________________ आहार 520 अभिधानराजेन्द्रः भाग 2 आहार कारणतां प्रतिपद्यते येषां कोरंटादीनां ते अग्रबीजास्तथा मूलबीजा आर्द्रकादयः पर्वबीजास्त्विक्ष्वादयः स्कंधबीजाः सल्लक्यादयः / नागार्जुनीयास्तु पठंति (वणस्सइकाइयाणं पंचविहा बीजवकंती एवमाहिजइ तं जहा अग्गमूलपोरुक्खंधबीयरुहा छट्ठापि एगेंदिया समुच्छिमा बीया जायते) यथा दग्धवनस्थलीषु नानाविधानि हारितान्युद्भवंति पद्मिन्यो वाऽभिनवतडागादाविति तेषां च चतुर्विधानामति वनस्पतिकायानां यद्यस्य वीजमुत्पत्तिकारणं तद्यथा बीजं / तेन यथावीजेनेति / इदमुक्तं भवानि / शाल्यंकुरस्य शालिबीजमुत्पत्तिकारणं / एवमन्यदपि द्रष्टव्यं / यथावकाशेति यो यस्यावकाशः यद्यस्योत्पत्तिस्थानमथवा भूम्यंबुकालाकाशबीजसंयोगा यथावकाशे गृह्यते तेनेति / तदेवं यथाबीजं यथावकाशेन चेहास्मिन् जगत्येके केचन सत्त्वा ये तथाविधकर्मोदयाद्वनस्पतित्पित्सवस्ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवंतियथा तेषां वनस्पतिबीज कारण-मेवमाधारमंतरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजंबालादेरुदकवदिति / तथा पृथिव्यां संभवः सदा भवनं येषां वनस्पतीनां तथा / इदमुक्तं भवति / न केवलं ते सद्योनिकायस्थितिका-श्चेति / तथा पृथिव्यामेव विविधमुत्पाल्त्येन क्रमःक्रमणं येषा ते पृथिव्युत्क्रमाः। इदमुक्तं भवति / पृथिव्यामेव तेषामूलंक्रमण-लक्षणा वृद्धिर्भवति / एवं च ते तद्योनिकास्तत्संभवास्तद् व्युत्क्रमा इत्येतदनूद्याप्यपरं विधातुकाम आह॥ कम्मोवगा इत्यादि / ते हि तथाविधेन वनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिषूपसामीप्येनतस्यामेव च पृथिव्यां गच्छंतीति कर्मोपगा भण्यंते तेहि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतिषूत्पद्यते / न चान्य त्रोप्ता अन्यत्र भविष्यंतीति उक्तं च / "कुसुमपुरोप्ते बीजे मथुरायां नाङ्कुरः समुद्भवति / यत्रैव तस्य बीजं तत्रैवोपत्द्यते प्रसवः " तथा ते जीवाः कर्मनिदानेन कारणेन समाकृष्यमाणास्तत्र वनस्पति-काये वा व्युत्क्रमाः समागताः संतो नानाविधयोनिकासु पृथिवीष्वित्यन्येषामपि षण्णां कायानामुत्पत्तिस्थानभूतासु सचित्ताऽचित्तमिश्रासु वा श्वेतकृष्णादिवर्णतिक्तादिर ससुरभ्यादिगंधमृदुकर्कशादिस्पर्शादिकैर्विकल्पैर्बहुप्रकारासु भूमिषु वृक्षतया विविधा वर्तते तेचतत्रोत्पन्नास्तासां पृथिवीनां स्नेहं स्निग्धभावमाददते स एव च तेषामाहार इति / नच ते पृथवीशरीरमाहारयंतः पृथिव्याः पीडामुत्पादयंति // सूत्र० श्रु० 2 अ-६।। तेजीवा आहारेंति पुढवीशरीरं आउशरीरं तेउशरीरं वाउशरीरं वणस्सइसरीरंणाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं शरीरं पुष्वा हारियं तयाहारियं विपरिणयं सारूवियकडं संतं अवरेवियणं तेसिं पुढबिजोणियाणं रक्खाणं सरीरा णाणावण्णाणा णागंधा जाणारसा णाणाफासा णाणासंठाणसंठियाणाणा विह-सरीरपुरणलविउव्वित्ता ते जीवा कम्मोववन्नगा भवंतीति मक्खायं / / टी, एवमप्कायतेजोवायुवनस्पतीनामायोज्यं / अत्र च पीडानुत्पादनेऽयं दृष्टान्तः / तद्यथा / अण्डोद्भवाद्या जीवा-मातुरुष्मणा विवर्धमाना गर्भस्था एवोदरगतमाहारयंतो नातीव पीडामुत्पादयंत्येव- | मसावपि