________________ आणुपुव्वी 152 अभिधानराजेन्द्रः भाग२ आणुपुर्वी तद्यथेत्युपदर्शनार्थ:। 'संतपयगाहा'- सदर्थविषयं पदं सत्यपदं तस्य प्ररूपणं-प्रज्ञापनं सत्यपदप्ररूपणं तस्य भाव: सत्पद- प्ररूपणता सा प्रथमं कर्तव्या / इदमुक्तं भवति-इह स्तम्भ- कुम्भादीनि पदानि सदर्थविषयाणि दृश्यन्ते खरशृङ्गव्योम-कुसुमादीनि त्वसदर्थविषयाणि दृश्यन्ते तत्रानुपूर्व्यादिपदानि किं स्तम्भादिपदानीव सदर्थविषयाणि आहोस्वित् खर-विषाणादिपदवत् असदगर्थगोचराणि इत्येतत्प्रथरमं पर्यालोचयितव्यं, तथा आनुपूर्यादिपदाभिधेयद्रव्याणां प्रमाणं संख्यास्वरूपं प्ररूपणीयम् च: समुच्चये एवमन्यत्रापि तथा तेषामेव क्षेत्रं तदाधारस्वरूपं प्ररूपणीयं; कियति क्षेत्रे तानि भवन्तीति चिन्तनीयमित्यर्थः / तथा स्पर्शना च वक्तव्या; कियत्क्षेत्रं तानि स्पृशन्तीति चिन्तनीयमित्यर्थः / तथा कालश्च तस्थितिलक्षणो वक्तव्य: तथा अन्तरं-विवक्षितस्वभावपरित्यागे सति पुनस्तद्वावप्राप्तिविरहलक्षणं प्ररूपणीयं, तथा आनुपूर्वीद्रव्याणि शेषद्रव्याणां कतिभागे वर्तन्ते इत्यादिलक्षणो भागः प्ररूपणीयः तथा आनुपूर्व्यादिद्रव्याणि कस्मिन् भावे वर्तन्ते इत्येवंरूपो भाव: प्ररूपणीयः, तथा अल्पबहुत्वं चानुपूर्व्यादिद्रव्याणां द्रव्यार्थ-प्रदेशार्थोभयार्थताश्रयणेन परस्परं स्तोकबहुत्वचिन्तालक्षणं प्ररूपणीयम् एवकारोऽवधारणे, एतावत्प्रकार एवानुगम इति गाथासमासार्थः / विस्तरा (व्यासा) र्थं तु ग्रन्थकार: स्वयमेव विभणिषुराद्यावयवमधिकृत्याहनेगमववहाराणं आणुपुस्विदवाइं किं अस्थि णऽस्थि ? णियमा अत्थिानेगमववहाराणं अणाणुपुटिवदव्वाइं किं अत्थिणऽत्थि? नियमा अस्थि / नेगमववहाराणं अवत्तव्दगदव्वाइं किं अस्थि णऽस्थि, नियमा अत्थि। (सूत्र-८१) नैगमव्यवहारयोरानुपूर्वीशब्दाभिधेयानि द्रव्याणि व्यणुक - स्कन्धादीनि किं सन्ति: न इति (च) प्रश्न:, अत्रोत्तरं-नियमा' अस्थि' इति, एतदुक्तं भवति-नेदं खरशृङ्गादिवदानुपूर्वीपद-मसदर्थगोचरम्, अतो नियमात्सन्ति तदभिधेयानि द्रव्याणि तानि च त्र्यणुकस्कन्धीदीनि पूर्व दर्शितान्येव, एवमनानुपूर्व्यवक्तव्य-कपक्षद्वयेऽपि वाच्यम् / कृता सत्पदनरूपणा। अथ द्रव्यप्रमाणमभिधित्सुराहने गमववहाराणं आणुपु टिवदटवाइं किं संखिज्जाई असंखिज्जाइं अर्णताइं? नो संखिज्जाइं नो असंखिज्जाई, अणंताई, एवं अणाणुपुट्विदव्वाई, अवत्तव्यगदब्वाइंच अणंताई माणिअव्वाई। (सूत्र-८२) 'नेगमववहाराणं आणुपुग्विदव्वाइं किं संखेज्जाइमि' त्यादि, अयमत्र निवर्चनभावार्थ:- इहानुपूय॑नानुपूर्व्यवक्तव्यकद्रव्याणि प्रत्येकमनन्तान्ये कैकस्मिन्नप्याकाशप्रदेशे प्राप्यन्ते किं पुनः सर्वलो के, अत: संखेयासंखेयप्रकारद्वयनिषेधेन त्रिष्वपि स्थाने- ध्वानन्त्यमेव वाच्यमिति। न च वक्तव्य कथमसंख्येये लोके अनन्तानि द्रव्याणि तिष्ठन्ति ? अचिन्त्यत्वात, पुद्गलपरिणा- मस्य, शक्तिदृश्यते