________________ उईरणा 704 अभिधानराजेन्द्रः / भाग 2 उईरणा तीनां स्वस्वौदीरणापर्यवसाने जघन्यानुभागोदीरणा / तथा निद्राप्रचलयोरुपशान्तमोहे जघन्यानुभागोदीरणा लभ्यते तस्य सर्वविशुद्धत्वात्। निहानिहाईणं, पमत्तविरये विसुज्झमाणम्मि। वेयगसम्मत्तस्स, सगखवणोदीरणा चरमे / / 265 / / निद्रानिद्रादीनां निद्रा निद्रा प्रचला प्रचला स्त्यानीनां प्रमत्तस्य संयतस्य विशुध्यमानस्य अप्रमत्तभावाभिमुख्यजघन्यानुभागोदीरणा प्रवर्तते / तथा क्षायिकसम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यड्मिथ्यात्वयोः क्षपति / तयोर्वेदकसम्यक्त्वस्य क्षयोपशमिकस्य क्षपणकाले चरमोदीरणायां समयाधिकावलिका शेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा भवति सा च चतुर्गतिकानामन्यतरस्य वेदितव्या। से काले सम्मत्तं, संसंजमगिण्हओय तेरसगं। सम्मत्तमेव मीसे,आऊण जहन्नहिईसु / / 266 // अनन्तरेकाले द्वितीयसमयेयः सम्यक्त्वंसंयमसहितंग्रहीष्यतितस्य त्रयोदशानां मिथ्यात्यानन्तानुबन्धिचतुष्टयाप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा / अयमिह संप्रदायः / योऽनन्तरसमये सम्यक्त्वं संयमसहितं ग्रहीष्यति तस्य मिथ्यादृष्टर्मिथ्यात्वेनानन्तानुबन्धिनाम्, तथायो विरतिसयये संयम ग्रहीष्यति तस्याप्रत्या-ख्यानावरणकषायाणां जघन्यानुभागोदीरणा मिथ्यादृष्ट्यपेक्षया हि अविरति सम्यग्दृष्टिरनन्तगुणविशुद्धस्ततोऽपि देशविरतोऽनन्तरगुणाविशुद्ध इत्युक्तक्रमेणैव जघन्यानुभागोदीरणासंभवः / तथा सम्यक्त्वमवसीयते इति यः सम्यग्मिथ्यादृष्टिरनन्तरसमये सम्यक्त्वं प्रतिपत्स्यते तस्य सम्यग्मिथ्यात्वस्य जघन्यानुभागोदीरणा सम्यमिथ्यादृष्टियुगपत सम्यक्त्वंसयमंचन प्रतिपाद्यते तथा विशुद्धेरभावात् किन्तु केवलं सम्यक्त्वमेवेतिकृत्वतदेवं केवलमुक्तम् / तथा चतुर्णामायुषामात्मीयामात्मीयजघन्यस्थितौ वर्तमाना जघन्यमनुभागमुदीरयन्ति / तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धो भवतीति कृत्वा जघन्यानुभागोऽपि तत्रैव लभ्यते / तथा नरकायुषो विशुद्धिवशाजघन्यः स्थितिबन्धः ततो जघन्यानुभागोऽपि नरकायुषस्तत्रैवलभ्यते। तथा च सतित्रया--णामायुषामतिसंक्लिष्टो जघन्यायुभागोदीरकः नरकायुषस्त्वति-विशुद्ध इति॥ पोग्गलविवागियाणं, भवाइसमये विसेसमवि चासिं / आइतणूणं दोण्ह, सुहुमो वाउअप्पाउ ||27|| पुद्गलविपाकिन्यः प्रकृतय : तासां सर्वासामपि भवादपि समये भव-- प्रथमसमये जघन्यानुभगोदीरणा एतच सामान्यो नाक्तं ततः अनुकस्यामुक उदीरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि। प्रतिज्ञातमेव निर्वाहयति / (आइ इत्यादि) आद्योद्वि-योस्तन्वोश्शरीस्योरौदारिकवैक्रियरूपयोर्यथासंख्य सूक्ष्मो वायुकायिकश्शाल्पायुर्जघन्यानुभागोदीरकः / इह शरीरग्रहणेनवाता अपि गृहीता द्रष्टव्याः / तत एतदुक्तं भवति औदारिकशरीरौदारिकसंघातौदहारिकबन्धनचतुष्टयरूपस्यौदारिकषट्स्याप्यपर्याप्तकसूक्ष्मैकेन्द्रियो वायुकायिकवैक्रियषट्कस्य च पर्याप्तौ बादरवायुकायिकोऽल्पायुर्जघन्यानुभागोदीरको भवति। बेइंदिअप्पाउग, तिरयचिरट्ठिई असण्णिणो वावि। अंगोवंगाण हारग, जइणो अप्पाकालम्मि / / 268|| द्वयोरङ्गोपाङ्ग योरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नाये संख्यमल्पायुर्वीन्द्रियस्तथा असंज्ञी सन् जातो नारकश्विरस्थितिक: स च जघन्यानुभागोदीरको भवति इयमत्र भावना द्वीन्द्रियोल्पायुरौदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुभागमुदीरयति तथा संज्ञिपञ्चेन्द्रियः पूर्वोद्वलितेवैकिङ्गोपाङ्गस्तोककालं बध्वा स्वभूमिकानुसारेण चिरस्थितिको नैरयिको जातस्तस्य वैक्रियाङ्गोपाङ्गनाम् उदयप्रथमसमये वर्तमानस्य जघन्यानुभागोदीरणा / तथाऽऽहारकस्य प्राकृतत्वात् अत्र स्त्रीत्वनिर्देशः शरीरग्रहणेन च बन्धनसंघाता अपि गृह्यन्ते तत आहारकसप्तकस्य यतेराहारकशरीरमुत्पादयतःसंक्लिष्टस्य अल्पे काले प्रथम-समये इत्यर्थः जघन्यानुभागोदीरणा। अमणो समचउरंसु, रिसभएय ओसगचिरट्टिई सेसे। संघयणाणयमाणु,ओहुंडवगघायाणमवि सुहमो।। 296 // असंज्ञिपञ्चेन्द्रियोऽल्पायुरिति संक्लिष्टप्रथमसमयेतद्भवस्थ आहारकः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहनन-योर्जघन्यमनुभागमुदीरति अल्पायुर्ग्रहणं संक्लेशार्थम् / तथा असंज्ञिपञ्चेन्द्रिय एवात्मीयायामुत्कृष्टस्थितौ वर्तमान आहारको भवप्रथमसमये शेषे इति। तथा शेषाणां संहननानां से वार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्या आहारकस्वभवप्रथमप्रसमये वर्तमाना जघन्यानुभागोदीरकाः इह दीर्घायुग्रहणं विशुद्धतिर्यक् पञ्चेन्द्रियापेक्षया च प्रायोग्या मनुष्या अल्पबला इति मनुष्योपादानम् / तथा सूक्ष्मैकेन्द्रियः सुदीर्घायुः स्थितिकः आहारकप्रथमसमये हुंडोपघातिनाम्नोर्जधन्यानुभागोदीरकः। सेवट्टस्स बेइंदिय, बारसवासस्स मउयलहुगाणं। सन्निविसुद्धाणुणा-हारगस्स बीसा अइकिलट्टे // 300 / / दीन्द्रियसंज्ञिपञ्चेन्द्रियस्य स्वभूमिकानुसारेणाऽतिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणा / तथा तैजससप्तकमृदुलघुवर्जशुभ वर्णाद्ये कादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनां संक्लिष्टोऽपान्तरालगतौ वर्तमानोऽनाहारकोमिथ्यादृष्टिर्जघन्यानुभागोदीरणास्वामी वेदितव्यः। पत्तेगमुरालसमं, इयरं हुडेण तस्स परघाओ। अप्पाउस्स य आया, उज्जोयाणमवि तज्जोगो॥३०१॥ प्रत्येकनाम औदारिकेण समं वक्तव्यम् / औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियसमये वर्तमानो जधन्यानुभागोदीरको वेदितव्य इत्यर्थः / तथा हुंडेन समानमेतत् साधारणनाम्रो वक्तव्यम् / तथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुंडनाम्नोर्जघन्यानुभागोदीरणा प्रागभिहिता तथा साधारणनाम्नोऽपि वक्तव्येत्यर्थः / तथा सूक्ष्मैकेन्द्रिय सूक्ष्मपर्याप्तस्याल्यायुष इति संक्लिष्टस्यापर्याप्तचरमसमये वर्तमानस्य पराधातनाम्नो जघन्यानुभागोदीरणा / तथा आतपोद्योतनाम्नोस्तद्योगः प्रथिवीकायिकः शरीरपर्याप्तापर्याप्तः प्रथमसमये वर्तमानः संक्लिष्टो जघन्यानुभागोदीरकः। जानाउज्जोयकरणं, तित्थगरस्स नवगस्स जोगते / करकडगुरूणमंते, नियत्तमाणस्स केवलिणो / / 302 / / आयोजिकाकरण नाम केवलिसमुद्धातादर्वाक् भवति तत्रामर्यादायाम् आमर्यादया केवलदृष्ट्या योजनव्यापारणमा योजनं च तच्चातिशुभयोगानामवसेयमायोजनमायोजिकातस्याः करणमायोजिकाकरणं केचिदाचार्या वर्जितकरणमित्याहुस्तत्रायं शब्दार्थः आवर्जितनामाभिमुखीकृतस्तथा च