SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ आयरिय 348 अभिधानराजेन्द्रः भाग 2 आयरिय ऽयोग्यता यथा // एगपक्खेियस्स भिक्खुस्स कप्यई इंतिरियं दिसंवा अणुदिसं वा धारित्तए वा जहावा तस्स गणस्स परियंसि वा ॥२४|व्य. सू. 3 जा एकपाक्षिकभिन्नपाक्षिकयोोग्याऽयोग्यता (चानुपालणाकप्प) शब्दे॥ | (25) लक्षणं मेढीभूतः॥ तत्र गणस्य बहुव्रतिनीसमुदायात्मकस्य प्रत्येकं परीक्षा कर्तुं न शक्यते अथाचार्ये च परीक्षिते प्रायोगणोऽपि परीक्षित एव मेढ्यादिसमानत्वेन तत्प्रवर्तकत्वादाचार्यस्य गणस्य च तदनुव- र्तित्वादित्यत: प्रथममाचार्य्यमेव परीक्षेतेत्याह।।। मेढी आलंबणं खंभ, दिष्टि जाणसुउत्तमं / / सूरी जंहोइ गच्छस्स तम्हां तं उ परिरकए |8| ध्याख्या ययस्मात्कारणात् सूरिः सदाचार्यो गच्छस्य गणस्य (मेवित्ति) मेदि:खले गोबंधस्थूणा तत्समानो भवति। यथा तया बद्धानि पशुवृंदानि मर्यादया प्रवर्तते तथाचार्यो मेढीबद्धो गच्छोऽपि मर्यादया प्रवर्तत इत्यर्थः। तथालंबनं हस्ताद्याधार- स्तत्समानः यथा हस्ताद्याधारो गर्तादौ पतज्जंतुंधारयति। तथा ऽचार्योपि भवगर्ते पतंतं गच्छं धारयतीत्यर्थः। तथा (खंभति) स्तंभ: स्थूणा अत्र नपुंसकत्वं प्राकृत्वादेव तत्समानः। यच्छा स्थंभ: प्रासादाधार: स्यात् तथाचार्योंपिगच्छप्रासादाधार: तथा (दिहित्ति) दृष्टिर्नेत्र तत्समानः यथाजतोर्नेत्रं शुभाशुभवस्तुप्रदर्शकं भवति तथा ऽऽचाय्योपि गच्छस्य भाविशुभाशुभप्रदेशक: स्यात् तथा (जाणं सूत्तमंति) यानं पानपात्रं सूत्तममतिप्रधानमच्छिद्रमित्यर्थः तत्समानो यथा अच्छिद्रयानपात्रं समुद्रतीरं नयति जंतून् तथाचार्योपिगच्छे भवति तस्मात् प्रथम तंतुत्तिनोरवकारार्थत्वात् तमेवाचार्य्यमेव परीक्षेत गच्छपरिक्षेच्छु: साधुरिति अनुष्टुप्छंद:। एवंचात्र ग्र॰ त्रयोधिकाराः सूचिताः तद्यया आचार्यस्वरूपाधिकारः 1 साधुस्वरूपाधिकारः 2 साध्वी स्वरूपाधिकारश्च 3 तथा प्रथममाचार्यस्वरूपाधिकारं निरुपयितुकाम: वैश्चिन्है: छद्मस्थ उन्मार्गप्रस्थितमाचार्या परीक्षेतेति प्रश्नयन्नाह / / भयवं कहिं लिंगेहिं, सूरि उम्मग्गपट्ठि॥ विआणिज्जाछ उमत्थे, मुणि! तमे निसामय / / 9 / / व्याख्या। हे भगवन्!परमैश्वर्यादिसमन्वित ! कैर्लिङ्गैश्चिन्है रुन्मार्गप्रस्थितसन्मार्गस्थितंसूरिमाचार्ये छाद्यते केवलज्ञानं केवल-दर्शनं चात्मनोऽनेनेति छद्म तत्र तिष्ठतीति छद्मस्थस्तं विजानीयात् परीक्षेतेति परप्रश्ने गुरुराह हे मुने! यश्चिन्हैराचार्यमुन्मार्गप्रस्थितं छद्मस्थ: परीक्षेत तन्मे मम कथय इतिशेष: (निसामयत्ति) त्वं निशामयाकर्णयेति अनुष्टप् छंदः।।९।। अथ वृत्तद्वयेनपूर्वोक्तशिष्यप्रश्नोत्तरमेवाहा। सच्छंदयारिंदुस्सीलं, आरंभेसु पवत्तयं / / पुढवाइपडिवद्धं, आउक्कायविहिंसर्ग ||10|| मुलुत्तरगुणब्भहूं, सामायारीविराहयं / / आदिनालोअणं निचं, विकहासु परायणं // 11|| अनयोर्व्याख्या।। स्वच्छंदेन स्वाभिप्रायेण न तु जिनाज्ञया चर तीति स्वच्छंदचारी तं तथा दुष्टं शीलमाचारो यस्यस दुश्शील स्तं तथारंभ: / पृथिव्याक्युपद्रवणानि उपलक्षणत्वात्संरभसमारंभावपि। तत्र संरंभः संकल्प: समारंभस्तु परितापकर: उत्तं च // संकप्पो संरंभो, परितावकरो भवे समारंभो // आरंभो उद्दवओ,सुद्धनयाणं तु सव्वेसिं ||3|| तत्र स्वान्ययोः प्रवर्तकस्तं तथा पीठकमासनं आदिशब्दात् फलकपट्टिकादयस्तत्र प्रतिबद्धः कारणं विनापि ऋतुबद्धकाले तत्परिभोजीत्यर्थः / / ग०१ अधि०॥ (26) परीक्षा आचार्य्यस्य॥ सुद्धस्सय पारिच्छा, खुड्यथेरेयतरुणखज्जूडे / / दोमादिमंडलीए, सुद्धमसुद्धे ततोपच्छा॥ शुद्धस्य परीक्षा कर्त्तव्या कस्मिन्विषये इत्यत आहा क्षुल्लकेस्च्छविरे तरुणे खज्जूडः स्वभावाद्वक्राचारः तस्मिंस्तथा- द्वयोरादिमंडल्यो: एताभि: परीक्षाभिर्यदि निवर्तितस्तत: शुद्धः इतरस्त्वशुद्धः शुद्धस्य च गणधरपदानुज्ञा कर्त्तव्या ना शुद्धस्य तत:शुद्धाशुद्धप्रतिपादनानंतरं चोदकं पृच्छा उपलक्षणमेतदाचा- र्यस्य प्रतिवचनं च वक्तव्यं एष द्वारगाथासंक्षेपार्छ:। सांप्रत- मेनामेव गाथां विवरीषु: प्रथमत: क्षुल्लकविषयं परीक्षाविधिमाहा। उचफलो अहखुडो, सउणिच्छावोपवासिउंदुक्खं / पुष्ठोवि होहिति न वा पलिमंथो सारवंतस्स / / तस्य द्रव्यभावपरिच्छेदोपेतस्य गणधरपदयोग्यता परीक्षणाय प्रथमत: क्षुल्लको दीयते। एवं द्विविधामपि शिक्षांत्वं ग्राहय ततः स एव मुक्तः सन् यदि चिंतयति यथा (अहत्ति) एष क्षुल्लक: उच्चं चिरकालभाविफलं यस्मात्स उच्चफलश्विरका लेनोपकारी तावता कालेन किमपि भविष्यतीति कोवेद तत: कमेनं शिक्षां ग्राहयिष्यति यदि वा शकुनिशावसिवावत्पोष्य: पोष्यतो पुन:पुनर्बुभुक्षाभावादिति भावः। अपि चपुष्टोऽपिसन्नेष मम भविष्यति वानवा को न जानाति अन्यचामुंधारयत: सारं कुर्वतो मम सूत्रस्य च महान्पलिमंथो व्याधातस्ततो नैतस्य मे शिक्षया प्रयोजनमेवं चिंतयन् योन ग्राहयति सोऽनर्हस्तद्विपरीतो ऽर्हस्ततो य: स्थविर एष प्रवचनोपग्रहकरो भविष्यति दृढदेहो वा यथा आचार्यरक्षित: पितेति कारणतो दीक्षितस्तिष्ठति स शिक्षकस्तस्य समर्प्यते एवं द्विविधामपि शिक्षा ग्राहयति तस्मिंस्तत्समर्पिते यदि स इदं चिंतयति॥ पुट्ठोवा स मरिसति, दुराणुवुत्तो न वेच्छपडियारो। सुत्तत्थे परिहाणी, थेरे बहुयं निरत्थं तु॥ एष प्रथमालिकादिदापनत: शिक्षाग्राहणतश्च पुष्टिकृतोऽप्याशु शीघ्र मरिष्यतिच शब्द: चिंतांतरसमुचये। यदिवा वृद्धः स्व-भावात् दुरनुवत्य दुःखेनानुवर्त्य तेन वा अत्र वृद्धशिक्षापने कश्चित् प्रतीकारः किमुक्त भवतिनास्माद्बद्धात् कश्चित् प्रत्युपकारोऽथवा वृद्धो वृद्धत्वादेव जडप्रज्ञश्च ततोस्य शिक्षणे मम सूत्रार्थ- परिहाणिस्तदेव स्थविरशिक्षा ग्रह्यमाणे बहुकनिर्रथक मिति य एनं चिंतयित्वा योन शिक्षा ग्राहयति सोऽनर्हस्तद्वि परितोऽर्ह इति तदनंतरं योऽसौ तरुणो मेधावी तं समर्प्य भण्यते यथा एष मंडलिपरिपाट्या आलापके दीयमाने सीदति तत स्त्वमेत-मप्याक्षेपेण पाठया तत: स इदं चिंतयति॥
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy