SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ इस्सर 665 अभिधानराजेन्द्रः भाग 2 इस्सर मीश्वरेण कृतमिति / अपिच यद्यसौ स्वयमधर्म करोति तथा धर्ममपि करिष्यति फलं च स्वयमेव भोक्ष्यन्ते ततः किमीश्वर कल्पनया विधेयमिति। उक्तचं "अशक्तयाऽन्येश्वराः पाप-प्रतिषेधं न कुर्वते। स त्वत्यन्तमशक्तेभ्यो, व्यावृत्तमतिरिष्यते१ अथाप्यशक्त एवासौ, तथा सति परिस्फुटम् / नेश्वरेण कृतं सर्वमिति वक्तव्यमुचकैः / / 2 / / पापवत्स्वार्थकारित्वात् धर्मादिरपि किं तत" इति / अथ बुवीथाः स्वयमसौ धर्माधर्मा करोति तत्फलं त्वीश्वर एव भोजयति तस्य धर्माधर्मफलभोगे स्वयमशक्तत्वादिति, तदप्यसत् यतो यो नाम स्वयं धर्माधर्मी विधातुमलं स कथं तत्फलं स्वयमेव न भोक्तुमीशो नहि पक्तुमोदनं समर्थो नहि भोतुमिति लोके प्रतीतम्। अथवा भवत्वेतदपि तथापि धर्मफलमुन्मत्त-देवाङ्गनासंस्पर्शादिरूपमनुभावयतु तस्येष्टत्वादधर्मफलं तु नरकप्रयातादिरूपं कस्मादनुभावयति नहि मध्यस्थभाव-मषलम्बमानाः परमकरुणापरीतचेतसः प्रेक्षावन्तो निरर्थक परपीडाहेतौ कर्मणि प्रवर्तन्ते क्रीडार्था भगवतः तथा प्रवृत्तिरिति चेत् यद्येवंतर्हि कथमसौ प्रेक्षावान्तस्य हि प्रवर्तने क्रीडामात्रमेव फलं ते पुनः प्राणिनः स्थाने स्थाने प्राणैर्वियुज्यन्ते / उक्तचं 'क्रीडार्था तस्य वृत्तिश्चेत्प्रेक्षापूर्वक्रिया कुतः। एकस्य क्षणिका तृप्तिः, अन्यः प्राणैर्वियुज्यते // 21 // " अपिच क्रीडा लोके सरागस्योपलभ्यते भगवांश्च वीतरागस्ततः कथं तस्य क्रीडा सङ्गतिमङ्गति / अथ सोपि सराग इष्यते तर्हि शेषजन्तुरिवावीतरागत्वान्न सर्वज्ञो नापि सर्वस्य कर्तेत्यापतितम् / अथ रागादिकृतोऽपि स सर्वज्ञः सर्वस्य कर्ता च भवति तथा स्वभावत्वात् ततो न कश्चिद्दोषो नहि स्वभावे पर्यनुयोगो घटनामुपपद्यते / उक्तचं / "इदमेवं नवेत्येतत्, कस्य पर्यनुयोज्यताम्। अग्निर्दहति नाकाशं, कोत्र पर्यनुयोज्यताम्" / / तदेतदसम्यक् यतः प्रत्यक्षतः तथारूपे स्वभावेच गते यदि पर्यनुयोगो विधीयते तत्रेदमुत्तरं विजृम्भते / यथा स्वभावे पर्यनुयोगो भवतीति यथा प्रत्यक्षेणोपलभ्यमाने वहेर्दाह्यं दहतो दाहकत्वरूपे स्वभावे, तथाहि यदि तत्र कोपि पर्य्यनुयोगमाधत्ते यथा कथमेष वह्रिाहकस्वभावो जातो यदि वस्तुत्वेन तर्हि व्योमादिकं न दाहकस्वभावं भवति वस्तुत्वादविशेषादिति तत्रेदमुत्तरं विधीयते दाहकत्वरूपो हि स्वभावो वः प्रत्यक्षत एवोपलभ्यते ततः कथमेष पर्यनुयोगगमर्हति न हि दृष्टे ऽनुपपन्नता नाम तथा चोक्तम् / स्वभावोऽध्यक्षतः सिद्धेर्यदि पर्यनुयुज्यते / तत्रेदमुत्तरं वाच्यं, न दृष्टे नुपपन्नता / / 9 / / ईश्वरस्तु सर्वजगत्कर्तृत्वेन सर्वज्ञत्वेन च नोपलब्धस्ततस्तत्र तथास्वभावत्वकल्पनादवश्यं पर्यनुयोगमाश्रयते। यदि पुनरदृष्टपि तथा स्वभावत्वकल्पनापर्यनुयोगानाश्रयोभ्युपगम्यते तर्हिसर्वोपि वादी तं तं पक्षमाश्रयन् परेण विक्षोभितस्तत्र तत्र तथा तथा स्वभावताकल्पनेन परं निरुत्तरीकृत्य लब्धजयपत्ताक एव भवेत्।। उक्तंच / अन्यथा "यत्किचिदात्माभिमतं विधाय, निरुत्तरस्तत्र कृतः परेण // वस्तुस्वभावैरिति वाच्यमित्थं, तदुत्तरः स्थाद्विजयी समस्तः // किंच॥ सर्वं यदि जगदीश्वरकृतं मन्यते तर्हि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवर्तितानीति प्राप्तं तानि च शास्त्राणि परस्परं विरुद्धार्थानि ततो वश्यं कानिचित्सत्यानि कानि-चिदसत्यानि ततः सत्यासत्योपदेशदानात्कथमसौ प्रमाणम् / उक्तंच / "शास्त्रान्तराणि सर्वाणि यदीश्वरविकल्पतः।। सत्यासत्योपदेशस्य,प्रमाणंदानतः कथम् ||1|| अथ सकलानि शास्त्राणि ईश्वरकारितानि किंतु सत्यान्येव ततोन कश्चि-दोषावकाशस्तर्हि शास्त्रान्तरवदेव नरेश्वरेणान्यदपि व्यधायीति हता तव पक्षसिद्धिरिति / अन्यच यादृग्भूतं संस्थानादि बुद्धिमत्कारणपूर्वकत्वेनोपलब्धं तादृग्भूतमेवान्यत्रापि बुद्धिमन्तमात्मनो हेतुमनुमापयति यथा जीर्णदेवकुलकूपादिगतं न शेषं नहि सन्ध्याभ्ररागवल्मीकादिगतं संस्थानाद्यात्मनो बुद्धिमन्तं कर्तारमनुमापयति तथा प्रतीतेरभावात् तद्गतस्य संस्थानादेबुद्धिमत्कारणत्वेन निश्चया भावात् तथा भूभूधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्वेन निश्चितमिति कथं तद्वशागुद्धिमतः कर्तुरनुमानम् / अथ मन्येथास्तदपि संस्थानादि तादृग्भूतमेव संस्थानादिशब्दवाच्यत्वात् नचैवं तत्कर्तुर्बुद्धि-मतोऽनुमाने काञ्चिदपि बाधामुपलभामहे ततः सर्वं सुस्थितमिति तदयुक्तं शब्दादिरूढवशाजात्यन्तरेपि प्रवर्तन्ते ततः शब्दसाम्यात् / यदि तथारूपवस्त्वनुमानं तर्हि गोत्वाच्छागादीनामपि विषाणितामनुमीयतां विशेषाभावात् / अथ तत्र प्रत्यक्षेण बाधोपलभ्यते ईश्वरानुमानेन ततो न कश्चिद्दोष इति तदेतदतीव प्रमाणमार्गानभिज्ञातासूचकं यतो यत एवं तत्र प्रत्यक्षेण बाधोपलम्भोऽत एव नान्यत्रापि शब्दसाम्यात्तथारूपवस्त्वनुमानं कर्तव्यं प्रत्यक्षत एव शब्दसाम्यस्य वस्तुतथारूप्येण सहाविनाभावित्वस्याभावावगमात् / न च बाधकमत्र नोपलभ्यते इत्येवानुमानं प्रवर्तते किंतु वस्तुसंबन्धबलात् तथाचोक्तम् "ननु बाध्यत इत्येव-मनुमानं प्रवर्तते॥संबन्धदर्शनात् तस्य प्रवर्तन मिहेष्यते" इति सच संबन्धोऽत्र न विद्यते तद् ग्राहक प्रमाणाभावात् ततोऽनैकान्तकता हेतोरित्थं चैतदङ्गीकर्तव्यमन्यथा यो यो मृद्विकारः स स कुम्भकृतो यथा घटादिम॒द्विकारश्वायं वल्मी-कस्तस्मात्कुम्भकारकृत इत्यप्यनुमानं समीचीनतामाचनीस्कद्येत बाधकमात्रादर्शनात् / तथाहि यदि तत्र कुम्भकारः कर्ता भवेत्तर्हि कदाचिदुपलभ्येत न चोपलभ्यते तस्मादेव तदयुक्तमिति तदेतदीश्वरानुमानेपि समानम्॥ यदि हि सर्वस्यापि वस्तुजातस्येश्वरः कर्ता क्वचित्कदाचिदुपलभ्येत न चोपलभ्यते तस्मादप्यलीकमिति कृतं प्रसङ्गेन। नंता अथ तदभिमतभीश्वरस्य जगत्कर्तृत्वाभ्युपगम मिथ्याभिनिवेशरूपं निरूपयन्नाह / / कर्तास्ति कश्चिज्जगतः सचैकः, स सर्वगः स स्ववशः स नित्यः / इमाः कुहेवाक विडम्बनाःस्यु-स्तेषां न येषामनुशासकस्त्वम् / / 6 / / जगतः प्रत्यक्षादि प्रमाणोपलक्ष्यमाणचराचररूपस्य विश्वत्रयस्य कश्चिदनिर्वचनीयस्वरूपः पुरुषविशेषः कर्ता स्रष्टाऽस्ति विद्यते / तेहीत्थं प्रमाणयन्ति उर्वीपर्वततर्वादिकं सर्वं बुद्धिमत्कर्तृकं कार्यत्वाद्यद्यत्कार्यं तत्तत्सर्वं बुद्धिमत्कर्तृकं यथा घटस्तथाचेदं तस्मात्तथा / व्यतिरेके व्योमादि / यश्च बुद्धिमांस्तत्कर्ता स भगवानीश्वर एवेति / नचायमसिद्धो हेतुर्यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया अवयवितया वा कार्यत्वं सर्ववादिनां प्रतीतमेव। नाप्यनैकान्तिको विरुद्धो वा विपक्षादत्यन्त-व्यावृत्तत्वात् / नापि कालात्ययापदिष्ट प्रत्यक्षानुमानागमाबाधित धर्मधर्म्यनन्तरप्रतिपादितत्वात् / नापि प्रकरणसमः तत्प्रतिपन्थिधर्मो पपादनसमर्थ प्रत्यनुमानाभावात् / न च वाच्यमीश्वरः पृथ्वीपृथ्वीधरादेर्विधातो न भवति अशरीरित्वान्निर्वृत्तान्मवदिति प्रत्यनुमानं तदाधकामिति
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy