________________ आउक्काय 25 अभिधानराजेन्द्रः भाग 2 आउक्काय अप्कायस्यापि तान्येव द्वाराणि भवन्ति: यानि पृथिव्या: प्रतिपादितानीति, नानात्वं भेदरूपं विधानपरिमाणोपभोग-शस्त्रविषयं द्रष्टव्यं, चशब्दाल्लक्षणविषयं च, तुशब्दोऽवधारणार्थ:, एतद्गतमेव नानात्वं; नाऽन्यगतमिति। तत्र विधानप्ररूपणा, तद्गतं नानात्वं प्रदर्शयितुमाहदुविहा य आउजीवा, सुहमा तह बायरा य लोयम्मि। सुहुमाय सव्वलोए, पंचेव य बायरविहाणा / / 107 / / स्पष्टा। तत्र पञ्च बादरविधानानि दर्शयितुमाहसुद्धोदए य ओसा-हिमे य महिया तरतणू चेव / बायरआउविहाणा, पंचविंहा वणिया एए॥१०८ / / शुद्धोदकं तडागसमुद्रनदीहदावटादिगतमवश्यायादिरहितमिति, अवश्यायो-रजन्यां यस्त्रहः पतति, हिमं तु-शिशिरसमये शीतपुगलसम्पर्काज्जलमेव कठिनीभूतमिति, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिक्त्युच्यते, वर्षाशरत्कालयोर्हरिताङ्क- रमस्तकस्थितो जलबिन्दुर्भुमिरनेहसम्पर्कोद्भूतो हरतनुशब्देना- भिधीयते, एवमेते पञ्च बादरापकायविधयो व्यावर्णिता: / एते बादराप्काया: समासतो वधा पर्याप्तका, अपर्याप्तकाश्च / तत्रापर्याप्तकावर्णादीनाम, संप्राप्तपर्याप्तकास्तुवर्ण- गन्धरसस्पदिशैः सहस्राग्रशो भिद्यन्ते ततश्च संख्येयानि योनिप्रमुखाणि शतसहस्राणि भवन्ति भेदानामित्यवगन्तव्यम् / संवृतयोनयश्चैते सा च योनि: सचित्ताऽचित्त-मिश्रभेदात् त्रिधा / पुनश्च शीतोष्णोभयभेदात् त्रिधैव / एवं गण्यमाना: योनीनां सप्त लक्षा भवन्ति इति प्ररूपणानन्तरं परिमाणद्वारमाहजे बायरपज्जत्ता पयरस्स असंखभागमेत्ता ते। सेसा तिन्नि विरासी, वीसुलोगा असंखेज्जा / / 109 / / 'जे बायरे' त्यादि, ये बादराप्कायपर्याप्तकास्ते संवर्तितलोकप्रतरासख्येयभागप्रदेशराशिपरिमाणाः / शेषास्तुत्रयोऽपि विष्वक्पृथगसंख्येयलोकाकाशप्रदेशराशिपरिमाणा इति / विशेषपश्चायम्बादरपृथिवीकायपर्याप्तवेभ्यो बादराप्काय- पर्याप्तका असंख्येगुणाः, बादरपृथिवीकायाऽपर्याप्तकेभ्यो बादरापकायिकाऽपर्याप्तका असंख्येयगुणा:, सूक्ष्मपृथिवी- कायाऽपर्याप्तकेभ्य: सूक्ष्माप्कायाऽपप्तिका विशेषाधिका:, सूक्ष्मपृथिवीकायपर्याप्तवेभ्य: सूक्ष्माप्कायपयप्तिका विशेषा-धिका: / आचा०१ श्रु०१ अ०३ उ०। भौमान्तरिक्षभेदाद् द्विविधत्वम् / अप्कायद्वारमाहआउक्काओ दुविहो, भोमो तह अन्तलिक्खो य / / 28 / / अप्कायो द्विविध:-भौमः, आन्तरिश्च / इदानीं प्रत्यासत्तिन्यायादान्तरिक्षस्तावदुच्यते, तत्रान्तरिक्षमपि द्विविधम्मिहिया वासं पुण अं-तलिक्खिा / 29 / / सोऽन्तरिक्षजो द्विविध:-महिका- धूमिकारूपोऽपकाय: 'वास' तिवर्षारूपश्चाप्काय: / ओघा (भौमाप्कायिकव्याख्यानमग्रे 1757 गाथया करिष्यते) (2) अप्कायिकस्य शरीरादि यथातेसिणं भंते ! जीवाणं कति सरीया पणत्ता ?गोयमा! तओ सरीरया पण्णत्ता, तं जहा-ओरालित्ते, तेयत्ते, कम्मत्ते, जहेव सुहमपुढविक्काइयाणं / नवरं थियुगसंठिया पण्णत्ता, सेसं तं चेव जाव दुगतिया दुआगतिया परित्ता असंखेज्जा पण्ण-त्ता। सेत्तं सुहमआउक्काइया / (सूत्र-१६४)। से किं तं बायरआउक्काइया ? बायरआउक्काइया अणेगविहा पण्णत्ता, तं जहा-उसा हिमे जाव जे यावन्ने तहप्पगारा / ते समासओ दुविहा पण्णत्ता,तं जहापज्जत्ता य,अपज्जत्ता यातं चेव सव्वं / नवरंथिद्गसंठिया, चत्तारिलेसातो,आहारो नियमा छतिसिं, उववाओ तिरिक्खजोणियमणुस्सदेवेहिं, ठितीजहन्नेणं अंतोमुहत्तं, उक्कोसेणं सत्तवाससहस्साई। सेसं तं चेवं / जहा-बायरपुढविकाइया णं जाव दुगतिया तिआगतिया परित्ता असंखेज्जा पन्नत्ता समणाउसो! / सेत्तं बायरआउक्काइया। सेत्तं आउक्काइया। (सूत्र-१७) 'ते समासतो' इत्यादि, प्राग्वद्, नवरं संख्येयानि योनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि तेसि णं भंते ! जीवाणं कइ सरीरगा' इत्यादि, द्वारकलापचिन्तायामपि बादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संस्थान-द्वारेशरीरकाणि स्तिबुकसंस्थानसंस्थितानि वक्तव्यानि // स्थितिद्वारेजघन्यत: स्थितिरन्तर्मुहूर्तम्, उत्कर्षत: सप्तवर्षसहस्राणि / / शेषं तथैव / / जी०१ प्रति०। अप्कायिकस्य जीवत्वं यथा-सांप्रतं परिमाणद्वारानन्तरं चशब्दसूचितलक्षणद्वारमाहजह हत्थिस्स सरीरं, कललाऽवत्थस्स अहुणोववन्नस्स। होइ उदगंडगस्स य, एसुवमा आउजीवाणं // 120 / / अथवा- पर आक्षिपति-नाप्कायो जीवः, तल्लक्षणायोगात्, प्रश्रवणादिवदित्यस्य हेतोरसिद्धतोद्भावनार्थ दृष्टान्तद्वारेण लक्षणमाह'जहे' त्यादि, यथा हस्तिन: शरीरं कललाऽव- स्थायामधुनोत्पन्नस्य द्रवे, चेतनञ्च दृष्टमेवमप्कायोऽपीति / यथा वा-उदकप्रधानमण्डकमुदकाण्डकम्; अधुनोत्पन्नमित्यर्थः, तन्मध्यव्यवस्थितं रसमात्रमसंजातावयवमनभिव्यक्तचत्वादि- प्रविभागचेतनावद् दृष्टम् / एषा एवोपमाऽप्कायजीवानामपीति / हस्तिशरीरकललग्रहणश महाकायत्वात्तद् भवतीत्यत: सुखेन प्रतिपाद्यते। अधुनोपपन्नग्रहणं सप्ताहपरिग्रहार्थ, यत: सप्ताहमेव कललं भवति, परतस्त्वर्बुदादि / अण्ड केऽप्युदक ग्रहणमेवमेव, प्रयोगश्चायम्-सचेतना आप: शस्त्रानुपहतत्वे सति द्रवत्वात्, हस्तिशरीरोपादानभूतकललवत्, विशेषणोपादानात्प्र- श्रवणादिदिव्युदासः / तथा सात्मकं तोयम्, अनुपहतत्वादण्ड क मध्यस्थितक ललवदिति / तथा आपो जीवशरीराणि छेद्यत्वाद् भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाद्भोग्यत्वाद् ज्ञेयत्वाद्रसनीयत्वात् स्पर्शनीयत्वात् दृश्यत्वात् द्रव्यत्वादेवं सर्वेऽपि शरीरधर्माः हेतुत्वेनोपन्यसनीया: गगनवर्जभूतधर्माः स्वरूपवत्त्वाकार वत्त्वादयः / सर्वत्रायं दृष्टांत:- सास्नाविषाणादिसंघातवदिति / ननु रूपवत्त्वाऽऽकारवत्त्वादयो भूतधर्मा: परमाणु -