________________ आउ 15 अमिधानराजेन्द्रः भाग 2 आउ तिपातादिकमुक्तमेव प्रवचने (भ.) "अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः / व्याधिप्रतिक्रिया तुल्या, विज्ञेया गुणदोषयोः // 1 // " तथा च गृहिणं प्रति जिनभवनकारणफल-मुक्तम्। "एतदिह भावयज्ञः, सद्गृहिणो जन्मफलमिदं परमम् / / अभ्युदयाविच्छित्त्या, नियमादपवर्गवीजामिति // 1 // तथा- "भन्नइ जिणपूयाए, कायवहो जइ वि होइ उ कहिं वि। तह वि तहिं परिसुद्धा, गिर्हाणि कूवाऽऽहरणजोगा।।१।। असदारंभपवत्ता, जंच गिही तेण तेसि | विन्नेया। तन्निवित्ति फल चिय, एसा परिभावणीयमिदं" // 2 // इति, दानाधिकारे तु श्रूयते हि द्विविधाः श्रमणोपासका:- संविग्नभाविता, लुब्धकदृष्टान्त- भाविताश्चेति / यथोक्तम्- "संविग्गभावियाणं, लोद्धयदिठंतभावियाणं च / मुत्तूण खेत्तकाले, भावं च कहिंति सुद्धत्थं // 1 // इति / तत्र लुब्धकदृष्टान्तभाविता यथा कथञ्चिद्ददति संविग्नभाविता-स्त्वौचित्येनेति। तच्चेदम्-"संथरणम्भि असुद्धं, दोण्ह वि गिण्हतंयाण हियं / आउरदिट्ठतेणं, तं चेय हियं असंथरणे" // 1 // इति / तथा- "नायगयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाण देसकाल-सद्धासक्कारजम्मजुयं" इत्यादि क्वचित् "पाणे अइवाइत्ता मुसं वइत्ता" इत्येवं भवति शब्दवा वाचना, तत्रापि स एवार्थः, क्त्वाप्रत्ययान्तता व्याख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रतिलम्भ्य अल्पायुष्टया कर्म बध्नन्नीति प्रक्रमः / शेषं तथैव। (स्था.) अथ वेहाप्रासुकदानमल्पायुष्कतायां मुख्य कारणम्, इतरे तु सहकारिकारणे इति व्याख्येयं प्राणातिपातनमृषावादनयोदनिविशेषणत्वात्, तथाहि- (भ.) प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा भोः साधो! स्वार्थसिद्धमिदम्भक्तादि कल्पनीयमकल्पनीयं वा न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः / इह च द्वयस्य विशेषणत्वेनैकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम् / गम्भीरार्थञ्चेदं सूत्रमता-ऽन्यथाऽपि भावनीयमिति / स्था०३ ठा.१ उ / भ०५ श०६ उ.। दीर्घायुष्कारणानि यथातिहिं ठाणेहिं जीवा दीहाउअत्ताए कम्मं पगरेंति, तंज, हाखो पाणे अइवाइत्ता भवइ, णो मुसंवइत्ता भवइ, तहा रूवं समणं वा माहणं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पमिलाभेत्ता भवइ, इओएहिं तिहिं ठाणेहिं जीवा दीहाउअत्ताए / कम्मं पगरेंति। (सूत्र-१२८)। (स्था.३ठा० 1 उ.) अल्पायुष्कताकारणान्युक्तानि, अधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह- 'तिहिं' इत्यादि, प्राग्वदवसेयं, नवरं 'दीहाउअत्ताए' त्ति-शुभदीर्घायुष्टय शुभदीर्घायुष्टया वेति प्रतिपत्तव्यम्। (स्था.) 'कहन्नमि' त्यादि, भवति हिजीवदयादिमतो दीर्घमायुयेतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्रा वक्तारो जीवदयादि पूर्व कृतमनेन तेनायं दीर्घायुः संवृत्तस्तथा सिद्धमेव वधादिबिरतेर्दीर्घमायुः (भ.) प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वात् / उक्तञ्च- "महव्वय अणुव्वएहिं, बालतवा कामनिज्जराए य। देवाउयं निबंधइ, सम्मचिट्ठी य जो जीवो" // 1 // तथा "पयईए तणुकसाओ, दाणरओ सीलसंयमाविहूणो।मज्जिमगुणेहिं जुत्तोमणुयाउयं बंधए जीवा" ||2|| देवमनुष्यायुषी च शुभे इति / तथा भगवत्यां दानमुद्धिश्योक्तम्'समणोवासयस्सणं भंते! तहारूवं समणं वा माहणं वा फासुएसणिज्जेणं असणं पाणं खाइमं साइमंपमिलामेमाणस्स किं कज्जइ, गोयमा! एगंतसो निज्जरा कज्जइ,णोत्से केइ पावे कम्मे कज्जइ'' ति। यञ्चनिर्जराकारणं तत् शुभदीघायुष्कारणतया न विरुद्ध महाव्रतवदिति।स्था०३ ठा० 1 उ० / अशुभदीर्घायुष्कारणानि यथातिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेंति? तं जहा-पाणे अइवाइत्ता भवइ, मुसंवइत्ता भवइ, तहारूवं समणं वा माहणं वा हीलेसा निंदेत्ता खिसेत्ता गरिहित्ता अवमाणित्ता अन्नयरेणं अमणुनेणं अपीइकारएणं असणं वा पाणं वा खाइम वा साइमं वा पडिलाभेत्ता भवइ / इचेएहिं तिहि ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरे ति। (सूत्र-१२५) अन्तरमायुषो दीर्घताकारणान्युक्तानि, तश्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्धताकारणान्याह- 'तिहिं इत्यादि- प्राग्वद्, नवरम् / अशुभदीर्घायुष्टायै इति नारकायुष्कायेति भावः। तथाहि-अशुभंचतत् पापप्रकृतिरूपत्वात् दीर्घ च तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वादुष्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वात् अशुभदीर्घ तदेवंभूतमायुर्जीवितं यस्मात्कर्मणास्तदशुभदीर्घायुस्तद्धावस्तत्ता तस्यै तया वेति प्राण न् प्राणिन इत्यर्थोऽपिपातयिता भवति मृषावादी च वक्ता भवति, तथा श्रमणब्राह्मणादीनां हीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना। हीलनातुजात्याधुट्टनतो निन्दनं मनसा खिसनं जनसमक्षं गर्हणं तत्समक्षम् अपमानन- मनभ्युत्थानादिभि: अन्यतरेणबहूनां मध्ये एकतरेण कृचित्त्वन्यतरेणेति न दृश्यते, अमनोज्ञेनस्वरूपतोऽशोभनेन कदन्नादिना अत एवाप्रीतिकारकेण भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव तत्फलत्वादार्यचन्दनाया इव / / आर्यचन्दनया हि कुल्माषा: सूर्पकोणकृता भगवते महावीराय पञ्चोदनोनषाण्मासिककक्षपणपारणके दत्तास्तदैव च तस्या लोहनिगडानि हेममयनूपुरौ सम्पन्नौ केशाः पूर्ववदेव जाता: पञ्चवर्णविविधरत्नराशिमिगृहं भृतं सेन्द्रदेवदानवनरनाय- कैरभिनन्दिता कालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति / इह च सूत्रे अशनादिप्रासुकाऽप्रासुकत्वादिनान विशेषितंहीलनादिकर्तुः प्रासुकादिधिशेषणस्य फलविशेष प्रत्यकारणत्वान्मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणात्वादिति। स्था०३ठा०१ऊ। (वीरस्य भगवत: पारणाकारणात् आर्यचन्दनया: कृतपुण्याहमित्यादिआर्यचन्दनाया: वृत्तम् 'अज्जचंदणा' शब्द प्रथमभागे गतम्) वाचनान्तरे तु-"अफासुएणं अणेसणिज्जेणं' ति-दृश्यते तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदीर्घायुकारणम्, अप्रासुकादानं तु विशेषित इत्युपदर्शयता "अ