________________ इत्थिपरिसह 616 अभिधानराजेन्द्रः भाग 2 इत्थिपरिसह ओतीत्थविशेषाभिधानं ततो यः काश्चन मानुष्यो देव्य-स्तिरश्च्यो वा (लोगंमित्ति) लोके तिर्यग्लोकादौ स्त्रियो नार्याएताश्च हावभावादिभिरत्यन्तमासक्तिहेतवो मनुष्याणामित्येवमुक्तमन्य-था हि गीतादिष्वपि सञ्जति एव मनुष्याः मनुष्योपादानं च तेषामेव मैथुनसंज्ञातिरेकः प्रज्ञापनादौ प्ररूपित इति अतः किमित्याह / (जस्सेति) यस्य यतेः एताः स्त्रियः (परिनायेत्ति) सर्वप्रकारंज्ञाताः परिज्ञातास्तत्र ज्ञपरिज्ञयेह परत्र च महानर्थहेतुतया विदिताः तथाचागमः "विभूसा इच्छि संसग्गी, पणीयं रसभोयणं / णरस्स-त्तगवेसिस्स, विसंतालओडं जहा'' ||1|| प्रत्याख्यानकपरिज्ञया च तत एव च प्रत्याख्याताः (सुकडति) सुकृतं सुष्ठवनुतष्ठितं पाठान्तरः सुकरं वा सुखेनैवानुष्ठातुं शक्यं (तस्सत्ति) सुषव्य-त्ययात्तेन (सामणंति) श्रामण्यं व्रतं किमुक्तं भवत्यवद्यहेतुत्यागो हि व्रतरागद्वेषावेव तत्त्वतस्तद्धेतू उक्तनीतितश्चन स्त्रीभ्यः परं तन्मूलमिति तत्प्रत्याख्यानत्वसुकुतत्वं श्रामण्यस्य यद्वोक्तनीतितः स्त्रिय एव दुस्त्यजास्ततस्तत्त्यागे सक्तमेवापरमिति तत्प्र-त्याख्यानतः सुकृतत्वं श्रामण्यस्योच्यते। वक्ष्यति हि "एए उ संगे समइक्कमित्ता, सुहत्तरा चेव भवंति सेसा / / जहा महासागरमुत्त-रित्ता, णई भवेजा वियगा समाणा" ||2|| अतः किंविधयमित्याह / (एवमादाय) एवमित्यन्तरोक्तप्रकारेणात्यन्तासक्तिहेतुत्व-लक्षणेनाज्ञाय स्वरूपाभिव्याख्या अवगम्य मेधाव्यवधारणशक्तिमान् पङ्कः कईमस्तद्भूता मुक्तिपथप्रवृत्तानां वि-बन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमास्तुरवधारणार्थः / ततः पङ्कभूता एव स्त्रियः / पठ्यते च "एवमादाय मेहावी जहा एया लहुस्सिगत्ति। एवमन्तरमेव वक्ष्यमाणमर्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह यथेत्युपदर्शने एताः स्त्रियः (लहुस्सिगत्ति) तुच्छाशयत्वादिना लब्धास्ततः किमित्याह / नो नैव ताभिः स्त्रीभिर्विनिहन्यात् विशेषणसंजमजीवितव्यव्यपरोषणा-त्मके नातिशयेन च सामस्त्यतदुच्छेदरूपेणातिपातयेदात्मानमिति गम्यते। कृत्यमाह चरेत् धर्मानुष्ठानमासेवेत। आत्मानं गवेषयेत् कथं मयात्मा भवान्निस्तारणीय इत्यन्वेषयेत "आत्मगवेषकः सिद्धिस्वरूपापत्ति'' रिति वचनात् / सिद्धिर्वात्मा ततः कथं ममासौ स्यादित्यन्वेषकः आत्मगवेषको यद्वात्मानमेव गवेषयते इत्या-त्मगवेषकः किमुक्तं भवति चित्रालंकारशालिनीरपि स्त्रियोऽ-वलोक्य तद् दृष्टिन्यासस्य दुष्टतावगमात् झगिति तान्यो दृगुपसंहारत आत्मान्चेष्टैव भवति उक्तहि "चित्तभित्तिं न निजाए, नारिं वा सुअलंकियं / भक्खरं पिव द?णं, दिदि पडिसमाहरे॥ संप्रति प्रतिमाद्वारं विवृण्वन् यस्यैताः परिज्ञाता इत्यादि सूत्रसूचितं चैदयुगीनजनदायॊत्पादकं दृष्टान्तमाह! उसम पुरं रायगिहं, पाडलिपुत्तस्स होइ उप्पत्ती। णंदे सगडालथूल-भद्दसिरीयेगा बररुई य॥३६।। तिण्हं अणगाराणं, अभिग्गहो आसि चउण्हमासाणं। वसहीमेत्तनिमित्तं, को हिंउसिओ णिसामेह ||37|| गणियाघरम्मिएको, वितियो उसितो उवग्घवसहीए। ततितो सप्पवसहिए,को दुक्करकारओ एच्छ / / 38 / / वग्यो वा सप्पो वा, सरीरपीलाकरो उ वत्तव्वो। णाणं च दंसणं वा, चारित्तं वा ण पचलो भेत्तुं // 39|| भगवं पिथूलभद्दो, तिक्खेचंकमिओ ण पुण छिण्णो। अग्गिसिहाए वत्थो, चाउम्मासे ण पुण दद्धो // 40 // अन्नो वि य अणगारो, भणमाणो हंपिथूलभद्दसमो। कंबलओ य चंदणियाए मईलितो एगराईए ||4|| (उभस गाथाषट्क) वृषभपुरं राजगृहं पाटलिपुत्रस्य भवत्यु-त्पत्तिः नन्दः शगडालः स्थूलभद्रश्रीयकौ वररुचिस्त्रयाणा-मनगाराणामभिग्रह आसीत् (चउण्हमासाणं) सुव्वयत्याच्चतुर्ष मासेषु वसमिमात्रनिमित्तं कः कुत्रोषितो निशामयत। गणिकागृहे एको, द्वितीय उषितस्तुव्याघ्रवसती, सर्पवसतौ तृतीयः, को दुष्करकारकोऽत्र तेषु मध्ये व्याघ्रो वा सप्पो या शरीरपीडाकरस्तु वक्तव्यो ज्ञानं वा दर्शनं वा चारित्रं वा न प्रत्यलो भेत्तुं भगवानपि स्थूलभद्रस्तीक्ष्णे निशितासिधारादौचक्रमितो न पुनः छिन्ने अग्निशिखायामुषितश्चातुर्मास्यां न पुनः दग्धः अन्यो पि चानगारो भणन्नहमपि स्थूलभद्रसमः कम्बलकश्चंदनिकायामुचारभूमौ मलिनित इति नियुक्ति गाथाषट्काक्षरार्थः। एतदर्थस्तु वृद्ध-संप्रदायादवसेयः। उत्त०३ अा। स च थूलभद्द-शब्दे) "जहा थूलभद्दे णित्थिपरिसहो अहियासितो तहाहियासियव्वा ण उण तेण णाहियासिओत्ति' उत्त०३ अ(स्थूलभद्रकथा 'थूलभद्द शब्दे) स्त्रीपरिषहोपपत्तौ किंविदध्यादित्याह - से पभूतदंसी प भूतपरिण्णाणे उवसंते समिते सहिते सया जए दळु विप्पडिवेदेति अप्पाणं किमेस जणो करिस्सति एस से परमारामो जाओ लोगंमि इथिओ मुणिणा हु एवं पवेदितं उवाहिज्जमाणे गामधम्मेहिं अवेणीव्व लासए अविओमोदरियं कुजा अवि उड्बं ठाणं ठाइजा अविगामाणुगामंदूइजा अवि आहारं वोच्छिदिज्जा अवि चए इत्थीसु मणं पुव्वं दंडा पच्छा फासा पुव्वं फासा पच्छा दंडाइचे ते कलहा संगकरा भवंति पडिलेहाए आगमेत्ता आणविज्जा अणासेवणाएत्ति बेमि।। (सेइत्यादि) स साधुः प्रभूतं प्रमादविपाकादिकमतीता-नागतर्वमानं वा कर्म विषाकं द्रष्टुं शीलमस्येति प्रभूतदर्शी सांप्रतेक्षितया न यत्किञ्चनकारीत्यर्थः / तथा प्रभूतं सत्व-रक्षणोपायपरिज्ञानं संसारमोक्षकारणं परिज्ञानं वा यस्य स प्रभूतपरिज्ञानः यथावस्थितसंसारस्वरूपदर्शीत्यर्थः / किञ्च उपशान्तः कषायानुदयादिन्द्रियनोइन्द्रियोपशमाद्वा तथा पञ्चभिः समितिभिः समितः सम्यग् वा मोक्षमार्गमितस्स मितस्तथा ज्ञाना-दिभिः सहितः समन्वितः सह हितेन वा सहितः / सदा सर्वकालं यतः सदायतः / स एवंभूतो ऽप्रमत्तो गुरोरन्तिकमावसत् प्रमाद-जनितस्य कर्मणोन्तं विधत्ते स च स्त्र्याद्यनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह (दठूइत्यादि) दृष्टवा अवलोक्य स्त्रीजनमुप-सर्गकरणायोद्यतमात्मानं विप्रतिवेदयति प-लोचयति तद्यथा सम्यग्दृष्टिरस्मि तथोत्क्षिप्तपञ्चमहाव्रतभारशरच्छशांक-निर्मलकुललब्धजन्माकार्याकारणतयोस्थित इत्येवमात्मानं पालोचयति तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपसर्गादिकं कुर्यादथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात्किमेष स्त्रीजनः सुखं विदध्यादन्यो वा पुत्रकलत्रादिको जनो मम मृत्युना जिघृक्षितस्य व्याधिना वा दित्सितस्य