________________ आलोयणा 442 अभिधानराजेन्द्रः भाग२ आलोयणा त्रिषु भंगेषु मासलघु संघनायां मासलघु / तपो गुरुकाललघु / ग्रहणे मासलघुद्वाभ्यांगुरुस्तद्यथा तपसा कालेनच। एव मर्थेतपःकालविशेषितं मासगुरु / तदुभयप्रायश्चित्तमर्थविषयं च प्रायश्चित्तं गाथानुपात्तमपि व्याख्यानादवगतं / चतुर्थभंगःपुनः सर्वत्राऽपिशुद्ध इति न तत्र कस्याऽपि प्रायश्चित्त मिति। इहाचार्यस्याऽपि प्रमादतः सूत्रादिषु वर्तनादिकमकुर्व तमुपसंपन्नमसारयतः प्रायश्चित्तमतो नियमात्स आचार्येण- | सारयितव्यस्तथा च एतदेवाह।। सारेयव्वो नियमा, उपसंपन्नोसि जं निमित्तं तु। तं कुण सु तुम भंते ! अकरेमाणे विवेगोउ। स उपसंपन्नो नियमात्सारयितव्यः कथमित्याह / अहोभदंत ! ज्ञानाद्यभ्यासकारितया परमकल्याणयोगिन् ! इह शिष्य-स्याप्याचार्येण प्रोत्साहनार्थ तथा विधयोग्यतासंभवमधि-कृत्यैवंविधमप्यामंत्रणं कर्तव्यमिति ज्ञापनार्थ / अन्यथा भदंतेति गुमिंत्रणे रूढत्वात्तत्रैवन्याय्यं न शिष्ये इति / यन्निमित्त-मुपसंपन्नस्त्वं तत्कुरु / एवमेकद्वित्रिवारं सारितोऽपि यदि न करोति वर्तनादिकं ततस्तस्मिन्नकुर्वति विवेक एव परित्याग एव कर्त्तव्यः / तुरेवकारार्थः // (यदुक्तमणापुच्छा) इति तत् व्याख्यानयति॥ अणणुन्नमणुण्णाए, दितं पडिच्छंतभंगचउरो उ। भंगतियंमि विमासो, दुहतोणुण्णाए सद्धो उ॥ अननुज्ञातो मकारोऽलाक्षणिकः / अननुज्ञातो ददाति इतरस्तु प्रतीच्छतीत्येवं ददानप्रतीच्छतां चत्वारो भंगास्तत्रभंगत्रिकेऽपि आद्येऽपि त्रिष्वपि वर्तनादिषु स्थानेषु प्रत्येकं प्रायश्चित्तं मासो लघुमासः / अर्थे गुरुमासस्तदुभयस्मिन् तदुभयं प्रायश्चित्तमिति व्याख्यानात् / / (दुहतोण्णुण्णाए) इति उभयतो ददानतया प्रतीच्छकतथा चाऽनुज्ञाते भगश्चतुर्थः शुद्ध एव / तुरेवकारार्थः एषोऽक्षरार्थः / भावार्थस्तु प्रागेवोपदर्शितः। एष प्रायश्चित्तविधिर्ज्ञानार्थमुपसंपद्युक्त एवं दर्शनार्थमुपसंपदि द्रष्टव्यस्तथा चाह। एमेव दंसणाबी, वत्तणमादी पथा उजह नाणे। वेयावबकरो पुण, इत्तरितो आवकहितोय॥ यथा ज्ञाने वर्तनादिपदान्यधिकृत्य प्रायश्चित्तविधिरुक्त एवमेव अनेनैव प्रकारेण दर्शनेऽपि वर्तमानादीनि पदान्यधिकृय वेदि-तव्यः ! गता ज्ञानदर्शनोपसंपत्॥ इदानीं चारित्रोपसंपत् भावनाया।। तत्र काले (आवकहाएय) इति पदं व्याख्यानयति। (वेयावचे) त्यादि वैयावृत्यकरो वैयावृत्यार्थमुपसंपन्नः पुनर्द्धिधा इत्वरः स्वल्पकालभावी यावत्कथिको यावअविभावी। अस्य च द्विविधस्याऽपि वैयावृत्यकरापणविधिरयं एको गच्छवासी वैयावृत्यकरोऽपरः प्राधूर्णकः स च वक्ति अहं वैयावत्यं करोमि।। तत्र विधिमाह॥ तुल्लेसु जो सुलद्धी, अन्नस्स व वारएण निच्छंते। तुल्लेसु व आवकही, तस्स मएणं च इत्तरिओ॥ यदि द्वावपि कालतस्तुल्यावित्वरौ च तत्र यद्येकोलब्धिमान् | अपरोऽलब्धिकस्तर्हि तयोस्तुल्यथोर्यः स लब्धिकः स कार्यते इतरस्तु उपाध्यायादिभ्यो दीयते। अथद्वावपियावत्कथिको तत्रापियो लब्धिमान् स कार्यते इतरोऽन्येभ्यो दीयते / यदि पुनावपि सलब्धिको यावत्कथिकौ च तत्र अन्यतर उपाध्यायादेः कार्यते। अथैकोऽपि तस्य नेच्छति तत आगंतुको विमुच्यते। अथद्वावपि सलब्धिकावित्वरौच तत आगंतुक उपाध्यायादीनां वैयावृत्यं कार्यते सूत्रालापकश्च उपाध्यायादिवैयावृत्त्य-फलप्रदर्शकस्ततः प्रोत्साहनार्थ पठनीयः।। उवज्झायवेयावचं, करेमाणे समणे / / निग्गथे महानिजरे, महापजवसाणे होइंशा इत्यादि / अथ नेच्छति तर्हि तस्मिन्नन्यस्य उपाध्यायादिवैयावृत्यमनिच्छति वा शब्दोभिन्नक्रमत्वात्।वारएण चेत्येवं योजनीयः। द्वावपि वारकेण कार्येते कियत्कालमेकः कियत्काल-पर इति / यदि वास्तव्यो वैयावृत्यकरोऽनुमन्यते / अथ नाऽनु-मन्यते तत आगंतुकस्तावंतं कालं प्रतीक्षाप्यते। यावत् वास्त-व्यस्य वैयावृत्यस्य इत्वरकालसमाप्तिमुपयाति / / अथ न प्रतीक्षते तर्हि विसृज्यते अथ द्वयोरपि तयोर्वैयावृत्यकरापण विधिः // अथ एक इत्वर एको यावत्कथिकस्तत्राह (तुल्लेसु व) इत्या-दि। तुल्ययोर्लब्ध्यासमानयोर्यावत्कथिकः स कार्यते / इतरो ऽन्यस्योपाध्यायादेः सन्नियोजनीयः। अथ वास्तव्योयाव-त्कथिकस्तर्हि स भण्यते विश्राम्य त्वं तावत् यावदित्वरः करोति तथा चाह / तस्य वास्तव्यस्य वैयावृत्यकरस्य मतेन इच्छया इत्वरो वा कार्यते वैयावृत्यकरस्तथा प्रज्ञापितोऽपि नेच्छति तर्हि न कार्यते। स हि पश्चादपि यास्यति / तत इतरो वास्तव्यो न करिष्यती-ति / अथ इत्वरो यावत्कथिकश्च द्वावपि सलब्धिको तत्र यावत्कथिकः कार्यते / इतरोऽन्यस्य नियुज्यते विसृज्यते वा / अथवा इत्वरः स लब्धिकस्तत्र यावत्कथिको भण्यते / विश्रम्य तावत् वर्तितव्यम् / यावदेष इत्वरः सलब्धिकः करोति / पश्चात्त्वमेव करिष्यसि / अथ नेच्छति तर्हि स एव कार्यते। इतरस्त्वन्यस्मै दीयते / तस्य तत्रानिच्छायास विसृज्यते अथेत्वरोऽलब्धिको लब्धिमान् तत्र यावत्कथिक्रः कार्यते / इतर उपाध्यायादेः समर्प्यते / अथ तस्य तत्रा निच्छा तर्हि विसृज्यते / इह यदि वास्तव्यवैयावृत्यकरेणा ननुज्ञातो वैयावृत्यं कारयति / यदि वा नापृच्छया अन्यंवैयावृत्यकरं स्थापयति तदा तस्या-ऽचार्यस्य बहवो दोषास्तानेवाह // अणण्णुनाए लहुगा, अचियत्तमसाहजोग्ग दाणादी। निञ्जरं महती हु भवे, तवस्सिमाई ण करणे वी॥ वास्तव्यवैयावृत्यकरेणाननुज्ञायामुपलक्षणमेतत्तस्यानापृच्छायां वा यद्यागंतुकमित्वरं वैयावृत्ये स्थापयति / ततस्तस्य प्रायश्चित्तं लघुकाश्चत्वारोलघुमासाः / अन्ये ब्रुवते अनापृच्छायां मासलघु। अननुज्ञायां चतुर्लघु / अन्यचाननुज्ञायामनापृच्छायां वा वैया-वृत्यपदे अन्यस्येत्वरस्य स्थापने वास्तव्यस्य अवियत्त मप्रीति-रुपजायते / अप्रीत्या च कलहं कुर्यात् (असाहजोग्गदी) इति यानि दानादीनि दानश्रद्धादीनि कुलानि योग्यानि तान्याग-तुकवैयावृत्त्यकरस्य न साधयति / न कथयति तस्मात्स इत्वर आगंतुको वैयावृत्त्यकरः प्रज्ञाप्यते त्वतपस्या दीनां क्षपकादीनां वैयावृत्त्यं कुरु तेषामपि क्रियमाणे वैयावृत्त्ये महती निर्जरा // तदेवं वैयावृत्त्यद्वारं गतम्।।