिमाणमुच्यते तथापि नृपावग्रहपरिमाणं विशेषेणाभिधीयते अनेन संबन्धेनायातस्यास्य व्याख्या (से) तस्य नम्रन्थस्य अनुकुड्येषु वा कुड्यसमीपवर्तिषु प्रदशेषु एवमनुवृत्तिषु वा अनुपरिखासुवा अनुपथेषु वा अनुमर्यादासु वा इह परिखानगरप्राकारयोरपाल्त-राले हस्ताष्टकप्रमाणो मार्गः। परिखा खातिका मर्यादा सीमा शेष प्रतीतम्। एतेषु सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमपि कालमवग्रह इति सूत्रार्थः / अथ नियुक्तिविस्तरः। अणुकुड्डे भित्तीसुं, वरियाण गारपंथफरिहासु। अणुमग्गे सीमाए, णायव्वं जं जहिं कमति] अनुशब्दः प्रत्येकमभिसंबध्यते अनुकुड्यानुभित्त्योः अनुवरिकाप्राकारपयपरिखासु च (अणुमग्गसीमाए) मर्यादा सीमाततोऽनुमर्यादायामनुसीमायामित्ये कोऽर्थः / पथ्यनुज्ञातव्यम् / यपात्र | सागारिकराजाद्यवग्रहानुज्ञापनम्। एनां नियुक्तिगाथा व्याख्यानयति। उवकुडं अणुकुडं, कुड्डसमीवं व होइ एगहुँ / एमेवाससएसु वि, तेसि पमाणं इमं होइ॥ अनुशब्दस्य समीपार्थद्योतित्वादनुकुड्यमुपकुड्यं कुड्यंसमीप-मिति चैकार्थम् / एवमेव शेषेष्वपि अनुभित्त्यादिषु पदेषु मन्तव्यम् / तेषामनुकुड्यादीनामवग्रहविषयमिदं प्रमाणं भवति। वतिमित्तिकडगकुड्डे, पंथेपगएउग्गहो रयणी। अणुवरियाए अट्ठउ, चउरो रयणी उपरिहाए / वृत्तौ वर्तुलादिपरिक्षेपरूपायां भित्ताविष्टकादिनिर्मितायां कटके वलये च कुड्ये पथिधर्ममर्यादायां (वरंपणित्ति) एकहस्तमाना-वग्रहो भवति / अनुवरिकायामष्टौ हस्ताः परिखायां चत्वारो रत्नयः। इदमेव भावयति। वतिसामिणोवतीतो, हत्थो सोवग्गहोण खंतिस्स। तहि ममकारो जति विय, पणणिम्मग्गभूमीए / / गृहपतिविवक्षिताया वृत्तेः स्वामी तस्यवृत्ते परतो हस्तमात्रमवग्रहो भवति शेषस्तु सर्वोऽपि नरपतेरवग्रहो मन्तव्यः। अथ किंकारणं वृत्तिस्वामिनो वृत्तेः परतोऽप्यवग्रहो भवति इत्याह तस्य गृहपतेः परतोहस्तप्रमाणे भूभागे ममकारो भवति / अतो यद्यपि (निम्मा-णित्ति) मूलपादान्ते च तावद्विवक्षितगृहसत्का भूमिस्तथापि वृत्तेः परतो हस्तमेकं तस्यावग्रहः एवं भित्तिकुड्यादिष्वपि भावनीयम्। हत्थ हत्थं मोत्तुं, कुड्डादीणं तु मज्झिमो रण्णो। जत्थ न पूरइ हत्थो, मज्झे तिभागो वही रन्नो // तेषामेव कुड्यादिनांहस्तं हस्तमुभयोरपि गृहयोर्मुक्त्वा मध्यमः सर्वोऽपि राज्ञोऽवग्रहः / यत्र तु गृहस्यापान्तरालस्यातिस्तोकतया हस्तो न पूर्यते तत्र मध्यमत्रिभागो राज्ञः शेषौ द्वौ गृहस्वामिनोः / एतदवग्रहपरिमाणमुक्तम् / अत्र चोचरादीनि स्थाननिषदनादीनि वा कुर्वन् यदि कुड्यादीनां हस्ताभ्यन्तरे करोति ततो गृहपत्थवग्रहो मनसि क्रियते हस्तादहिश्चरिकाप्राकारपरिखादिषु च राजावग्रहो-ऽनुज्ञाप्यते / अटव्यामपि यद्यसौ राजा प्रभवति तदा तस्यैवावग्रहः स्मर्यते। अथासौ तत्र न प्रभवति ततो देवेन्द्रावग्रहो मनसि क्रियते। वृ०३ उ०॥ (14) राजपरिवर्तेऽवग्रहः।। "सेरज्जपरियमुसु" इत्यादिसूत्रद्वयस्य संबन्धप्रतिपादनार्थमाह। सागरियसाहम्मिय-उग्गहगहणउत्तमाणम्मि। सुत्तमअंतिमसुत्तं, ठवंति राउग्गहे थेरा। पूर्वसूत्रेभ्यः सागारिकावग्रहग्रहणमनुवर्तते ततोऽपि परतरेभ्यः साधर्मिकावग्रहणं तस्मिन् अनुवर्तमाने अवग्रहग्रहणप्रस्तावात् सप्तमोद्देशकस्यान्तिम सूत्रम् / सूत्रद्वयं राजावग्रहे स्थविराः करिः स्थापयन्ति एषोऽधिकृतसूत्रद्वयसंबन्धोऽनेन संबन्धेनायातस्यास्य व्याख्या(से) तस्य भिक्षो राजपरावर्तेषु राजपरावर्तो नामागेतनो राजा कालगतो नवोऽभिषिक्तस्तेषु / पुनः कथंभूतेषु इत्याह संस्तृतेषु न कोऽपि तद्राज्यं विलुम्पतीति भावः / तथा अव्याकृतेषु येषां दायादानां सामान्यं तद्राज्यं तैरविभक्तेषु। अनवच्छिन्नेषु तस्मिन्नेव वंशे अनुवर्तमानेषु अतएवापरपरिगृहीतेषु सैवावग्रहस्य पूर्वा अनुज्ञापना तिष्ठति या तस्य वंशस्यादावनुज्ञापना कृता कि यन्तं कालं पुनः सैव पूर्वानुज्ञा तिष्ठति तत आह यथालन्दमप्यवग्रहः / किमुक्तं भवति यावन्तं कालं स वंशोऽनुवर्तते तावन्तमपि कालमवग्रहे