________________ आयरिय 345 अभिधानराजेन्द्रः भाग 2 आयरिय वायंतगनिप्फायग, चउरोभंगाउ पढमो। गन्भे तइओउ होइ, सुण्णो अण्णेण वा वाएइ / / वाचको निष्पादक इति पदद्वयसंयोगतश्चत्वारो भंगास्तद्यथा / वाचयत्यपि निष्पादयत्यपीति प्रथमः१वाचयतिन निष्पादयति द्वितीय: 2 न वाचयति निष्पादयति तृतीयः३न वाचयति न निष्पादयति चतुर्थः 4 अत्र सत्यपि पूर्वसमीहिते यः प्रथम- भंगवर्ती संस्थाप्यते नेतरो द्वितीयादिभंगवर्ती। तथाचाहा प्रथम- को ग्राह्य: द्वितीयभङ्गको न स्थाप्योऽनिष्पादकत्वात्। तृतीयस्तु शून्यो वाचनाया अभावे निष्पादकत्वायोगात्। यदि वा आत्मना न वाचयति अन्येन वाचयति। तदासोऽपि योग्यः। चतुर्भगिकस्तु सर्वथाऽनर्ह एव। सांप्रतमधिकृत एवार्थेऽन्यशिष्यद्वारमाह॥ असतीव अण्णसीसं,ठावेति गणम्मिजाव निम्मातो। एसोचेव अणरिहो, अहवा विइमो ससिस्सोवि॥ आचार्याः कालं कर्तुकामा आत्मीयाः शिष्याः सर्वेऽप्यनिर्माता इति तेषां मध्ये गणधरपदयोग्यो एकस्मिन्नप्यसति अन्यस्य शिष्यं प्रातीच्छिकं गणे स्थापयंति च यावन्मम शिष्यो निर्मातो निष्पन्नो भवति तावत्त्वं गणधरः / निर्माते सति त्वया गणधरपदं निक्षेप्तव्यं / यदि न निक्षिपति ततश्छेदः परिहार: सप्तरात्रं वा तप: प्रायश्चित्तम्। एष समीक्षितोऽप्यन) जातः / अथवाऽयं स्वशिष्योऽप्यनर्हस्तमेवाह। जो अणुमतो बहुणं, गणहरअवियतो दुस्समुकट्ठो। दोसा अणिक्खिवंते, सेसा दोसं च पाति। आचार्य:कालं कुर्वद्भिातो य एष मम शिष्य: सूत्र- तोऽर्थतश्च निर्मात एतस्मादयं बहुभिर्भागैर्गणधरगुणैरभ्यधिको भविष्यति। केवलमिदानीभनिर्मातस्ततो योऽसौ निर्मात: स आ- चार्यरुच्यते। यावदेनं त्वं निर्मापयसि। तावत्त्वं गणधरः / एत-स्मिंस्तु निर्मापिते त्वया गणधरपदं निक्षेप्तव्यम्।यत एष तव पाविहुभि गर्गच्छस्य प्रवचनस्य चोपग्रहकारी भविष्यति / तेन- तथा प्रतिपन्नम्। आचार्य: कालगत: सच तेन निर्मापितो जात: समस्तस्याऽपि संधस्य प्रीतिकरः ततोयस्तेन निर्मापितो जातोऽ- नुमतो बहूनां स गणधरः स्थापनीयो यस्त्ववियत्तोऽप्रीतकर: पूर्वस्थापित: सदुस्समुत्कृष्टइति वक्तव्यो निक्षिप गणधरपदमेवमुक्तो यदिन निक्षिपति तत स्तस्मिन्ननिक्षिपति दोषाश्छेदं परिहारं सप्तरात्रं वा तप: प्राप्नोतीति भावः। येऽपिच शेषास्तंभंजते तेऽपि दोषं प्राप्नुवन्ति छेदं परिहारं सप्तरात्रं वा तेऽपि प्राप्नुवंतीत्यर्थः। यदेतद्भणित-मेतत्प्रसंगागतमयं पुन: स्फुटसूत्रेण निपात:। अन्भुज्जयमेगयरं, ववसियकामंमि होइ सुत्तं तु। तेवेंति कुणसुएकं, गीयं पच्छा जहिच्छा ते॥ आचार्येण कोऽपि स्वशिष्य: समीहितो यथाऽयमाचार्यपद योग्य इति ततो गीतार्थाः संदिष्टा, एष सुमुत्कर्षयितव्य: सच कालगते आचार्ये ब्रूते। अहमभ्युद्यतविहारं जनकल्पादिक मभ्युद्यतमरणं वा प्रतिपत्स्ये तस्मिन्नभ्युद्यतमेकतरं विहारं मरणं / वाच्यवशात्तुमनसि भवति निपतित सूत्रम् / अत्थिया इत्थं अण्णे केइ समुक्कसणारिहे से समुक्कसियव्वे नत्थि याइं च केई अन्ने समुक्कसणारिहे सेचेव समुक्कसियव्वे। तस्मिन्नभ्युद्यतस्यैकतरं व्यवसातुकामे अस्ति चेदत्र गच्छेन्यः कश्चित्समुत्कर्षणार्हस्तर्हि स समुत्कर्षयितव्यो नास्ति चेदत्र कश्चिदन्य: समुत्कर्षणार्हस्तत: स एव समुत्कर्षयितव्यः। कथमिति चेदुच्यते। गीतार्था अभ्यर्थनपुरस्सरंब्रुवतो यूयं गणधरपदंपरिपालयता एकमस्माकंकंचन गीतं गीतार्थ कुरुत निर्मापयत तत: पश्चात्तस्मिन्निििपते ते भवतां यदिष्टं यत्प्रतिभासते तत्कुरुतेतिभावः। अत्रेच्छाद्वारावसरः। एवमुक्ते तेन गणधरपदं प्रतिपाद्य कश्चनाप्येको निम्मापितः। पश्चात्तस्य चित्तमजायता यथा अभ्युद्यतविहारात् गच्छपरिपालनं विपुलतरं निर्जराद्वारम् तस्मात्परिपालयाम्यहमेव गच्छमिति। तथाचाहा! निम्माऊण णेगइमंपि, मे निज्जरायदारं तु / निक्खिव निक्खिवामी, इत्थं इतरे उखुन्मत्ति॥ स गणधरपदे स्थापित एक कंचनापि निम्मप्येिदं चित्तम- कार्षीत् इदमपि गच्छपरिपालनं महत् निजराया द्वारं / एवं व्यवसिते तस्मिन् गच्छे गीतार्था बुवते निक्षिप गणधरपदं स प्राह / न निक्षिपामि किंन्त्विच्छामि गच्छं परिपालयितुमेवमुक्ते इतरे गच्छगीतार्थाः क्षुभ्यंति तेच क्षुभ्यंतोयब्रुवतै तदाह। दुस्समुक्कडं निक्खिव, भणंति गुरुगा अणुष्ठिहं तेय। एमेव अण्णे सीसे, निक्खिवणा गाहिते नवरं / / पूर्व तव नेप्सितंगणधारणं पश्चादिदानीं यद्यपि रुचिस्तथापि नत्वस्मभ्यं रोचसे दुःसमुत्कृष्टं खलु तव गणधरपदं। तस्मान्नि-क्षिपेति एवं भणति गच्छसाधुवर्गे प्रायश्चित्तं चत्वारो गुरुका: (अणुष्ठिहतेयमेवे) त्यादियोऽसौ प्रातीच्छिक: स्थापित: सचेत् यावदद्यापि न निर्मापयति कमपि शिष्य तावद्यदि गच्छसाधवो भाषते निक्षिपत्वं गणधरपदमिति तदा तेषां तथा भाषमाणानां प्रायश्चित्तं चत्वारो गुरुकाः। अथ तस्मिन्नन्यशिष्ये निर्मापयितुमिष्यमाणे अनुतिष्ठति अनिर्मापिते गणधर-पदनिक्षेपणं करोति तदा तस्न्निन्यशिष्ये अनुतिष्ठति गणधरत्वं निक्षिपतः प्रतिच्छिकस्य प्रायश्चित्तमेव चत्वारो गुरुका इत्यर्थः। यथा गीतार्थत्वेन गच्छसाधव: सेविष्यंते तन्निमित्तमापि तस्य प्रायश्चित्त नवरं केवलं तस्मिन्नन्यशिष्येग्राहिते निम्मापितेगणधरपदनिक्षेपणा कर्तव्या। नच तत्र तां कुर्वतस्तस्यच्छेद: परिहार: सप्तरात्रं वा तपः। गतमिछाद्वारम्॥ संप्रति यथा कल्पद्वारावसरस्तत्र ये गच्छसाधवस्ते स्वग- च्छसाधु प्रतिच्छिकं च पूर्वस्थापितं यथा कल्पेनाऽभ्युत्तिष्ठिति यथाकल्पानभ्युत्थानमेवाह॥ आवस्सगसुत्तत्थे, भत्ते आलोयणाउवष्ठाणे। पडिलेहा कितिकम्म, मत्तगसंथारगतिगं च // आवश्यकेक्रियमाणोयो विनयस्तस्य आचार्यस्य कर्तव्यस्तंचन कुर्वति सूत्रमर्थ वा तस्य समीपे न गृह्णते। (भत्तेति) आचार्य्यप्रायोग्यं तस्य भक्तं न प्रयच्छति / (आलोयणत्ति) तस्य पुरतो नालोचयंति (उवठ्ठाणत्ति) आचार्यवस्त्रकबलपात्रादिप्रत्यु- पेक्षणाय नोपतिष्ठते। नापि कृतिकर्म वंदनकमन्यद्वा कुर्वति नापि मात्रकत्रिकं तस्य ढोकयति तिस्रः संस्तारकभूमयस्ता अपिन प्रयच्छति। तेषामपि यथा कल्पमनभ्युत्तिष्ठतां प्रायश्चितं छेदः परिहार: सप्तरात्रं वा तप इति / व्य.२ खं०४ ऊ / / आचार्ये मृते तत् क्षणमेवान्य: स्थाप्यते। तथा च व्यवहारसूत्रं