SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ इहभव 677 अभिधानराजेन्द्रः भाग 2 इहभव जइ वत्थु नत्थि तओ, गुवलद्धीओ खपुष्पं च // अचंतमणुवलद्धो, विअ अह तउ अस्थि नत्थि तो कम्म। हेऊ वि तदत्थित्तो, जो नणुकम्मस्स विसयव्व / / कम्मस्स वाभिहाणं, होज सभावो त्ति होउ को दोसो। निचं च सो सभावो, सरिसो पत्थं च को हेऊ / / एतद्गाथात्रयमपि प्रायः पाठेनैव व्याख्यातार्थ नवरं निश्चमित्याह तृतीयगाथोत्तरार्द्धम् / इदमत्र हृदयं स स्वभावो नित्यंसदृश एव त्वयाभ्युपगन्तव्यो भवान्तरे सदृशस्यैव मनुष्यादिभवस्य जननात्तस्य च स्वभावस्य नित्यसदृशत्वे को हेतुर्न कश्चिदित्य-भिप्रायः / स्वभावतः यद्ययं स्वभावः सदृश इति चेन्ननुभवविस-दृशतायामप्येतद्वक्तुं शक्यत एवेति। किंच मुत्तो वा मुत्तो वा, जइ मुत्तो तो न सव्वदा सरिसो। परिणामो पयं पिव, न देहहेऊ जइ अमुत्तो। उवगरणाभावाओ, न य हवइ सुहम्म सो अमुत्तो वि। कजसुमुत्तिमत्ता, सुन्सास्तिाहिमोशेव। सस्वभावो मूर्तोऽमूर्तो वा यदि मूर्तस्तर्हि कर्मणा सह तस्य को विशेषः संज्ञान्तरमात्रविशिष्टकमवेत्थमुक्तं स्यादिति। न चासौ सर्वदैव सर्वथा सदृशो युज्यते परिणामित्वाद्दुग्धादिवदथवा मूर्तत्वादेवाभ्रादिविकारवदिति / अमूर्तोऽसौ स्वभावस्तर्हि नैष देहादीनामारम्भको ऽनुपकरणत्वाद्दण्डादिविकलकुलालवद-मूर्तत्वादाकाशवत् (नय हवइ सुहम्मसो अमुत्तो वित्ति) किंच सुधर्मन्नितोऽपि स स्वभावोऽमूर्तो न युक्तः शरीरादेस्तत्कार्यस्य मूर्तिमत्त्वान्नह्यमूर्तस्य नभस इव मूर्त कार्यमुपपद्यते / तथा सुखसंवित्त्यादेश्च नायं मूर्तः / इदमुक्तं भवति। कर्म तावद्भवता नेष्यते स्वभाववादित्वात्ततश्च शरीरादीनि सुखदुःखसंवित्यादीनिचस्वभावस्यैव कार्याण्येष्टव्यानि नतस्य वा मूर्तत्वेनैतान्युपपद्यन्ते। ततो यथा द्वितीयगणधरवादे कार्यस्य मूर्तत्वात्सुख-संवित्त्यादेश्च कर्मणोमूर्त्तत्वंसाधितंतथेहस्वभावस्यापिसाधनी-यम्। तथाच प्रागुक्तम् आह। "नणु मोत्तमयमुत्तं, चिय कज्जमुत्ति मत्ताउ। इहजह मुत्तित्तणओ, घडस्स परमाणओ मुत्ता। तह सुह संवित्तीउ, संविधिवेयणुब्भवाओ य। वन्भवलाहाणीउ, परिणामा माउयविण्णेयमिति' अथनिष्कारणता स्वभावमिति द्वितीयविकल्पमधिकृत्याह अहवा कारणउ चिय, समावउत्तो विसरिसया कत्तो। किमकारणाउन भवे, विसरिसया किंच विच्छित्ती॥ अथ स्वभावत एव भवोत्पत्तिरित्यत्र अकारणत एवेत्य-यमथोभिप्रेतः (तावित्ति) तथापि हन्त ! परभवे सदृशता कुतः कोऽभिप्राय इत्याह / यथा कारणतः सदृशता भवंति तथा किमित्यकारणत एव विसदृशता न स्यादकस्माचाकारणतो भवविच्छित्तिः कस्मान्न स्यादकस्भाच भवेत्खरविषाणादिरपि भवेच्छशरीरादीनां च कारणत्वात्तेन चाभ्रादीनामिव प्रतिनियता कारणत्वादिरूपता न स्यात्तस्मान्नाकारणता स्वभावत इति। अथ वस्तुधर्मोसाविति तृतीयविकल्पमाश्रित्याह। अहव सहावो धम्मो, वत्थुस्सन सो विसरिसओ निश्च / उप्पायट्टिइभंगा, चित्ता जंवत्थुपजाया।। अथ वस्तुनो धर्मस्वभावः सोपिसर्वदैव सदृशोनघटत इति। किं कथं सर्वदैव