________________ आउक्काय 27 अभिधानराजेन्द्रः भाग 2 आउक्काय पौरुष्या तत्परिणमति। मध्यमभावा चेत्तर्हि द्वाभ्यां पौरुषीभ्यां, स्तोका चेत्तर्हि तिसृभिः पौरुषीभिरिति। इह तावद्व्युत्क्रान्तयोनिकेनाप्कायेनेदंप्रयोजनमित्युक्तम्, अतस्तदेव दर्शयतिपरिसेयपियणहत्था-इधोवणं चीरधोवणं चेव। आयमणभाणधुवणं, एमाइपओयणं बहुहा ||23 / / परिषेको- दुष्टवणादेरुत्थितस्योपरि पानीयेन सेचनम् / पानमतृडपनोदाय जलस्याभ्यवहरणम् / हस्तादिधावनंकरचरणप्रभृतिशरीरावयवानां कारणमुद्दिश्य प्रक्षालनम्, चीवरधावनंवस्त्रप्रक्षालनम् / अस्य भिन्नविभक्तिनिर्देशो न सदैव साधुनोपधिप्रक्षालनं कर्तव्यमिति प्रदर्शनार्थ: / आचमनम्- पुरीषोत्सर्गानन्तरं शौचकरणम्, 'भाणधुवणं' तिपात्रकादिभाजनप्रक्षालनम् / एवमादिकमादिशब्दात्-ग्लानकार्यादिपरिग्रहः / अचित्तेना-प्कायेन प्रयोजनं बहुधा-बहुप्रकारं द्रष्टव्यम् / पिं। ओघा ध। (4) तीव्रोदकस्याचित्तत्वम्"तिव्वोदगस्स गहणं, केइ भायणेसु असुइपडिसेहो। गिहिभायणेसु गहणं, ठिअवासे मीसगं छारो / / 1 / / " (अस्या गाथाया व्याख्या 'अचित्त' शब्दे प्रथमभागे गता) ध.२ अ०। तत्रयोऽचित्तोऽप्कायस्तेनोपयोगविधि: साधूनां, नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः, किं स्वभावाद्, आहोस्विच्छ- स्त्रसम्बन्धात्, उभयथापीति / तत्र यः स्वभावादेवाचित्तीभवतिन बाह्यशस्त्रसम्बन्धातमचित्तं जानाना अपि केवलमन:-पर्यायावधिश्रुतज्ञानिनोन परिभुञ्जते अनवस्थाप्रसङ्गभीरुतया / यतोऽनुश्रूयते भगवता किल श्रीवर्द्धमानस्वामिना विमलस- लिलसमुल्लसत्तरङ्गः शैवलपटलत्रसादिरहितो महाहृदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपूर्ण: स्वशिष्याणां तृड्बा- धितानामपि पानाय नानुजज्ञे / तथा अचित्ततिलशकटस्थ-ण्डिलपरिभोगानुज्ञा चाऽनवस्थादोषसंरक्षणाय भगवता न कृतेति श्रुतज्ञानप्रामाण्यज्ञापनार्थश्च / तथाहिसामान्यश्रुतज्ञानी बाह्येन्धनसम्पक्कादुषितस्वरूपमेवाचित्तमिति व्यवहरति, जलं, न पुनर्निरिन्धनमेवेति / अतो यद्- बाह्यशस्त्रसम्प र्कात्परिणामन्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते। आचा० 1 श्रु०१ अ. 33024 सूत्रटी। (5) किम्पुनस्तच्छस्त्रमित्यत आहउस्सिंचणगालणधो-यणे य उवकरणकोसमंडे य। बायर आउक्काए, एवं तु समासओ सत्थं // 113 / / किंची सकायसत्थं, किंची परकायतदुभयं किंची। एयं तु दव्वसत्थं, भावे य असंजमो सत्थं / / 114 // उस्सिंचणे' त्यादि, शस्त्रं द्रव्यभावभेदात् द्विधा। द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव / तत्र समासतो द्रव्यशस्त्रमिद- मूवंसेचनम् उत्सेचनकूपादे: कोशादिनोत्क्षेपणमित्यर्थः / गालनंघनमसृणवस्त्राद्धन्तेिन / धावनं-वस्त्राद्युपकरणचर्म- कोशघटादिभाण्डेकविषयम्, एवमादिकं बादराप्काये / एतत्पूर्वोक्तं समासत:- सामान्येन शस्त्रम्, तुशब्दो विभागापेक्षया विशेषणार्थ: / / 113 // विभागतस्त्विदम्-' किंची' त्यादि, किञ्चित् स्वकायशस्त्रं नादेयं तडागस्य / किञ्चित्परकायशस्त्रं मृत्तिकास्नेहकरादि / किंचिचोभयम्- उदकमिश्रा मृत्तिकोदकस्य / आचा० 1 श्रु.१० ३ऊ। सत्थं चेत्थं अणुवीइपासा पुढो सत्थं पवेइयं / (सूत्र-२५) शस्यन्ते -हिंस्यन्ते अनेन प्राणिन इति शस्त्रं तच्चोत्सेचनगालनोपकरणधावनादि स्वकायादि च वर्णाद्यापत्तयो वा पूर्वावस्थाविलक्षणा: शस्त्रम्। तथा हिअग्रिपुद्गलानु- गतत्वादीषत्पिङ्गलं जलं भवत्युष्णं गन्धोऽपि धूमगन्धि रसतो विरसं, स्पर्शत उष्णम् / तचोद्धृतत्रिदण्डमेवंविधावस्थं यदितत: कल्पते, नान्यथा / तथा कचवरकरीषगोमूत्रोपादीन्ध नसम्बन्धात्स्तोकस्तोकमध्यबहुभेदात्, स्तोकं स्तोकं प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या। एवमेतत्त्रिविधं शस्त्रं चशब्दोऽवधारणार्थ: / अन्यतमशस्त्रसम्पर्कविध्वस्तमेव ग्राह्य, नान्यथेति। एत्थं ति- एतस्मिन्नप्काये प्रस्तुते अनुविचिन्त्य-विचार्यइदमस्य शस्त्रमित्येवं ग्राह्यम् / पश्येत्यनेन शिष्यस्य चोदनेति / तदेवं नानाविधं शस्त्रमप्कायस्यास्तीति प्रतिपादितम्, एतदेव दर्शयति- 'पुढो सत्थं पवेदितं' पृथग्विभिन्नमुत्सेचना- दिकं शस्त्रं प्रवेदितम्-आख्यातं भगवता, पाठान्तरं वा- 'पुढोऽयासं पवेदितं' एवं पृथग्विभिन्न लक्षणेन शस्त्रेण परिणामितमुदकग्रहणमपाशं संप्रवेदितम्-आख्यातं भगवता, अपाश:-अबन्धनं शस्त्रपरिणामितोदकग्रहणमबन्धनमाख्या-समिति यावदेवं तावत्साधूनां सचित्तमिश्राप्काय-परित्यागेनाचित्तपयसा परिभोग: प्रतिपादित: / आचा.१ श्रु०१ अ०३ उछ। (6) सचित्ताप्कायपरिभोगविचारः / इच्छिज्जइ जत्थ सया, बीयपएणाऽवि फासुयं उदयं / आगमविहिणा निउणं, गोयम ! गच्छंतयं मणियं ||7|| इष्यते- वाञ्छ्यते यत्रगणे सदा-नित्यम् उत्सर्गपदापेक्षया द्वितीयपदम्अपवादपदंतेनापि किंपुनरुत्सर्गपदेनेत्यपिशब्दार्थ: / प्रगता असव:प्राणा यस्मात्तत्प्रासुकं, किम्? उदकं- जलं तच उत्कालत्रयोत्कलनादिप्रकारेण प्रासुकीस्यात्: न तु तप्तमात्रम्। यत उक्तं दशवैकालिके "गिहिणो वेयावडियं, जायआजीववत्तिया! तत्तानिवुडभोइत्तं, आउरस्सरणाणि य॥१॥" ताप्तानिवृतभोजित्वं-तप्तंच तदनिर्वृतं चात्रिदण्डोद्धृतंच। उदकमि' ति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं: मिश्रसचित्तोदकभोजित्वमित्यर्थः / आगमविधिनासिद्धान्तोक्त- प्रकारेण निपुणं यथा स्यात्तथा हे गौतम ! स गच्छो भणित: / ग.२ अधिक। सचित्तस्य तु विन्दुमात्रस्यापि परिभोगो न कल्पतेजत्थ य बाहिरपाणिअ, विंदूमित्तं पि गिम्हमाईसु। तिण्हासोसियपाणा, मरणे विमुनीन गिण्हति / / 77 // हे गौतमा यत्र- गच्छे बाह्यपानीयबिन्दुमात्रमपिसचित्तजललेशमात्रमपि ग्रीष्मादिषु कालेषु तृष्णया- द्वितीयपरीषहेण शोषिताग्लानि प्रापिता: प्राणाइन्द्रियादयोयेषां ते तृष्णाशोषितप्राणा: मरणान्तेऽपि मुनयः साधवो न गृण्हन्ति क्षुल्लकवत् / तथाहि- "उज्जेणी नयरी / तत्थ