________________ इत्थी 637 अमिधानराजेन्द्रः भाग 2 इत्थी नैकत्र स्थानचित्ताः 32 (अंतोदु.) अन्तर्दुष्टव्रणवत् कुथितहृदयाः तिलभट्टोन्मत्तरामावत् 33 (किण्ह.) कृष्णसर्पवत् (अवि.) विश्वासंकर्तुमयोग्या इत्यर्थः 34 (संघा.) संहारवत् बहुजन्तु क्षयवच्छन्नमायाः प्रच्छन्नमातृकाः 35 (संज्झ०) सन्ध्याभरागवत् मुहूर्तरागाः / तथाविधदुष्ट वेश्यावत्-३६ (समुद्द०) समुद्रवीचिवत्सागरतरङ्गवच्चलस्वभावाः चञ्चलस्वाभिप्रायाः 37 (मच्छो०) मत्स्यवहदुष्परिवर्तनशीलाः महता कष्टेन परिवर्तनं पश्चादालयितुं शीलं स्वभावो यासां तास्तथा 38 (वानर०) वानरवत् चलचित्ताः 39 (मञ्च विव) मृत्युवत् मरणवत् निर्विशेषाः विशेषबर्जिताः 40 (कालोत्ति.) दुर्भिक्षकाल एकान्त-दुःषमाकालो वा यद्वा लोकोक्तो दुष्टसर्पस्तद्वत् निरनुकम्पादयांशवजिता कीर्तिधरराजभार्यासुकोसलजननीवत्। 41 (वरु०) वरुणवत् पाशहस्ताः पुरुषाणामालिङ्ग नादिभिः कामपाशबन्धनहे तुहस्तत्वात् 42 (सलि.) सलिलमिव जलमिव प्रायो नीचगामिन्यः स्वकान्तनृपनदीप्रक्षेपिका अध-मपड्गुकामिका राशीवत् 43 (किव) कृपणवत् उत्तानहस्ताः सर्वेभ्यो मातृपितृबन्धुकुटुम्बादिभ्यो विवाहादावादानहेतुत्वात् 44 (नरओ०) नरकवत् त्रासनीया दुष्टकर्मकारित्वात् महाभयङ्कराः लक्ष्मणासाध्वीजीववेश्यादांसीघातिका कुलपुत्रभार्यावत् 45 (खरो.) खरवत् विष्ठाभक्षकगईभवत् दुःशीलाः दुष्टाचाराः निर्लज्जत्वेन यत्र तत्र ग्रामनगरारण्यमार्गक्षेत्रग्रहोपाश्रयचैत्यगृहगर्तवाटिकादौ पुरुषाणां वाञ्छाकारित्वात् / तथा-विधवेश्या दुष्टदासीरण्डिकामुण्डिकादीनामिव 46 (दुट्ठस्सो.) दुष्टाश्ववत् कुलक्षणघोटकवत् दुर्दमाः सर्वप्रकारैर्निलजीकृता अपि पुनः पुरुषसंयोगे स्वकामाभिप्रायकर्षण हेतुत्वात् 47 (बालो) बालवत् शिशुवत् मुहूर्तहृदयाः मुहूर्तानन्तरं प्रायोऽन्यत्र रागधारकवत् कपिलब्राह्मणासक्तदासीवत् 48 (अंधकार.) कृष्णभूतेष्टादिभवमन्धकारमरुण वरसमुद्रोद्भवतमस्कायं वा तद्वत् दुष्प्रयेशाः मायामहान्धकारगहनं येन देवानामपि दुष्प्रवेशत्वात् 49 (विस.) विषवल्लीवत् हालाहलविषलतावत् (अणा.) अनाश्रयणीयाः सर्वथा सङ्गादिकर्तुमयोग्यास्तात्कालप्राणप्रयाण हेतुत्वात् पर्वतकराजस्य नन्दपुत्रीविषकन्यावत् 10 // दुबगाहा इव] दुष्टग्राहा नियमहामकरादिजलजन्तुसेवितावापीवत् / अनवग्राह्या महता कष्टेनापि अप्रवेशयोग्याः सुदर्शनश्रेष्ठिवत्५१ [ठाणभ०] स्थानभ्रष्टः ईश्वरी ग्रामनगरादिनायकस्तद्गतं / यद्वा स्थानं चारित्रगुरुकुलवासादिकं तस्माद्दष्टः ईश्वरश्चारित्रनायकः साधुरित्यर्थस्तद्वत्। यद्वा स्थानं सिद्धान्तव्याख्यानरूपं तस्माद्दष्टः उत्सूत्रप्ररूपणेन ईश्वरो गणनायक आचार्य इत्यर्थः तद्वत्।यद्वास्थानभ्रष्टो दुष्टाचारे रक्त इत्यर्थः ईश्वरः सत्यकीविद्या धरस्तद्वत् अप्रशंसनीयाः साधुजनैः प्रशंसांकर्तृ योग्या नेत्यर्थः 52 (किंपाग.) किंपाकफलमिव मुखे आदौ मधुरा महाकाम-रसोत्पादिका परं पश्चाद्विपाकदारुणाः ब्रह्मदत्तचक्रिवत् 53 (रित्तुमु०) रिक्तमुष्टिवत् पोल्लकमुष्टिकवत् बाललोभनीयाः अव्यक्तजनलोभनयोग्या वल्कलचीरीतापसवत् 54 [मंस.] मांसपेसीग्रहणमिव सोपद्रवा यथा केनापि सामान्यपक्षिणा कुतश्चित् स्थानान्मांसापेशीप्राप्तौ तस्य अन्यदुष्ट पंक्षिकृतानेकशरीरपीडाकरिण उपद्रवा भवन्ति तथा रामाग्रहणेऽनेके इह भवे परभवे दारुणा उपद्रवा जायन्ते। यद्वा यथा मत्स्थानां मांसपेशीग्रहणं सोपद्रवं तथा नराणामपीति 55[ जलि. ] अमुञ्चन्ति अत्यजमानाः [जलियचुडिलीविवत्ति] प्रदीप्ततृणपूलिकेव दहनशीलाः ज्वालनस्वभावाः 56 [अरि] अरिष्टमिवदुर्लङ्घनीयाः 17 [कूड] कूटकार्षापण इवासत्यनाणकविशेष इव कालविसंवादनशीला काल विधातस्वभाव अकालचारिण्य इत्यर्थः 58 [चंड] चण्डशील इव तीव्रकोपीव दुःखरक्षिता ५५[अतिविसाओत्ति०] अतिविषादा दारुणविषाद हेतुत्वात्यद्वा [अतीति] अतिक्रान्तो गतोऽकार्यकरणे विषादः खेदो यासां तास्तथा यद्वा अतीति विषं अतिविषम् आ समन्तात् ददति पुरुषाणां सूरिकान्तावत् यास्ता अतिविषादाः यदा अतीति भृशं दीति नानाविधः स्वादो विषयलाम्पट्यो यासांता अतिविषादाः अथवा अतिविषयात्प्रबलपञ्चेन्द्रियलाम्पट्यात् षष्ठी नरकभूमिं यावत् सुसढमातृवत् गच्छन्ति यास्ता अतिविषयगाः प्राकृतत्वात्यकारलोपे सन्धिः / यद्वा स्वेन्द्रियविषयाप्राप्तौ अति विषादा इति। यद्वा अतिवृषं तीव्रपुण्यं येषान्ते अतिवृषाः मुनयस्तेषामासमन्तात् वसत्यन्तो बहिश्च कायन्ति यमयन्ति यम इवाघरन्ति चारित्रप्राणकर्षणत्वेन यास्ताः अति वृषाकाः यद्वा कायन्ति अनयन्ति समितिगृहज्वालनत्वेन यास्ताः अतिवृषाकाः यद्वा लोकानामतिवृषे तीव्रपुण्यधने आभृशं चायन्तिचोरयन्ति यास्ताः अतिवृषाचाः६० (दुगुछि) जुगुप्सिकाः जुगुप्सां कर्तुं योग्याः मुनीनाम् 61 (दुरु.) दुरुपचाराः दुष्टोपचारान्वितो वचनादिविस्तारो यासां तास्तथा 62 अगम्भीरा गम्भीरगुणरहिताः६३ (अवि.) अविश्वसनीया विश्रम्भ कर्तुमयोग्याः 64 (अण.) अनवस्थिताः नैकस्मिन् पुरुष तिष्ठन्तीत्यर्थः 65 (दुक्ख.) दुःखरक्षिता कष्टन रक्षणयोग्याः यौवनावस्थायाम् 66 (दुक्खपा.) दुःखपालिता दुःखेन पालयितुं शक्या बालावस्थायाम् 67 (अरइ.) अरतिकराः उद्वेगजनिकाः 68 (कक्क.) कर्क शा इह परत्र कर्कशदुःखोत्पादकत्वात् 69 दृढवैरा इह परत्रदारुणवैरकारणत्वात् 70 [रूव ] रूपसौभाग्यमदमत्ताः तत्र रूपं चार्वाकृतिः सौभाग्यं स्वकीर्तिश्रवणादिरूपं मदोमन्मयजगर्वः 71 (भुय.) भुजगगतिवत् कुटिलहृदयाः 72 [कंता.] कान्तार गतिस्थानभूताः कान्तारे दुष्टश्वापदाकुले महारण्ये गतिश्चैकाकित्वेन गमनं स्थानं चैकाकित्वेनवसनं तथोर्भूतास्तुल्याः दारुणमहाभयोत्पादकत्वात् 73 (कुलस.) कुलस्वजनमित्रभेदनकारिकाः वंशज्ञातिसुहृद्विनाशजनिकाः 74 [पर] परदोषप्रकाशिकाः अन्यदोषप्रकट कारिकाः 75 (कय.) कृतं वस्वाभरणपात्रादिप्रदत्तं प्रन्ति सर्वथा नाशयन्तीमेवं शीलाःकृतघ्नाः 76 [बलसो.] बलं पुरुषवीर्य प्रतिसङ्गमसङ्ग वा शोधयन्तिगालयन्तीत्येवं शीला बलशोधिकाः / यद्वा बलेन स्वसामर्थ्यलक्षणेन च निशादौ जारपुरुषादीनां शोधिकास्तच्छुद्धिकारिका बलशोधिकाः / यद्वा बलयोरलयोरैक्याद्वरशोधिकाः स्वेच्छया पाणिग्रहणकरणत्वात् धम्मिलस्त्रीवृन्दवत् 77 (एग.) एकान्ते विजने हरणं नेतव्यं पुरुषाणां विषयार्थमे कान्तहरणम् यद्वा एकान्ते दूरग्रामनगरदेशादी स्वकुटुम्बादिजनरहिते हरणंतत्रपुरुषाणां विषयाथ लात्वा गमनमित्यर्थः तत्र कौलाः वनसूकरतुल्याः यथा सूकरः किमपि सारं कन्दादिकं भक्ष्य प्राप्त विजने गत्वा भक्षयति तथेमाः 78 [चंच०] चञ्चलाश्चपलाः 79 [जोइभंडो.] ज्योतिर्भाण्डोपरागवत् अग्निभाजनसमीपरागवत् [मुहरा०] मुखरागविरागा यथाग्नि-भाजनसमीपे मुखं रागवद्भवति अन्ते विरागं तथेमाः / यद्वा (जोहभंडोवरागाओत्ति) पाठे तु ज्योति भण्डस्येवो -