________________ इस्सर ६६६अमिधानराजेन्द्रः भाग२ यतोऽवेश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः / न तावदप्रतीतो हेतोराश्रयासिद्धिप्रसङ्गात / प्रतीतश्चेद्येन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितं स्वतनुर्न प्रतीयते इत्यतः कथमशरीरत्वं तस्मान्निरवद्य एवार्य हेतुरिति। सचैक इतिचः पुनरर्थेस पुनः पुरुषविशेष एकोऽद्वितीयः बहूनां हि विश्व-विधातृत्वस्वीकारे परस्परविमतसंभावनाया अनिवार्यत्वादेकै कस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वमसमसञ्जसमापद्येतेति तथा (स सर्वग इति) सर्वत्र गच्छतीति सर्वगः सर्वव्यापि तस्य हि प्रतिनियतदेशवर्तित्वेऽनियतदेशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन्निर्माणानुपपत्तिः कुम्भकारादिषु तथा दर्शनात् / अथवा सर्व गच्छतिजानातीति सर्वगः सर्वज्ञः सर्वे गत्यर्था ज्ञानार्था इति वचनात् सर्वज्ञत्वाभावे हि यथोचितोपादानकारणाद्यनभिज्ञत्वादनुरूपकार्योत्पत्तिर्नस्यात्।तथा सस्ववशः स्वतन्त्रः सकलप्राणिनां स्वेच्छया सुखदुःखयोनुभावनसमर्थत्वात्तथा चोक्तम् "ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेववा, अज्ञो जन्तुरनीशोयमात्मनः सुखदुःखयोरिति" पारतन्त्र्येतुतस्य परमुखप्रेक्षितया मुख्यकर्तृत्वव्याघा-तादनीश्वरत्वापत्तिः / तथा (स नित्य इति) अप्रच्युतानु-त्पन्नस्थिरैकरूपस्तस्य ह्यनित्यत्वे परोत्पाद्यतया कृतकत्व प्राप्तिः। अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्युच्यते यश्चापरस्तत्कर्ता कल्प्यते स नित्योऽनित्योवा स्थान्नित्यश्चदेधिकृतेश्वरेण किमपराद्धम् / अनित्यश्चेत्तस्या प्युत्पादकान्तरेण भाव्यं तस्यापि नित्यानित्यत्वविकल्पकल्पनायामनवस्थादौस्थ्यमिति तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्ते ति पराभ्युपगममुपदोत्तरार्द्धन तस्य दुष्टत्वमाचष्टे / इमा एता अनन्तरोक्ताः कुहेवाकविडम्बनाः कुत्सिताः हेवाका आग्रहविशेषाः कुहेवाकाः कदाग्रहा इत्यर्थः त एव विडम्वना विचारचातुरीबाह्यत्वेन तिरस्काररूपत्वाद्धिगोप-कप्रकारा स्युर्भवेयुस्तेषां प्रामाणिकापसदानां येषां हे स्वामिन्! त्वं नानुशासकोन शिक्षादाता तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तत्तच्छब्दप्रयोगमसूयागर्भमाविर्भावयांचकार स्तुतिकारः। तथाचैवमेव निन्दनीयं प्रति वक्तारो वदन्ति "स मूर्खः स पापीयान् स दरिद्रः इत्यादि" त्वमित्येकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण परेशितुः परमकारुणिकतयाऽनपेक्षितस्वपर पक्षविभागमितरशास्त्रिणामसाधारणमद्वितीयं हितोपदेशकत्वं ध्वन्यते / अतोऽत्रायमाशयो यद्यपि भगवान् विशेषेण सकलजगज्जन्तुजाते हितावहां सर्वेभ्य एव देशनावाचमाचष्टे तथापि सैव केषांचिन्निचितनिकाचितपापकर्मकलुषितात्मनांरुचिरूपतया नपरिणमते अपुनर्बन्धकादिव्यतिरिक्तत्वेनायोग्यत्वात्तथाच कादम्बर्यां बाणोपि बभाण "अपगतमले हिमनसि स्फटि-कमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगणा गुरुवचनममलमपि सलिलमिव महदुपजनयति / श्रवणस्थित शूलमभव्यस्येति" यतो वस्तुवृत्त्या न तेषां भगवाननुशासक इति / नचैतावता जगद्गुरोरसामर्थ्यसंभावना, नहि कालदष्टमनुज्जीवयन् समुज्जीवितेतरदष्टको विषभिषगुपालम्भनीयोऽतिप्रसङ्गात्। स हि तेषामेव दोषः / न खलु निखिलभुवनाभोगमवभासयन्तोपि भानवीया भानवः कौशिकलोकस्यालोकहेतुतामभजमाना उपालम्भसंभावनास्पदम् तथा च श्रीसिद्धसेनः "सद्धर्भबीज-वपनानघकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभून् / तन्नाद्भूतंखगकुलेष्विह तामसेषु सूर्यांशवो | मधुकरीचरणावदाताः ||1|| अथ कथमिव तत्कु हे वाकानां विडम्बनारूपत्वमिति ब्रूमः यत्तावदुक्तं परैः "क्षित्यादयो बुद्धिमत्कर्तृकाः कार्यत्वात् घटबदिति तदयुक्तं व्याप्तेरग्रहणात्। साधानं हि सर्वत्र व्याप्ती प्रमाणेन सिद्धायां साध्यं गमयेदिति सर्ववादिसंवादः / स चायं जगन्ति सृजन सशरीरोऽशरीरो वा स्यात् सशरीरोपि किमस्मदादियदृश्यशरीरविशिष्ट उत पिशाचादिवददृश्य-शरीरविशिष्टः / प्रथमपक्षे पत्यक्षबाधस्तमन्तरेणापि च जायमाने तृणतरुपुरन्दरधनुभ्रादौ कार्यत्वस्य दर्शनात् / प्रमेयत्वादिवत्साधारणानैकान्तिको हेतुः / द्वितीयविकल्पे पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणमाहोस्विदस्मदाद्यदृष्टवैगुण्यम्। प्रथमप्रकारः कोशपानप्रत्यायनीयः तत्सिद्धी प्रमाणाभावात् / इतरेतराश्रयदोषापत्तेश्च / सिद्धे हि माहात्म्यविशेषे तस्या-दृश्यशरीरत्वं प्रत्येतव्यं तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति। द्वैतीयीकस्तु प्रकारो न संवरत्येव विचारगोचरे संशयाऽनिवृत्तेः / किं तस्यासत्वाददृश्यशरीरत्वं बान्ध्येयादिवतृ किंवाऽस्मदाधदृष्टवैगुण्यात्पिशाचादिवदिति निश्चयाभावात्। अशरीरश्चेत्तदा दृष्टान्तदान्तिकयोवैषम्याद्विरुद्धो हेतुः / घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टा अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यमाकाशादिवत् / तस्मात्सशरीराशरीरलक्षणे पक्षद्वयेपि कार्यत्वहेतोाप्त्यसिद्धिः। किंच त्वन्मतेन् कालात्ययापदिष्ठोष्ययं हेतुः धर्येकदेशस्य तरुविधुदभ्रादेरिदा-नीमप्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्षबाधितधर्म्यनन्तरहेतुभणनात्तदेवं न कश्चिजगतः कर्ता / एकत्वादीनि तु जगत्कर्तृत्वव्यवस्थापनायानीयमानानि तद्विशेषणानि षण्डं प्रति कामिन्या रूपसंपनिरूपणप्रायाण्येव तथापि तेषां विचारासहत्वख्यापनार्थं किंचिदुच्य तेत्रैकत्वचर्चस्तावत्बहूनामेक-कार्यकरणे वैमत्यसंभावनेति नायमेकान्तः / अनेककीटिकाशतनिष्पाद्यत्वेपि शक्रमोऽनेकशिल्पिकल्पितत्वेपि प्रासादादीनां नैकसरघानिर्वतितत्वेपि मधुच्छत्रादीनां चैकरूपताया अविगानेनोपलम्भात् / अथैतेष्वप्येकएवेश्वरः कर्तेतिब्रूषे एवं चेद्भवतो भवानीपतिप्रति निष्प्रतिमा वासना तर्हि कविन्द्र-कुम्भकारादितिरस्कारेण पटधटादीनामपि कर्ता स एव किं न कल्प्यते। अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथमपह्रोतुं शक्यं तर्हि कीटिकादिभिः किं तव विराद्धं यत्तेषामसदृशतादृशप्रयाससाध्यं कर्तत्वमेकहेलयैवापलप्यतेतस्माद्वैमत्येभयान्म-हेशितुरेकत्वकल्पनाभोजनादिव्ययभयात्कृपणस्यात्यन्तवल्लभपुत्रकलत्रादिपरित्यजनेन शुन्यारण्यानी सेवनमिव / तथा सर्वगतत्वमपि तस्य नोपपन्नं तद्धि शरीरात्मना ज्ञानात्मना वां स्यात्। प्रथमपक्षे तदीयेनैव देहेन जगत्रयस्य व्याप्तत्वादितर-निर्मेयपदार्थानामाश्रयानवकाशः / द्वितीयपक्षे तु सिद्धसाध्यताऽस्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्रयक्रोडी-करणाभ्युपगमात्। यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोधः / तत्र हि शरीरात्मना सर्वगतत्वमुक्तम् / "विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतः पाणिरुत विश्वतः पादिति श्रुतेः" यचोक्तम्। तस्य प्रतिनियतदेशवर्तित्वंत्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावन्निर्माणानुपपत्तिरिति / तत्रेदं पृच्छ्यते स जगत्रयं निर्मिमाणस्तक्षादिवत्साक्षाद्देहव्यापारेण निर्मिमीते यदि वा संकल्पमात्रेण / आद्ये पक्षे एकस्यैवभूभूधरादेर्विधानेऽक्षोदीयसः कालक्षेपस्य संभवाग्रहीयसाप्यनेहसान परिसमाप्तिः। द्वितीयपक्षे तु सकल्पमात्रेणैव