शरीरादीनां सदृशतांजनयेत्कथं पुनरस्य सदैवसदृ-शतानघटत | इत्याह / / (उप्पायेत्यादि) यद्यस्मादुत्पादस्थिति-भङ्गादयश्चित्रा वस्तुपर्याया न च ते सदैवावस्थितसादृश्याः नीलादीनां वस्तुधर्माणां प्रत्यक्षत एवान्यान्यरूपतया परिणतिदर्शनात् / किंच वस्तुधर्मोसौ भवत्स्वभाव आन्मधर्मो -वासौ स्यात्पुद्गलधर्मो वा / यद्यात्मधर्मस्तर्हि नासौ शरीरादीनां कारणम् अमूर्तत्वादाकाशादिवदथ पुद्गलधर्मस्तर्हि कम्मैवासौ कर्मणोपि हि पुद्गलास्तिकायधर्मत्वेनास्माभिरभ्युपगतत्वादिति। किंच॥ कम्मस्स वि परिणामो, सुह धम्मधम्मो सपोग्गलमयस्स। हेऊ चित्तो जगओ, होइ सहावोत्ति को दोसो।। सुधर्मन्नसौ वस्तुधर्मो भवत्स्वभावो धर्मो भवति को दोषो न कश्चित् युक्तियुक्तत्वात्किविशिष्टोधर्म इत्याह! परिणामकस्य कर्मणः कथंभूतस्य पुद्गमयस्य कथंभूतो यः कर्मपरिणाम इत्या-ह / हेतुः कस्य जगतो जगद्वैचित्र्यस्य तदेवं कर्मलक्षणस्य वस्तुनः परिणामरूपो धर्मो भवति स्वभावो नात्र काचिद्दोषापत्ति रस्माकमपि सम्मतोऽयमर्थः केवलं सर्वदा सदृशोसौ न भवति किन्तु चित्रो मिथ्यात्वादिहेतुः वैचित्र्याद्विचित्रो विविधस्वभावः। अतो नातामात्परभवे सादृश्यमेव किन्तु विचित्ररूपतेति यदिवा किमनेनाव्यापकेन मिथ्यारूपेण चैकान्तवादेन, सर्वव्यापकमवितथरूपंचानेकान्तवादमेव दर्शयन्नाह॥ अहवा सव्वं वत्थु, पइक्खणं चिय सुहम्म धम्मेहि। संभवइ चेइ केहि वि, केहि वि तदवत्थमचंतं // तं अप्पणो विसरिसं,न पुथ्वधम्मेहिं पच्छिमिल्लाणं। सयलस्स तिहुयणस्सव, सरिसं सामण्ण धम्मे हिं।। अथवा सुधर्मन्किमेक एव परभवः सर्वमेव हि घटपटादिकं भुवनान्तर्गत वस्तु कैश्चित्पूर्वपर्यायैः समानासमानपर्यायैः प्रतिक्षणमुपपद्यते / कैश्चित्पुनरुत्तरपर्यायैः समानासमानपर्यायै-व्ये ति व्युपरमति / कैश्चित्तदवस्थमेवास्ते। ततश्चैवं सति तद्वत्यात्मनो पूर्व धम्म॑रुत्तरोत्तरधर्माणां न सदृशं किं पुनरन्यवस्तूनाम् / सामान्यधर्मस्तु सर्वस्यापि त्रिभुवनस्य समानं किंपुनरकस्यैव निजपूर्वजन्मन इति। ततः किं स्थितमित्याह। सो सव्वहेव सरिसो, सरिसो वा इहभवे परभवे वा। सरिसासरिसं सवं, निचानिचाइरूवं च / / को ह्यथोऽर्थान्तरैरात्मना वा स इहमवेपि सर्वथा सदृशोऽसदृशो वा किं पुनः परभवे / तस्मात्सर्वमपि वस्तु स्वधर्मेणापि सह समानासमानरूपमेवेहभवेपीति कुतः परभवे सादृश्यमेव प्रतिज्ञायते। इति भवत इति भावः / तथा सर्वमपि नित्यानित्याद्यनन्त धम्मत्मिकमिति। अमुमेवार्थ दृष्टान्तेन प्रतिपादयितुमाह। जह नियएहिं विसरिसो, न जुवा भुवि बालबुङ्क धम्मेहिं। जगओ विसमो सत्ताइ, एहिं तह परभवे जीवो।। यथेह युवा निजैरप्यतीतानागतैबर्बालवृद्धत्वादिपर्यायैरात्मनोपि सर्वथा न समानः सत्तादिभिस्तु समान्यपर्यायैर्जगति न के नचिन्न समानस्तथायमपि जीवः परलोकंगतःसर्वेणापिसह समा-नासमानरूप एवेति। कुतः सर्वथा सादृश्यमिति। एतदेव दृष्टान्तेन भावयति॥ मणुओ देवीमूओ, सरिसो सत्ताइएहि जगओ वि। / मजा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy