________________ इत्थी 626 अभिधानराजेन्द्रः भाग२ इत्थी त्मनोपभोगेन साधुमभ्युपगमं कारयन्तिा यदि वा साधोर्भयाप-हरणार्थ ता एव योषितःप्रोचुस्तद्यथा भरिमामन्त्र्यापृच्छ-याहमिहायाता तथा संस्थाप्य भोजनपदधावनशयनादिकया क्रिययोपचर्य ततस्तवान्तिकमागतेत्यतो भवता सर्वा मद्भर्तृज-नितामाशङ्का परित्यज्य निर्भयेन भाव्य, मित्येवमादिकै वचो-भिर्विश्रम्भमुत्पाद्य भिक्षुमात्मना निमन्त्रयन्ते। युष्मदीयमिदं शरीरकं यादृक्षस्य क्षोदीयसो गरीयसो वा कार्यस्य क्षमं तत्रैव निमज्जतामित्येवमुपप्रलोभयन्ति / स च भिक्षुरवगतपरमार्थएतानेव विरूपरूपान्नानाप्रकारान् शब्दादीन् विषयान् तत्स्वरूप-पनिरूपणतो ज्ञपरिज्ञया जानीयाद्यथैते स्त्रीसंसर्गापादिताः शब्दादयो विषयादुर्गातिगमनैकहेतवः सन्मार्गिलारूपा इत्येवमवबुध्येत। यथा प्रत्याख्यानपरिज्ञया च तद्विपाकागमने परिहरेदिति / 6 / / (4) स्त्रीसम्बन्धे दोषा यथामणबंधणेहिं णेगेहि, कलुण विणीय मुवगसिताणं / / अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहि / / 7 / / मनो बध्येत यैस्तानि मनोबन्धनानि मजुलालापसिग्धावलोकनाङ्ग प्रत्यङ्गप्रत्यङ्गप्रकटनादीनि / तथाचोक्तं / "णाहपियकं तसामियदतियजियाओ तुम मह पिओ त्तिा जीएजीयामि अहं पहवसितं मे शरीरस्य ||शा इत्यादिभिरनेकैः प्रपञ्चैः करुणालापविनयपूर्वकम् (उवगसिताणंति) उपसंश्लिप्य समीपमागत्याऽथ तदनन्तरं मञ्जुलानि पेशलानि विश्रम्भ-जनकानि कामोत्काचकानि वा भाषन्ते / तदुक्तं "मितमहुररिभय जंपुल्ल एहि इसीकडक्खहसिएहिं। सविगारेहि व रागं हिययं पि हियं मयत्थीए शा तथा भिन्नकथाभी रहस्यालापैमैथुनसंबद्धैर्वचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रत्याज्ञाप-यन्ति प्रवर्तयन्ति स्ववशं वा ज्ञात्वा कर्मकरवदाज्ञां कारयन्तीति।।७। अपिचसीहं जहा च कुणिमेणं, निब्भयमेगचरंति पासेणं / / एवं थियाउ बंधंति, संवुडं एगतियमणगारं / / 8 / / यथेति दष्टान्तोपदर्शनार्थे / यथा बन्धनविधिज्ञा सिंह पिशि तादिना मिषेणोपप्रलोभ्य निर्भयं गतभीकं निर्भयत्वादेवैकचरं पाशेन गलयन्त्रादिना बधन्ति बध्वा त्त बहुप्रकारं कदर्थयन्त्येवं स्त्रियो नानाविधैरुपायैः पेशलभाषणादिभिः (एगतियंति) कंचन तथाविधमनगारं साधु संवृतमपि मनोवाक्कायगुप्तमपि बधन्ति स्ववशं कुर्वन्तीति। संवृतग्रहणंच स्त्रीणां सामोपदर्शनार्थम्यथाहि। संवृतोपि ताभि बंध्यते किंपुनरपरोऽसंवृत इति।।८।। किञ्च। अह तत्थ पुणो णमयंती, रहकारो व णेमि अणुपुष्वी।। बद्धे मिए व पासेणं,फंदेते विण मुच्चए ताहो ||9|| अथेति स्ववशीकरणादनन्तरं पुनस्तत्र स्वाभिप्रेते वस्तुनि नमयन्ति प्रहूं कुर्वन्ति। यथा रथकारोवार्धकिर्नेमिकाष्ठं चक्रबारभ्रमिरूपमानुपूर्व्या नमयत्येवंता अपि साधुंस्वकार्यानुकूल्ये प्रवर्तयन्ति। सच साधुर्मुगवत् / पाशेन बद्धो मोक्षार्थ स्पन्दमानोपिततः पाशान्न मुच्यत इति // 9 // किश्च / अह सेणु तप्पई पच्छा, भोचा पायसं च विसमिस्सं / / एवं विवेगमादाय, संवासोन विकप्पए दविए।।१०।। अथासौ साधुः स्त्रीपाशावबद्धो मृगवत् कूटके पतितः सन् कुटुम्बकृते अहर्निशं क्लिश्यमानः पश्चादनुतप्यते। तथाहि गृहान्तर्गतानामेतदवश्यं संभाव्यते / तद्यथा। "कोधाय ओको समवित्तु कोहो वणाहिं काहो विजउ वित्तको उग्घाकउ पहियउ परिणीयउ कोवकुमारओ पडियतो जीवखडप्पकेहि परबंधइ पवेह भारओ" || तथा "यन्मया परिजन स्यार्थेकृतं कर्म सुदारुणम्। एकाकी तेन दह्येहं गतास्ते फलभागिनः" |1|| इत्येवं बहुप्रकारं महामोहात्मके कुटुम्बकूटके पतिता अनुतप्यन्ते। अमुमेवा) दृष्टान्तेन स्पष्टयति / यथा कश्चिद्विषमिश्र भोजनं भुक्त्वा पश्चात्तत्र कृतावेगाकुलितोऽनुतप्यते। तद्यथाकिमेतन्मया पापेन साम्प्रतेक्षिणा सुखरसिकतया विपाककटुकमेवंभूतं भोजनमास्वादितमिति। एवमसावपि पुत्रपौत्रदुहितृजामातृस्वसृभातृव्य भागिने यादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्म तद्व्याधिचिकित्साचिन्ताकुलोपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं / तद्व्यापारव्याकुलितमतिः / परितप्यते / तदेवमनन्तरोक्तया नीत्या विपाकं स्वानुष्ठानस्यादाय प्राप्य विवेकमिति वा क्वचित्पाठस्तद्विपार्क विवेकं चादाय गृहीत्वा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्धं संवासो वसतिरेकत्र न कल्प्यते न नुद्यते कस्मिन्द्रव्यभूते मुक्तिगमनयोग्ये रागद्वेषरहिते वा साधौ। यतस्ताभिः सार्ध संवासोऽवश्यं विवेकिनामपि सदनुष्ठान-विघातकारीति॥१०॥ स्त्रीसंबन्धदोषानुपदोपसंहरन्नाह। तम्हा उ वञ्जए इत्थी, विसलित्तं च कंटंग नचा। उए कुलाणि वसवत्ती, आघाते ण से वि णिग्गंथे||११|| यस्माद्विपाककटुः स्त्रीभिः सह संपर्कस्तस्मात्कारणात् स्त्रियो वर्जयेत्। तुशब्दात्तदालापमपिन कुर्यात्। किंतदित्याह। विषोपलिप्तं कण्टकमिव ज्ञात्वाऽवगम्य स्त्रियं वर्जयेदिति। अपिच। विषदिग्धकण्टकः शरीरावयवे भग्रः सन्ननर्थमापादयेत् स्त्रियस्तु स्मरणादपि / तदुक्तं / "विषस्य विषयाणां च दूरम-त्यन्तमन्तरम् / उपयुक्तं विषं हन्ति विषयाः स्मरणादपि" ||शा तथा 'वरिविसखटुमं विसय, सुहुइक्क सुविसिणमरंति // विसयामिसपुणघाहिया, णरणरएहिं पडंति'' ||1|| तथौजएकोऽसहायः सन् कुलानि गृहस्थानां गृहाणि गत्वा स्त्रीणां वशवर्ती तन्नि-र्दिष्टवेलागमनेन तदानुकूल्यं भजमानो धर्ममाख्याति योऽसावपि न निर्ग्रन्थो न सम्यक् प्रव्र जितो निषिद्धाचरणसे वनादवश्यं तत्रापायसंभवादिति / यदा पुनः काचित्कुतश्चिन्निमित्तादागन्तुमसमर्था वृद्धा वा भवेत्तदा परिसहायः साध्वभावे एकाक्यापि गत्थाऽपरस्त्रीवृन्दमध्यगतायाः पुरुषसमन्विताया वा स्त्रीनिन्दा विषयजुगुप्साप्रधानं वैराग्यजननं विधिना धर्म कथयेदपीति॥११॥ अन्वयव्यतिरेकाभ्यामुक्तोर्थः सुगमो भवतीत्यभिप्रायवानाह। जे एय उंछमणुगिद्धा, अन्नयरा हुंति कुसीलाणं // सुतवस्सिए वि से भिक्खू नो विहरे सहाणमित्थीसु / / 12 / / . ये मन्दमतयः पश्चात्कृतसदनुष्ठानाः सांप्रतेक्षिण एतदनन्तरोक्तम् (उछ ति) जुगुप्सनीयं गर्दा तदत्र स्त्रीसंबन्धादिकमेकाकी स्त्रीधर्मकथनादिकं वा द्रष्टव्यं / तदनु तत्प्रति ये गृद्धा अध्युपपन्ना मूर्छि तास्तेहि कु शीलानां प्रार्थस्थावसन्नकु शीलसंसक्तयथाच्छदरूपाणामन्यतरा भवन्ति यदि वा काथिकप्पस्यक संप्रसार कमार्मक रूपाणां वा कु शीलानामन्यतरा भवन्ति तन्मध्यवर्तिनस्तेपि कुशीला भवन्तीत्यर्थः / यत एवमतः सुतपस्च्यिपि विकृष्टतपोनिष्टप्तदेहोपि भिक्षुः साधुरात्महितमिच्छ -