________________ उईरणा 665 - अभिधानराजेन्द्रः - भाग 2 उईरणा मनुष्यानधिकृत्य चत्वारःसंयतान् वैक्रियशरीरिणोधिकृत्य चत्वारः / / संयतानधिकृत्य द्वौ, देवाधिकृत्योद्योतेन सहकः,आहारिकशरीरिणः संयतानधिकृत्यद्वौ,देवानाधिकृत्य षोडशमनुष्यानधिकृत्य पञ्चशतानि षट्सप्तत्यधिकानि चाष्टाविति / अत्रापि मतान्तरेण प्रकृतिकतिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकनि वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य षोडश मनुष्यानधिकृत्य पञ्चशतानि षट्सप्तत्यधिकानि वैक्रियमनुष्याधिकृत्य नव,देवानधिकृत्य षोडश भङ्गाः प्राप्यन्ते शेष तथैवेति। तदपेक्षया चतुःपञ्चाशति व्यधिकानि द्वादश शतानि पञ्च शतानि भङ्गानां नव शतानि एकाधिकानि तद्यया नैरयिकानधिकृत्यैकः द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारः प्राप्यन्ते इति द्वादश / तिर्यक्पञ्चेन्द्रियान् स्वभावस्यानधिकृत्य प्रत्येकं चत्वारः प्राप्यन्ते इति द्वादश / तिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्च शतानि षट्सतत्यधिकानि वैक्रियशरीरिणोधिकृत्याष्टा, मनुष्यान्स्वभावस्थानविकृत्य द्वे शते अष्टाशीत्यधिके,वैक्रियशरीरिणोधिकृत्य चत्वारः, वैक्रियसयतानधि-कृत्योद्योतेन सहकः,आहारिकशरीरिणोधिकृत्य द्वौ, तीर्थकरमधिकृत्यैकः,देवानधिकृत्याष्टाविति।मतान्तरेण तिर्यक्पञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादशशतानि वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य षोडश मनुष्यान् स्वभावस्यानधिकृत्य पञ्च शतानि षट्सप्तत्यविकानि, वैक्रियमनुष्यानधिकृत्य नव, देवानधिकृत्य षोडश भङ्गाः प्राप्यन्ते। शेषं तथैवेति तदपेक्षया पञ्चपञ्चाशति पञ्चाशीत्यधिकानि सप्तदश शतानि षट् पञ्चाशति भङ्गानामकोनसप्तत्यधिकानि चतुर्दश शतानि तद्यया द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियानधिकृत्य प्रत्येक षट्प्राप्यन्ते इति अष्टादश,तिर्यक्पञ्चेन्द्रियान स्वभावस्थानधिकृत्याष्टौ शतानि चतुःषष्ट्यधिकानि,वैक्रि यशरीरिणोधिकृत्य चत्वारः मनुष्यानधिकृत्य पञ्चशतानि षट्सप्तत्यधिकानि वैक्रियशरीरिणः संयतानधिकृत्य उद्योतेन सह एकः, आहारकशरीरिणः संयतानधिकृत्यैकः तीर्थकरमाश्रित्त्यैकः, देवानाश्रित्य चत्वारः / अत्र मतान्तरेण तिर्यक्पञ्चकन्द्रियानधिकृत्याष्टो, मनुष्यानधिकृत्य द्विपञ्चाशदधिकानि भङ्गानां भवन्ति। सप्तपञ्चाशति भङ्गानां पञ्चशती एकोननवत्यधिका! तद्यथा द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारः 2 प्राप्यन्ते इति द्वादश,तिर्यक् पञ्चेन्द्रियानधिकृत्य पञ्चाश (तानि) ति एकादश शतानि भङ्गानां प्राप्यन्तेषट्सप्तत्यधिकानि। तीर्थकरमाश्रित्यैक इति। अत्रापि मतान्तरेण तिर्यक्पञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि भङ्गानां प्राप्यन्ते / शेषं तथैवेति / तदपेक्षया सप्तपञ्चाशति पञ्चषष्ट्यधिकान्येकादश शतानि भङ्गानां भवन्ति / ___संप्रति गतिमाश्रित्य स्थानप्ररूपणां करोति। पणनवगछक्काणि,गइसुहाणि सेसकम्माणं। एगेगमेव मेने य,साहित्तिगे य पगईओ॥२५२|| नरकगतावुदीरणास्थानानि पञ्च तद्यथा द्विचत्वारिंशत् एकपञ्चाशत् | त्रिपञ्चाशत् चतुःपञ्चाशत्पञ्चपञ्चाशचेति। तिर्यमगतावेकवत्वारिंशत् वानि शेषाणि नवोदिरणास्थानानि मनुष्यगतावपि सयोगिकेवल्यादीनधिकृत्य पञ्चाशत्वानि शेषाणि नवोदीरणास्थानानि देवगतौ षडु दीरणास्थानानि मनुष्यगतिसयोगिके वली तद्यथा द्विचत्वारिंशदेकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशचेति / एतानि च सर्वाण्यपि प्राक् सप्रपञ्चं भावितानीति नेह भूयो भाव्यन्ते। तदेवमुक्तानि नामकर्मणः सप्रपञ्चमुदीरणास्थानानि। संप्रति शेषकर्मणामुदी-रणास्थानप्रतिपादनार्थमाह (सेसकम्माणत्ति) शेषकर्मणां ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणानामुदीरणास्थानमेकैकमवगन्तव्यं तद्यथा ज्ञानावरणान्तरायदोः पञ्चप्रकृत्यात्मकमेकैकमुदीरणास्थानं वेदनीयायुर्गोत्राणान्तु वेद्यमानैकप्रकृत्यात्मक नह्यमीषां द्वित्र्यादिकाः प्रकृतयो युगपदुदीर्यन्ते युगपदुदयाभावात् एतच्च ज्ञानावरणीयवेदनीयानामेकैकमुदीरणास्थानं प्रागुक्तकप्रकृत्युदीरणायां स्वामित्वं साधयित्वा निश्चित्य गुणस्थानेषु नारकादिषु गतिषु स्वयमेव ज्ञेयं ज्ञातव्यम् / तदेवमुक्ताः प्रकृत्युदीरणाः / सम्प्रति स्यित्युदीरणाभिधानावासरस्तत्र चेति अर्थाधिकारास्तद्यथा लक्षणं भेदः साधनादिप्ररूपणा अद्धाच्छेदः स्वामित्वं चेति॥ तत्र लक्षणभेदयोः प्रतिपादनार्थमाह। संपत्तिए य उदये,पओगओ दिस्सए उईरणा सा। सेचिकाठिईहिं जाही, दुविहा मूलोत्तगाए य / / 253 / / इह द्विविध उदयः संप्राप्त्युदयोऽसप्राप्त्युउदयश्च। तत्र यत्कर्म दलिक कालप्राप्तं सदनुभूयते स संप्राप्त्युदयः। तथाहि कालक्रमणे कर्मदलिकस्योदये हेतुद्रव्यक्षेत्रादिसामग्रीसंप्राप्तौ सत्यामुदयः संप्राप्त्युदयः / यत्पुनरकालप्राप्तं कर्म तद्दलिकमुदिरणा तथा चाह या स्थितिरकालप्राप्तापि सती प्रयोगेणउदीरणाप्रयोगेण संप्राप्त्युउदये पूवोक्ते स्वरूप प्रक्षिप्ता सती दृश्यते केवलचक्षुषा सा स्थित्युदीरणा / एष लक्षणनिर्देशः / अधुना भेद उच्यते (सेचिकेत्यादि) इह यासां स्थितीनां भेदः परिकल्पना संभवतिताः पुरुषपरिभाषया सेचिका इत्युच्यन्तेताश्च द्विधा उदीरणायाः प्रायोग्याः अप्रायोग्याश्च काश्चाप्रायोग्या इतिचे दुच्यतेबन्धावलिका गताः संक्रमावलिकागताश्च उदयावलिकागताश्च प्रायोग्याः "सकम्मबंध उदयवट्टणालिइईणा करणाइ'' इति वचनप्रामाण्यात् शेषाश्च सर्वा अपि प्रायः प्रायोग्याः तत्रोदये सति यासां प्रकृतीनामुत्कृप्तबन्धः संभवति तासामुत्कर्षत आवलिका द्विकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या तथाहि उदयोत्कृष्टबन्धानां तु यथासंभवमुदीरणा प्रायोग्याः। आवलिकाद्विकहीनायाश्चोत्कृष्टा स्थितेर्यावन्तः समयास्तावन्त उदीरणायाः प्रभेदाः तथाहि उदयावलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्याप्युदी-रणाप्रायोग्यस्य तावत्यवशेषीभूता तिष्ठति एवं कस्यापि द्विसमयमात्रा कस्यापि त्रिसमयमात्रा एव / तावद्वाच्यम् आवलिका द्विकहीना कस्यापि सर्वाप्युत्कृष्टा स्थितिरिति। अक्षरयोजना त्वियम् सचि-कास्थितिभ्य उदीरणाप्रायोग्याभ्यो यकाभ्यो यावतीभ्य आवलि-काद्विकहीनोत्कृष्टस्थितिसमयप्रमाणाभ्य इत्यर्थः उदीरणाप्रायोगेण समाकृष्य स्थितिः संप्राप्युदये दीयते तावती तावद्भेद-प्रमाणा सा एषा उदीरणा। तदेवं कृता भेदप्ररूपणा / संप्रति साद्यनादिप्ररूपणा संकर्तव्या। सा च द्विधा मूलप्रकृतिविषया उत्तरप्रकृतिविषया चय। तत्र मूलप्रकृतिविषयां साधनादिप्ररूपणार्थमाह। मूलटिइ अजहन्ना, मोहस्स चउव्विहा तिहा सिया। वेउणिया उण दुहासे, सविगप्पा उ उजासिं॥२५४।।