वनस्पतिकायिकः पृथिवीस्नेहमाहार यन्नातीव तस्याः पीडामुत्पादयति उत्पद्यमानः समुत्पन्नश्च बुद्धिमुपगतोऽसदृशवर्णरसाद्युपेतत्वात् बाधां विदध्यादपीति / एवमप्कायस्य भौमस्यांतरिक्षस्य वा शरीरमाहारयंति तथा तेजसो भस्मादिकं शरीरमाददति / एवं वाय्वादेरपीति द्रष्टव्यं / किंबहुनोक्तेननानाविधानां वसस्थावराणां प्राणिनां यच्छरीरं तत्ते समुत्पद्यमाना अचित्तमपि स्वकायेनावष्टभ्य प्रासुकीकुर्वति / यदि वा परिविध्वस्त पृथिवीकायादिशरीरं किंचित्परितापितं कुर्वति ते वनस्पतिजीवाएतेषां पृथिवीकायादीनां तच्छरीरं पूर्वमाहारितमिति तैरेव पृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत् स्वकायत्वेन परिणामितमासीत् / तदधुना वनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नो वा त्वचा स्पर्शनाहारयत्याहार्य च स्वकायत्वेन विपरिणामयति विपरिणामितं च तच्छरीरं स्वकायेन सह स्वरूपतां नीतं सत्तन्मयतां प्रतिपद्यते / अपराण्यपि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीकायिकानां वृक्षाणां नानावर्णानि / तथाहि स्कंध-स्यान्यथाभूतो वर्णो मूलस्य चान्यादृश इति / एवं यावन्ना-नाविधशरीरेषु पुद्गलविकुर्वितास्ते भवंतीति / तथाहि / नाना-रसवीर्यविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानास्ते भवंतीति / तथा दृढाल्पसंहननाः कृशस्थूलस्कंधाश्च भवंत्येवमादिका नानाविधस्वरूपाणि विकुर्वतीति स्थितम् / केषांचिच्छाक्यादीनां वनस्पत्याद्या स्थावरजीवा एव न भवंतीति अतस्तत्प्रतिषेधार्थमाह / ते जीवा इत्यादि / ते वनस्पतिषूत्पन्ना जीवा उपयोगलक्षणत्वाज्जीवानां तेषामप्याश्रयोत्सर्पणादिकया क्रिययोपयोगो लक्ष्यते / तथा विशिष्टाहारोपचयापचयाभ्यां शरीरोपचयापचयसद्धावादर्भकजीवाः स्थावरास्तथाच्छि-न्नप्ररोहणात्स्वापात्सर्वत्वगपहरणे मरणादित्येवमादयो हेतवोऽत्र द्रष्टव्याः यदत्र कैश्चित्पृष्टेपि वनस्पतीनां चैतन्ये सिद्धानैकांतिकत्वादिकमुक्तं स्वदर्शनानुरागात्तदपकर्णनीयं नहि सम्यगार्हतमताभिज्ञोऽसिद्धविरुद्धानेकांतिकोपन्यासेन व्यामोह्यते सर्वस्य कथांचिदभ्युपगतत्वात्प्रतिषिद्धत्वाचेति तेजीवास्तत्र वनस्पतिषु तथाविधेन कर्मणा उपपन्नगाः / तचेदं एकेंद्रियजातिस्थावरनामवनस्पतियोग्यायुष्कादिकमिति तत्कर्मोदयेन तत्रोत्पन्ना उच्यते न पुनः कालेश्वरादिना तत्रोत्पाद्यते इत्येवमाख्यातं तीर्थकरादिभिरिति। एवं तावत्पृथिवीयोनिका वृक्षा अभिहिताः सूत्र श्रु.२ अ०३ / सांप्रतं तद्योनिकेष्वेव वनस्पतिषु अपरे समुत्पद्यत इत्येतदर्शयितुमाह / सूत्र आहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तजोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं / तत्थ दुकमा पुढवीजोणिएहिं रुक्खे हिं सक्खत्ताए विउति ते जीवा तेसिं पुढवीजोणियाणां रुक्खाणं सिणे हमाहारेंति ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरंणाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति परिविद्धत्थं तं सरीरं पुटवाहारिय तयाहारियं विप्परिणामियं सारूविकडं संतं अवरेवियणे तेसिं रुक्ख जोणियाणं रुक्खाणं सरीराणाणावन्ना णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविह