SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आवस्सय 472 अभिधानराजेन्द्रः भाग 2 आवस्सय वयकं / शेषाद्वेतिकप् प्रत्ययः यदि वा ज्ञानादिगुणकदम्बकं मोक्षोवा आसमन्तावश्यः क्रियतेऽनेनेत्यावश्यकं 1 आ.म.प्र.१ अ. / प्रव। स्था०। ग० विशेा ओवळा दंसणविणए आवस्सए असीलव्वए निरइआरो। आवश्यकं अवश्यकर्तव्यं संयमव्यापारानिष्पन्न तस्मिन्पिड विशुद्ध्याद्युत्तरगुणकलापे, इति / आकol ज्ञा०l तत्प्रतिपादके सामायिकादिषडध्ययनकलापात्मके अङ्ग बाह्ये श्रुतविशेषे च अनु०। विशे। स्थानंदी। समएणं सावएणय, अवस्सकायव्वं हवई जम्हा। अंतो अहो निसस्सय, तम्हा आवस्सय नाम नाम सेत्तं आवसयं।। टी, श्रमणादिना अहोरात्रस्य मध्ये यस्मादवश्यं क्रियते / तस्मादावश्यकं एवमवश्यकरणीयादिपदानामपि व्युत्पत्तिर्द्रष्टव्या। उपलक्षणत्वादस्य इति गाथार्थः / अनु०।। तच्छाच विशेषावश्यक। आवश्यकस्य पर्यायनामान्यभिधित्सुराह। पर्यायाः॥ तस्साभिन्नत्थाहं, सुपसत्थाई जहंनु निययाई। अव्यामोहाई.निनित्तमाहपज्जायनामाइं॥ तस्याऽवश्यकस्य पर्यायनामान्याह इति संबन्धः / कथंभूतान्यभिन्नार्थानि सुप्रशस्तानि यथार्थो व्यवस्थितस्तथैव नियतानि निश्चितानि / किमित्याह / / अव्वामोहादिनिमित्तं एकाथिकै र्हि पर्यायनामभितैिरन्योन्यस्थानेष्वन्यान्यनामश्रवणतः शिष्यो नमुह्यति। आदिशब्दान्नानादेशजविनयोनां सुखेनैवार्थ प्रतिपत्तिभवति इत्यादि वाच्यमिति॥ कानि पुनस्तानि पर्यायनामनित्याह / आवस्सयं 1 अवस्सकरणिजं 2 धुव 3 निग्गहो 4 विसोहिय 5 अज्झयण 6 छक्कवग्गो 7 घनाउ८ आराहणा९ मग्गो 10 एतानि दश पर्यायनामानि॥ अत्राऽवश्यकमिति कः शब्दार्थः इत्याह। समणेण सावण्णय, अवस्सकायव्वयं हवई जम्हा। अंतो अहोनिसिस्सा, तम्हा आवस्सयं नाम।। श्रमणादिभिरहोरात्रिमध्येऽवश्यकरणादावश्यकमितीह तात्पर्यमिति॥ एतदेव सविशेषमाह॥ जदवसं कायव्वं, तेणावस्सयमिदंगुणाणं वा। आवस्सयमाहारो, आमज्जायामिमिहिवाइ॥ आवस्संवा जीवं, करेइ जनाणदसणगुणाणं / संनिद्धभावणत्थयणेहि, वा वासयं गुणोओ। यद्यस्मादवश्यं कर्तव्यं तेन तस्मादावश्यक मिदमित्ये - तत्प्राक्तनगाच्छायाः पर्यवसितार्थकथनमेव। अच्छवा आङ्-मर्यादाभि विधिवाची / आमर्यादया अभिविधिना वा गुणानामापाश्रय आधार इदमित्यापाश्रयं गुणाधारमित्यर्छः। नन्वाऽधार वाचक आपाश्रयशब्दः पुल्लिगे वर्तते / तत्कथमापाश्रयतीति नपुंसकत्वमितिचेन्न / प्राकृतशैलीवशतोऽदोषादिति / अथवा ज्ञानादिगुणानामासमंतादृश्यमात्मानकरोतीत्यावश्यकं / यथा ! अन्तं करोतीत्यंतकः / सान्निध्यभावच्छादनैर्वा आवासकं गुणत इत्यावासकमुच्यते / इदमुक्तं भवति / वसनिवास इति गुणशून्यमात्मानं गुणैरासमन्ताद्वासयति गुणसांनिध्यमात्मनः क रोतीत्यावासकं / अथवा यथावद् वासधूपादिभिस्तथा गुणै-रासमन्तादात्मानं वासयति भावयति रंजयत्यावासकं यदि वा वस आच्छादनेगुणरासमंतादात्मानं छादयति। छदषट्टसंवरणे। दोषेभ्यः संवृणोत्यावश्यकमिति तदेतदेवमावस्सयत्याचं पय्यायनाम व्याख्यातं। शेषाण्यतिदिशन्नाह // एवं विअसेसाई, विउसासुय लक्खणाणुसारेण / कमसो वत्तव्वाइं, तहा सुयक्खंधनामाई / / एवमेव शेषाण्यपि अवश्यकरणीयादिनामानि सिद्धान्तलक्षणाऽनुसारेण क्रमशो विदुषा वक्तव्यानि / तद्यथा। मुमुक्षु-भिरवश्य क्रि यत इति अवश्यं करणीयमिदमुच्यते। तथा अर्थतो ध्रुवत्वाच्छास्वतत्वात्ध्रुवं / निग्रह्यते इन्द्रियकषायादयो भावशत्रवोऽनेनेति निग्रहः / अन्ये तु प्रवाहतोऽनादिकालीनध्रुवं कर्म तन्निग्रह्यते अनेनेति ध्रुवनिग्रह इत्येकमेवेदं पायनाम व्याचक्षते / कर्ममलिनस्याऽत्मनोविशुद्धिहेतुत्वाद्विशुद्धिः / सामायिकादिषडध्ययनात्मकत्वादध्ययनषट्कं / वृजी वर्जने वृज्यन्ते दूरतः परिहियन्ते रागादयो दोषा अनेनेति वर्गः / अन्ये तुषडध्ययनकलापात्मकत्वादध्ययनषट्कवर्ग इतीदमत्येकमेव पयार्य नाम बुवते / अभिप्रेतार्थसिद्धेः सम्यगुपायत्वान्न्यायः अथवा जीवकमसंबन्धापनयनान्नयायः / अयमभिप्रायो यथा कारणिकै दृष्टी न्यायोद्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसंबंधे चिरकालीनमप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रयाश्रयि भावसम्बधमपनयतीत्यावश्यकमपिन्याय उच्यते / मोक्षाराधना हेतुत्वादाराधना मोक्षपुरप्रापकत्वान्मार्ग इव मार्ग इति / विशे। अनु.।। आ.। चू।। आ०म०प्र० आवश्यकस्य चतुर्धा निक्षेपो नामस्थापनाद्रव्यभावभेदात् सेकिंतं आवस्सयं-आवस्सयं चउट्विहं पण्णत्तं / तंजहा। नामावस्ययंठवणावस्सयंदवावस्सयं भावावस्सयं४॥ (सेकिंतं आवस्सय) मित्यादि अत्र से शब्दो मागधदेशी प्रसिद्धोऽथ शब्दार्थे वर्तते। अथ शब्दस्तु वाक्योपन्यासार्थः / स्तथा चोक्तम्॥ अथ प्रक्रियाप्रश्नानन्तर्यभंगलोपन्यासनिर्वचनसमुच्चयेष्विति किमिति परप्रश्ने। तदिति सर्वनामपूवप्रक्रान्तपरामर्शार्थे / ततश्वायं समुदायार्थेऽय किं स्वरूप तदावश्यकं / एवं प्रश्रिते सत्याचार्यः शिष्यवचनाऽनुरोधेन समाधानार्थं प्रत्युचार्य निर्दिशति / / (आवस्सयं चउविहं) इत्यादि अवश्यं कर्तव्यमावश्यकम् / अथवा गुणानामासमंता द्वश्यमात्मानं करोति इत्यावश्यकम् / यथाऽतं करोतीति अन्तकः / अथवा आवस्सयंति प्राकृत शैल्या आवासकं / अत्र वस निवासे इति गुण शून्यमात्मानं वा समंता-द्वासयति गुणैरित्यावश्यकं (चउविहं पण्णत्तंति) चतस्रो विधा भेदा अस्येति चतुर्विधम् प्रज्ञा प्ररूपितमर्थत स्तीर्थकरैः सूत्रतो गणधरैस्तद्यथा (नामावस्सय) मित्यादि नामाभिधानतद् रूपमावश्यकं नामावश्यक आवश्यका भिधानमेवेत्यर्थः / अथवा नाम्ना नाममात्रेणाऽवश्यकं जीवादीत्यर्थस्तल्लक्षणञ्चेदम्। यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपक्षे पर्यायानभिधेयं च नाम यादृच्छिकं च तथा विनेयाऽनु
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy