________________ उईरणा 705 अभिधानराजेन्द्रः / भाग 2 उईरणा लोके वक्तारः आवर्जितोऽयं मया संमुखीकृत इत्यर्थः / ततश्च तथा भवत्वेनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं शुभयोगव्यापाराणामावर्जितकरणम् / अपरे "जानाउस्सियकरण" मिति पठन्ति तत्रायं शब्दसंस्कारेऽवश्यंकरणम् तथाहि समुद्धांत केचित्कुर्वन्ति केचिन्न कुर्वन्ति / इदं त्वावश्यकरणं सर्वेपि केवलिनः कुर्वन्तीति तच्चायोजिकाकरणमवश्यंकरणम् तथाहि समुद्धातं केचित्कुर्वन्ति च / करणमसङ्ग्रेयसमयात्मकमन्तर्मुहूर्तप्रमाणम् / यत उक्तम्। प्रज्ञापनायाम् “कइ समए णं भंते ! आउजियाकरणे पण्णते गोयमा ! असंखिङ् समईए अंतोमुहूत्तए पन्नत्ते / इति तज्जा" तत्राद्या प्रारभ्यते। तावत्तीर्थकरकेवलिनः तीर्थकरनाम्नो जघन्यानुभागोदीरणा आयोजिकाकरणो हि प्रभूतानुभागोदीरणा प्रवर्तते इत्यर्वाग् ग्रहणम् तथा नीलकृष्णदुरभिगन्धतिक्त क टुशीतरू क्षस्थिराशु भरू पस्य प्रकृतिनवकस्य सयोगिकेवलिचरमसमये जघन्यानुभागादीरणा तस्यैव सर्वविशुद्धत्वात्। कर्कशगुरुस्पर्शयोस्तु केवलिसमु-द्धातिनि वर्तमानस्य केवलिनः प्रथमसंहारसमये जघन्यानुभागोदीरणा। सेसाण य गइवेइम-मज्झिमपरिणामपरिणयउ होना। पचयशुभाशुभविय, चियट्ठए नउ विहागे य / / 303 / / शेषाणां सातवेदनीय गतिचतुष्टयजातिपञ्चकानुपूर्वी चतुष्टयोच्छयासावहायोगतिद्विकत्रसस्थावरबादरसूमपर्याप्तापर्याप्तसुभगसुस्वरदुःस्वरानादेयायशःकर्त्ययशः कीर्युच्चैर्गोत्रनीचैर्गोत्राख्यानां चतुस्त्रिंशतसंख्यानां प्रकृतीनां तत्प्रकृतीनां सादेयवर्तमानाः सर्वेऽपि जीवा मध्यमपरिणामपरिणता जघन्यानुभागोदीरणामपरिसाता जघन्यानुभागोदीरणास्वामिनो भवन्ति / सा च सर्वासां प्रकृतीनां सामान्येन जधन्योत्कष्टानुभागोदीरणा / स्वामित्वपरिज्ञानार्थमुपायोपदेशमाह (पचत्यादि) प्रत्ययपरिणामप्रत्ययो भवत्यप्रत्ययश्च प्रकृतीनां शुभत्वमशुभत्वं च विपाकादि एतान् सम्यक् चिन्तयित्वा परिभाव्य जधन्योत्कृष्टानुभागोदीरणास्वामी यथावज्ज्ञेयोऽवगन्तव्यः / तथाहि / परिणामप्रत्ययानुभा-गोदीरणा प्राय उत्कृष्टा भवति भवप्रत्यया तुजधन्या शुभानाञ्च संक्लेशप्रयोजनं जघन्यानुभागोदीरणा अशुभानां च विशुद्धौ विपर्यासे तूष्कृष्टा इत्यादि परिभाव्य तत्तत्प्रकृत्युदयवतां जघन्योत्कृष्टानुभागोदीरणास्वामित्वमवगन्तव्यम् / इति तदेवमुक्ता अनुभागोदीरणा / संप्रति प्रदेशोदीरणाभिधानावसरस्तत्र च द्वावर्याधिकारौ / तद्यथा साधनादि प्ररूपणार्थमाह सा च द्विधा मूलप्रकृतिविषया उत्तरप्रकृतिविषया च तत्र मूलप्रकृतिविषयां साधनादिप्ररूपणां चिकीर्षुराह। पंचण्हमणुक्कोसा, तिहा पएसे चउव्विहा दोण्हं। सेसविगप्पा दुविहा, सव्वविगप्पा य आउस्स॥३०४।। ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणां पञ्चानां मूलप्रकृतीनामनुत्कृष्टा प्रदेशविषया उदीरणा त्रिधा त्रिप्रकारा तद्यथा अनादिधुंवध्रुवा च। तया तासामुत्कृष्टा प्रदेशोदीरणा गुणितकर्मांशस्वस्वोदीरणापर्यवसाने लभ्यते सा च सादिरध्रुवा च ततोऽन्या सर्वाप्यनुत्कृष्टा सा चानादिधुंवोदीरणत्वात् धुवाधुवे अभव्यभव्यापेक्षया तथा द्वयोर्वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा तद्यथा सादिरनादिधुंवाधुवा च। तथाहि वेदनीयस्योत्कृष्टा प्रदेशोदीरणा प्रमत्त भावाभिमुखस्य सर्व-विशुद्धय मोहनीयस्य पुनः स्वोदीरणा पर्यवसाने सूक्ष्मसंपरायस्य ततो द्वयोरपि एषा साधनादीअधुवा ततोऽन्या सर्वाप्यनुत्कृष्टा सापिचाप्रमत्तगुणस्थानकात्प्रतिपतितो वेदनीयस्यापशान्तमोहगुणस्थानकाच प्रतिपतितो मोहनीयस्य सादिः तत्स्थानमप्राप्तस्य द्वयोरप्यनादिः ध्रुवाध्रुवे पूर्ववत् (सेसविगप्पति) एतासां सप्तानामपि मूलप्रकृतीनां शेषा उक्तव्यतिरिक्ता विकल्पा जघन्योत्कृष्टा द्विध द्विप्रकारास्तद्यथा सादयोऽध्रुवाश्च / तथा तासा सप्तानामतिसंक्लिष्टा मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा सा च सादिरधुवा च / संक्लेशपरिणामाच च्युतस्वमिथ्यादृष्टिरप्यजघन्यतः सापि सादिरधुवा च / उत्कृष्टा च प्रागेव भाविता आयुषः सर्वे पि विकल्पा जघन्योत्कृष्टानुत्कृष्टा द्विविधास्तद्यथा सादयोऽध्रुवाश्च। सा च साद्यध्रुवता अध्रुवोदीरणत्वादवसेया। सप्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणामाह। पिच्छत्तस्स चउद्धा, सगयालाएहि तिहा अणुक्कोसा। सेसविगप्पा दुविहा, सव्वविगप्पाय सेसाणं॥३०५ / / मिथ्यात्वस्यानुत्कुष्टा प्रदेशोदीरणा चतुर्विधा / तद्यथासादिरनादिधुंवाधुवा च तथाहि योऽनन्तरसमये सम्यक्त्वं संयमसहित प्रतिपत्स्यते तस्य मिथ्यादृष्टमिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा सा च सादिरधुवा च समयमात्रत्वात् ततोऽन्या सर्वाप्यनुत्कृष्टा सापि च सम्यक्त्वात्प्रतिपतिपतिताभवति सादिः तत्स्थानमप्राप्तस्यपुनरनादिः। ध्रुवाध्रुवे पूर्ववत्। तथा सप्तचत्वारिंशत्प्रत्कृतीनामनुत्कृष्टा प्रदेशोदीरणा त्रिधा / तद्यथा / अनादिधुवा ध्रुवत्वात् / तथाहि / पञ्चविधज्ञानावरणपञ्चविधान्तरायचतुर्विधदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य गुणितकर्माशस्य स्वस्वोदीरणापर्यवसाने उत्कृष्टाप्रदेशोदीरणा। सा च सादिरधुवा च ततोऽन्या सर्वाप्यनुत्कृष्टा सा च अनादिः धुवोदीरणत्वाद धुवाधु वे पूर्ववत् / तथा तैजससप्तक वर्णादिविंशतिस्थिरास्थिरशुभाशुभ-गुरुलघुनिर्माणनानां त्रयस्त्रिंशत्संख्याकानां प्रकृतीनां गुणितकर्माशोऽस्य सयोगिकेवलिनश्चरमसमये उत्कृष्टा प्रदेशोदीरणा / सा च सादिरध्रुवा च / ततोऽन्या सर्वाप्यनुत्कृष्टा सा चानादिधुवोदीरणत्वादासां ध्रुवाध्रुवे पूर्ववत् ( सेसविगप्पादुविहत्ति) उक्तशेषा विकल्पा जघन्याजघन्योत्कृष्टरुपा द्विविधास्तद्यथा सादयो धुवाश्च / तथाहि सर्वासामप्युक्तप्रकृतीना-मतिसंक्लिष्टपरिणामेति मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा लभ्यते अतिसंक्लिष्टस्य परिणामप्रच्यवने वा जघन्या ततो द्वे अपि साद्यध्रुव उत्कृष्टा च प्रागेव भाविता शेषाणां चोक्तव्यतिरिक्तानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टा द्विविधास्तद्यथा सादयो ध्रुवाश्च साद्यध्रुवता च ध्रुवोदीरणत्वादवसेया। कृता साधनादिप्ररूपणा। संप्रति स्वामित्वमभिधातव्यं तच द्विधा उत्कृष्टजघन्याप्रदेशोदीरणास्वामित्वात्। तत्र प्रथमत उत्कृष्टोदीरणारवामित्वमाह। अणुभागुदीरणा ए, जहण्णसामीव एस जेहाए। घाईणं अन्नयरो, ओहीण वि णोहिलंभेण / / 306 // घातिकर्मणां सर्वेषामपि अनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी प्राक्प्रतिपादितः स एवोत्कृष्टप्रदेशोदीरणायाः स्वामी गुणितकर्माशो वेदितव्यः नवरमन्यत इति श्रुतकेवली इतरो वा अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धिहीनोत्कृष्टप्रदेशोदीरकोवसेयः / (असीति) वेदमतिसंक्षिप्तमुक्तमिति विशेषता विभाव्यते अवधिज्ञानावरणवानां चतुर्णा ज्ञानावरणानां चक्षुरचक्षुः केवलदर्शनावरणानां