________________ आसायणा 507 अभिधानराजेन्द्रः भाग 2 आसायणा 77 जूअं७८ जेमण 79 गुज्ज विजश्वणिज 82 सिजं८३जलं 84 मज्जणं / एमाईओ अमजकजसुजुओवजे जिणिं-दालए / विषमपदार्थे यथा // आसायणाओ चुलसी इति / अष्टात्रिंशत्तमंद्वारमाह // खेलं केलिकलिमित्यादि शार्दूलवृत्तचतुष्टयमिदं व्याख्यायते / तत्र जिनभवने इतमियं च कुर्वन्नाशातनां करोतिति तात्पर्यार्थः / आयं लाभं ज्ञानादीनां निःशेषकल्याण संपलतावितानाविकलबीजानां शातयंति विनाशयंत्याशातनाः / तत्र खेलं मुखश्लेष्माणं जिनमंदिरे त्यजति / तथा केलिं क्रीडां करोति / तथा कलिं वा कलहं विधत्ते तथा केला धनुर्वेदादिकाः खलूरिकायामिव तत्र शिक्षते / तथा कुललयं गंडूषं विधत्ते तांबूलं तत्र चर्वयति तथा तांबूलसंबंधिनमुद्गाल माचीलं तत्र मुंचति / तथा गालीश्चकारमकारादिकास्तत्र ददाति तथा कंगुलिकालध्वीं महतींच विधत्ते / तथा शरीरस्य धावनं प्रक्षालनं कुरुते / तथा केशान मस्तकादिभ्य स्तत्रोत्तारयति / तथा नखान् हस्तपादसंबंधिनः किरति। तथा लोहितं शरीरान्निर्गतं तत्र विसृजति तथा भक्तोषं सुखादिकांतत्र खादति तथा त्वचं व्रणादिसंबधिनी पातयति / तया पित्तधातुविशेषमौषधादिना तत्र पातयति / तथा वांतं वमनं करोति / तथा दशनान्दंतान क्षिपतितत्संस्कारं वा कुरुते / तथा विश्रामणामंगसंबाधनं कार-यति तथा दामनं बंधनमजादितिरश्चां विधत्ते तथा दंताक्षिन-खगंडनासिकाशिरश्रोत्रछवीनां संबंधिनं मलं जिनगृहे त्यजति तत्र छविः शरीरं शेषाश्च तदवयवा इति प्रथमवृत्तं / तथा मंत्रं भूतादिनिग्रहलक्षणं राजादिकार्यपर्यालोचनरूपं वा कुरुते। तथा मीलनं क्वापि स्वकीयविवाहादिकृत्ये निर्णयाय वृद्धपुरुषाणां तत्रोपवेशनं / तथा लेख्यक व्यवहारादिसंबंधितत्र कुरुतेतथा विभजनं विभागंदायादादीनां तत्र विधत्ते / तथा भांडागारं निजद्रव्यादेर्विधत्ते तथा दुष्टासनं पादोपरि पाद-स्थापनादिकमनौचित्योपवेशनं कुरुते / तथा छाणी गोमयपिंडः कूर्पटं वस्त्रं दालिमुगादिदिलरूपा पर्पटवटिके प्रसिद्धे / तत एतेषां विसारणं च उद्घापनकृते विस्तारणं / तथा नाशनं नृप-दायादादिभयेन चैत्यस्य गर्भगृहादिष्वंतर्धानं तथा आक्रं दं रुदितविशेष पुत्रकलत्रादिवियोग तत्र विधात्ते तथा विविधाः कथा रमणीयरमण्यादिसंबंधिनीः कुरुते तथा शराणां बाणानामिक्षूणां च घटनं सरच्छति पाठे तु शराणां अस्त्राणां च धनुः शराणां घटनं / तथा तिरश्चामश्वगवादीनां संस्थापनं तथा अग्निसेवनं शीतादौ सति तथा रंधनं पाचनमन्नादीनां तथा परीक्षणं द्रव्यादीनां तथा नैषेधिकीभंजनमवश्यमेव हि चैत्यादौ प्रविशद्भिः सामाचारीचतुरैनैषेधिकी करणीया / ततस्तस्य अकरणं भजन-माशातनेति द्वितीयवृत्तार्थः / तथा छत्रस्य तथा उपानहोस्तथा शस्त्राणां खगादीनां चामरयोश्च देवगृहाबहिरमोचनं मध्ये वा धरणं तथा मनसोऽनेकांतता नैकाण्यं नानाविकल्पकल्पनमित्यर्थः अभ्यंजन तैलादिना तथा सचित्तानां पुष्पतांबूलपत्रादीनामत्यागो वहिरमोक्षणं तथा त्यागःपरिहरणमजीए इति अजीवानां हाररत्नमुद्रिकादीनां बहिस्तन्मोचनो हि अहो भिक्षाचराणामयं धर्म इत्यवर्ण बादो दुष्टलोकै विधीयते / तथा सर्वज्ञप्रतिमादृष्टौ दृग्गोचरतायां नो नैवांजलिकरणमंजलिविरचनं तथा एकशाटकेन एकोपरितनवस्त्रेण उत्तरासंगभंग उत्तरासंगस्याकरणं तथा मुकुटं किरीटं मस्तके धरंति तथा मौलिं शिरावेष्टेनवि शेषरूपां करोति तथा शिरः शेखरं कुसुमादिमयं धत्ते / तथा हुंडा पारा-पतनालिकेरादिसंबंधिनीं विधत्ते तथा जिड्डहत्ति कंदुकः गिंदुका तत्क्षेपिणी चक्रयष्टिका ताभ्यामादिशब्दाद्गलिका कपर्दिका-दिभिश्च रमणं क्रीडनं तथा तथा ज्यात्कारेणं पित्रादीनां / तथा भांडानां विटानां क्रिया कक्षा चोदनादिका इति तृतीयवृत्तार्थः / तथा रेकारं तिरस्कारप्रकाशकं रेरे रुद्रदत्तेत्यादि वक्ति / तथा धरणकं रोधनमपकारिणामधमण्णादीनां च तथा रणं संग्रामकरणं / तथा विचरणं बालानां विजढीकरणं तथा पर्यस्तिकाकरणं / तथा पादुका काष्ठादिमयंचरणरक्षणोपकरणं तथा पादयोः प्रसारणं स्वैरं निराकुलतायां / तथा पुटपुटिकादापनं तथा एकंकर्दमं करोति निजदेहावयवक्षालनादिना तथा रजोधूली तत्र पादादिलग्नां / जाटयति। तथा मैथुनं मिथुनस्य कर्म तथा यूकां मस्तकादिभ्यः क्षिपति वीक्षयति वा तथा जेमनं भोजनं तथा गुह्य लिंगं तस्यासंवृतस्य करणं जुज्जमिति तु पाठे युद्धं दृग्युद्धबाहुयुद्धादि / तथाविञ्जत्ति वैद्यकं तथा वाणिज्य क्रयलक्षणं तथा शय्यांकृत्वा तत्र स्वपिति तथा जलंपर्यस्तत्पानाद्यर्थतत्र मुंचति पिबति वा तथा मज्जनं स्नानं तत्र करोति। एवमादिकमवद्यं सदोषं कार्य ऋजुकः प्रांजलचेता उद्यतो वा वर्जयजिनेंद्रालये जिनमंदिरे एवमादिकमित्यनेनेद माह न केवलमेतावत्य एवाशातनाः किंत्वन्यदपि यदनोदितं हसनचलनादिकं जिनालये तदप्याशातनास्वरूपं ज्ञेयं नन्वेवंतंबोलपाणेत्यादिगाच्छयैवाशातनादशकस्य प्रतिपादितत्वाच्छेषाशातनानांचैतद्दश-कोपलक्षितत्वेनैव ज्ञास्यमानत्वादयुक्तमिदं द्वारांतरमिति चेन्न सामान्याभिधानेति बालादिबोधनार्थं विभिन्नविशेषाभिघानं किं यत एव यथा ब्राह्मणाः समागता वसिष्ठोपि समागत इति सर्वमनवानन्वेता आशातना जिनालये क्रियामाणा गृहिणां कंचन दोषमावहति / उतैवमेव न करणीयास्तत्र ब्रूमो न केवलंगृहिणां सर्वसावधकरणोद्यतानां भवभ्रमणादिकं दोषमावहति किं तु निसद्याचाररतानां मुनीनामपि दोषभाव हंतीत्याह / आसाय-णाउ इत्यादि एताः आशातनाः परिस्फुरद्विविधदुःख परंपराप्रभवभवभ्रमणकारणमिति विभाव्य परिभाव्य यतयोज्स्नाका-रित्वेन मलमलिनदेहत्वात्न जिनमंदिरे निवसति / इति समयः सिद्धांतस्तमेव समयं व्यवहारभाष्योक्तं दर्शयति दष्भिगंधेत्यादि। एषा तनुःस्नापितापि दुरभिगंधमलप्रस्वेदश्राविणी तथा द्विधावायुपथोऽधोवायुनिर्गम उत्श्वास निश्वासनिर्गमश्च यद्वा द्विधा मुखेन अपानेन च वायुवहो वापि वातवहनंच तेन कारणेन न तिष्ठति यततश्चैत्ये जिनमंदिरे यद्येवं व्रतिभिश्चैत्येष्वाशातना-भीरुभिः कदाचिदपि न गंतव्यं / तत्राह तिन्निवाकड्ढुइत्यादि तिनः स्तुतयः कायोत्सर्गादनंतरं या दीयते ताः यावत्कर्षति भणतीत्यर्थः किंविशिष्टास्तत्राह त्रिश्लोकिकाः / त्रयः श्लोकाः छंदोविशेषरूपा आधिक्येन यासुतास्तथा सिद्धाणं बुद्धाणमि त्येक श्लोको जोदेवाणवि इति द्वितीयं एक्को वि नमोकारो इति तृतीय शति अग्रेतनगाथा द्वयं स्तुतिश्चतुर्थीगीतार्थाचरणेनैव क्रियते गीतार्थाचरणं तु मूलगणधरमणितमिव सर्वविधेयमेव सर्वैरपि मुमुक्षुभिरिति तावत्कालमेव तत्र जिनमंदिरेऽनुज्ञातमवस्थान यतीनांकारणेनपुनर्धर्मश्रवणाद्यर्थमुपस्थितंभविक-जनोपकारा-दिनां परतोपि चैत्यवंदनाय अग्रतोपि यतीनामवस्थानमनुज्ञातं / शेषकाले तु साधूनां जिनाशातनादिभयान्नानुज्ञातमवस्थानं तीर्थंकरगणधरादिभिस्ततो व्रति-भिरप्येवमाशातनाः परिहियंते / गृहस्थैस्तु सुतरां परि-हरणीयाइति इयं तीर्थकृतामाज्ञा आज्ञाभंगश्च महतेऽनर्थाय