________________ उग्गह 727 अभिधानराजेन्द्रः। भाग 2 उग्गह मिल्ले रत्तिकरपव्वए सेसं तं चेव णामगं सावेत्ता पजुवासइ धम्मकहा जाव पडिगया तएणं से सक्के देविंदे देवराया समणस्स भगवओमहावीरस्स अंतियं धम्मं सोचाणिसम्म हट्टतुट्ठसमणं भगवं महावीरं वंदइ णमंसइ वंदइत्ता णमंसइत्ता एवं वयासी कइणं भंते? उग्गहेपण्णत्ते सक्का पंचविहे उग्गहे पण्णत्ते तंजहा देविंदोग्गहे रायोग्गहे गहवइउग्गहे सागारियउग्गहे साहम्मियउग्गहे जे इमे अज्जत्ताएसमणा णिग्गंथा विहरंति एसिणं अहं उग्गहं अणुजाणामी तिकट्ट भगवं महावीरं वंदइ णमंसइ वंदइत्ता णमंसइत्ता तमेव दिव्वं जाणविमाणं दुरूहइ दुरूहइत्ता जामेव दिसिंपाउन्भूएतामेव दिसिंपडिगए भंतेत्ति। भगवं गोयम! समणं भगवं महावीरं वंदइणमंसइ वंदइ २त्ता एवं वयासी जंणं भंते! सक्के देविंदे देवराया तुन्भे एवं वन्दति सच्चेणं एसमटे हंता सच्चेणं / म०१६ श०२ उ०। अथ कतिऽविधोऽयमवग्रह उच्यते देविंदरायगहवइ, उग्गहो सागारिए असाहम्मि। पंचविहम्मि परूविए, नायव्वा जो जहिं कमइ।। देवेन्द्रः शक ईशानो वा सयावतः क्षेत्रस्य प्रभवतितावान् देवेन्द्रावग्रहः राजा चक्रवर्तिप्रभृतिको महर्द्धिकः पृथ्वीपतिः सयावतः षट्खण्डभरतादेः क्षेत्रास्य प्रभुत्वमनुभवति तावान् राजावग्रहः / गृहपतिः सामान्यमण्डलाधिपतिस्तरस्याऽप्याऽधिपत्यविषयभूतं यद्धभिखण्डं स गृहपत्यवग्रहः। सागारिकः शय्यातरस्तस्य सत्तायां यगृहपाटकादिकं स सागारिकावग्रहः / साधर्मिकाः समानधर्माणाः साधवस्तेषां संबन्धि सक्रोशयोजनादिकं यदा भव्यं क्षेत्रां स साधर्मिकावग्रहः / एष पञ्चविधोऽवग्रहः। एतस्मिन् पञ्चविधेऽवग्रहे वक्ष्यमाणभेदे प्ररूपिते सति ज्ञातव्यो विधिरित्युपस्कारो यो या देवेन्द्रादौ क्रमतेऽवतरति स तत्रावतारणीय इति संग्रहगाथा समासार्थः / सांप्रतमेनामेव विवरीषुरमीषां पञ्चानांमध्ये कः कस्मादलीयानिति जिज्ञासायां तावदिदमाह। हेतुल्ला उवरिल्लेहिं, वाहिया नउ लहंति पाहन्नं / पुव्वाणुना भिनवं, चउसुभयपच्छिमेभिनवा।। अधस्तना देवेन्द्रावग्रहादय उपरितनै राजवग्रहादिभिर्यथा क्रमं बाधिता द्रष्टव्याः। अत एव नतु नैव लभन्ते प्राधान्यमुत्त मत्वम्। किमुक्तं भवति। राजावग्रहे राजैवप्रभवति न देवेन्द्रस्ततो देवेन्द्रानुज्ञातेप्यवग्रहे यदि राजा नानुजानीते तदा न कल्प्यते तदवग्रहे स्थातुम / अथानुज्ञातो राज्ञा स्वविषयावग्रहः परं नगृहपतिना ततस्तद्वग्रहे पिन युज्य तेऽवस्थातुम्। अथानुमतंगृहपतिना स्व भूमिखण्डेऽवस्थानं परं न सागारिकेण स्वावग्रहे ततोऽपिन कल्प्यते वस्तुम् / अथानुज्ञातः सागरिकेण स्वावग्रहः परं न साधर्मिकै स्तथापि न कल्प्यते इत्येवमुपरितनैरधस्तना बाध्यन्ते तथानुपूर्वामनुज्ञामभिनवां चतुर्यु भजनां विकल्प्य केषांचित्साधूनां पूर्वानुज्ञा तदपरेषाम भिनवेति भजना कार्येत्यर्थः / अथ केयं पूर्वानुज्ञा काऽभिनवानुज्ञेत्युच्यते। ईहाया अवग्रहः पुरातनसाधुभिरनुज्ञापितः स यत्पाश्चात्यैरेवमेव परिभुज्यते न भूयोऽनुज्ञाप्यते सा पूर्वानुज्ञा यथा चिरंतनकालवर्तिभिः साधुभिर्देवेन्द्र यदवग्रहमनुज्ञापितः सैव पूर्वानुज्ञा। सांप्रतकालीनसाधुना मप्यनुवर्तते न पुनर्भूयोप्यनुज्ञाप्यते अभिनवानुज्ञानामभावाद् / यदा किलान्यो देवेन्द्रः समुत्पद्यते तदा तत्कालवर्तिभिः साधुभिर्यदसाव भिनवोत्पन्नतयाऽग्रहोऽनुज्ञाप्यते सा तेषामनभिवाऽनुज्ञा तदपरेषां पूर्वानुज्ञा एवं शेषनृपतिगृहपतीनामपि पूर्वाभिनवानुज्ञे भावनीये / सागारिकोपि प्रथमत उपागतः साधुभिर्यदुपाश्रयमनुज्ञाप्यते सा तेषामभिनवानुज्ञा तेषु साधुषु तत्रा स्थितेषु यदन्ये साधवः समागत्य तदनुज्ञापितवग्रहं परिभुञ्जते सा पूर्वानुज्ञा तदेवं चतुर्ध्ववग्रहेषु पूर्वाभिनवानुज्ञयो भजना भाविता। तथा पश्चिमे साधर्मिकावग्रहेभिनवानुज्ञैव भवति न पुर्वानुज्ञा / तथाहि यो यदावग्रहार्थं साधर्मिकमुपसंपद्यतेस सर्वोपि तदानीं तमनुज्ञाप्यैवावतिष्ठते नान्यथेत्यभिनवानुज्ञैवैका। अथामीषां पञ्चानामपि भेदानाह। दवाई एक्कक्के, चउहा खित्तं तु तत्थ पाहन्ने। तत्थेव य जे दवा, कालो भावो असामित्ते।। एकैकोऽवग्रहश्चतुर्की द्रव्यतः क्षेत्रातः कालतो भावतश्च। तत्र प्रथमतः क्षेत्रावग्रहः प्ररूप्यते कुतोहेतोरिति चेदुच्यते क्षेत्रांपुनः स्वतन्त्रेषुद्रव्यादिषु मध्ये प्राधान्येन वर्तते इहावग्रहस्य प्ररूप्यमाणत्वात्तस्य च तत्वतः शक्रादिक्षेत्रारूपतयाभिधीय-मानत्वादिति भावः / यतश्च तत्रौव क्षेत्र यानि द्रव्याणि यश्च कालो भावश्च एतेषां क्षेत्रमध्ये भूतत्स्वामित्वे वर्तते क्षेत्रस्यैव संबन्धित्वादन्येषां तस्मिश्च प्रथमं प्ररूपिते द्रव्यादयस्तदन्तर्गताः प्ररूपिता एव भवन्तीति प्रथमतः क्षेत्रवग्रहं प्ररूपयतिक पुवावरायया खलु, सेढीलोगस्स मज्झयारम्मि। जो कुणइ दुहा लोगं, दाहिण तह उत्तरद्धं च / / इह सर्वस्यापि लोकस्य मध्यकारे मध्यभागे मन्दरस्य पर्वतस्योपरि श्रेणिराकाशप्रदेशपक्तिरेकप्रादेशिकी पूर्वापरयो -दिशोरायता प्रदीर्घा समस्ति या श्रेणिों कमेकरूपमपि द्विधा करोति / तद्यथा दक्षिणालोकार्द्धमुत्तरलोकार्द्ध च / तत्र दक्षिणलोकर्द्धस्य शक्र: प्रभुत्वमनुभवति उत्तरलोकार्द्धस्य पुनरीशानकल्पनायकस्तथादक्षिणलोकार्द्ध यान्यावलिका -प्रतिष्टानि पुष्पावकीर्णानिवा विमानानि शक्र स्यैव भाव्यानि यानि पुनरुत्तरार्द्ध तानि सर्वाण्यपि द्वितीयकल्पाधिपतेः। अथ यानि मध्यमश्रेण्यांतानि कस्याभवन्तीत्याह। साधारण आवलिया, मज्झम्मि अबद्धचंदकप्पाणं। अद्धं च परिक्खेत्ते, तेसिं अद्धं च सक्खित्ते / / अपार्द्धचन्द्रकल्पयोरर्द्धचन्द्राकारयोः सौधर्मेशानकल्पयो: पूर्वापरायतायां मध्यमश्रेण्या या विमाननामावलिकासा साधारणा शक्रेशानयोः। किमुक्तं भवति। तस्यां मध्यमश्रेण्या पूर्वस्यामपरस्यां च दिशि त्रयोदशस्वपि प्रस्तटेषु यानि विमानानि तानि कानिचित् शक्रस्य कानिचिदी शानस्याभाव्यानि। तत्र यानि वृत्ताकाराणि तानि सर्वाण्यपि शक्रस्यैव, यानि पुनस्यत्राणि चतुरस्राणि वा तान्येक शक्रस्य एकमी शानस्येत्येवमुभयोरपि साधारणानि तथाचोक्तम् "दक्खिणेन इंदा दाहिणओआवली भवेतेसिंजे पुण उत्तरइंदा, उत्तरओ