चैकगृहान्तवाकाशप्रदेशेष्वेक प्रदीपप्रभापरमाणुव्याप्तेष्वप्यनेकाऽपरप्रदीपप्रभापरमाणूनां तत्रैवावस्थानं, नचाऽक्षिदृष्टेऽप्यर्थेऽनुपपत्ति: अतिप्रसङ्गादिति। अलं प्रपञ्चेन। इदानी क्षेत्रद्वार मुच्यतेनेगमववहाराणं आणुपुटिवदव्वाइं लोअस्स किं संखिज्जइभागे होज्जा, असंखिज्जइभागे होज्जा संखेज्जेसु भागेसु होज्जा असंखेज्जेसु भागेसु होज्जा सव्वलोए होज्जा ? एगंदव्वं पडुच संखेज्जइ भागे वा होज्जा असंखिज्जइ भागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा असंखिज्जेसु भागेसु वा होज्जा सव्वलोए वा होज्जा, णाणादव्वाइं पडुच निअमा सव्वलोए होज्जा / नेगमववहा-राणं अणाणुपुस्विदध्वाई किं लोअस्स किं संखिज्जइभागे होज्जा जाव सवलोए वा होज्जा ? एग दवं पडुब नो संखेज्जइभागे होज्जा, असंखिज्जइभागे होज्जा, नो संखेज्जेसु भागेसु होज्जा, नो असंखेज्जेसु भागेसु होज्जा, नो सटवलोए होज्जा, णाणादवाइं पडु च निअमा सटवलोए होज्जा, एवं अवत्तव्वगदप्वाइं माणिअव्वाई। (सूत्र-८३) आनुपूर्वीद्रव्याणि किंलोकस्यैकस्मिन संख्याततमे भागे'होज्ज' ति। आर्षत्वात् भवन्ति अवगाहन्त इति यावत् / यदि वाएकस्मिन्नसंख्याततमे भागे भवन्ति उत बहुषु संख्येयेषु भागेषु भवन्ति आहोश्चिद्वहुष्वसंख्येयेषु भागेषु भवन्ति अथ सर्वलोके भवन्तीति पञ्च प्रश्नस्थानान्यत्र निर्वचनसूत्रस्येयं भावना-इहानुपूर्वीद्रव्याणि त्र्यणुकस्कन्धादीन्यनन्ताणुस्कन्ध पर्यवसनान्युक्तानितत्रच सामान्यत एकं द्रव्यमाश्रित्य तथाविधपरिणामवैचित्र्यात् किंचिल्लोकस्यैकस्मिन् संख्या-ततमे भागे भवित एकं तत्संख्यातभागमवगाह्य तिष्ठतीत्यर्थः अन्यत्तु तदसंख्येयंभागमवगाहते, अपरस्तु-बहुस्तदसंख्येयान् भागानवगाह्य वर्तते, अन्यच्च बहून् तदसंख्येयभागानवगाह्य तिष्ठतीति, 'सव्वलोए वा होज्ज त्ति' इहानन्तानन्तपरमाणु-प्रचयनिष्पन्नं प्रज्ञापनादिप्रसिद्धाचित्तममहास्कन्धलक्षण-मानुपूर्वीद्रव्यं समयमेक सकललोकावगाहि प्रतिपत्तव्यमिति / कथं पुनरयमचित्तमहास्कन्धः सकललोकावगाही स्याद्? उच्यते-समुद्धातवर्तिक्वलिवत्-तथाहिलोकमध्यव्यव-स्थितोऽसौ प्रथमसमये तिर्यगसंख्यातयोजनविस्तरं संख्यातयोजनविस्तरं वाऊर्ध्वमधस्तु चतुर्दशरज्वायतं विश्रसापरिणामेन वृत्तं दण्डं करोति द्वितीये कपाटम्, तृतीये मन्थानं, चतुर्थे लोकव्याप्ति प्रतिपद्यते। पञ्चमे अन्तराणि संहरति षष्ठे मन्थाने सप्तमे कपाटमष्टमे तु दण्ड संहृत्य खण्डशो भिद्यत इत्येके, अन्येत्यन्यथापि व्याचक्षते; तत्तु विशेषावश्यकादवसेयमिति'वा' शब्द: समुच्चये एवं यथासंभवमन्यत्रापि। 'नाणा दव्याई पड्डचे त्यादिनानाद्रव्याण्यानुपूर्वीपरिणामवन्ति प्रतीत्य कृत्य वा; अधि-कृत्येत्यर्थः, नियमात् नियमेन सर्वलोके भवन्ति, न संख्येयादिभागेषु यतः सर्वलोकाकाशस्य स प्रदेशोऽपि नास्ति यत्र सूक्ष्मपरिणामवन्त्यनन्तान्यानुपूर्वीद्रव्याणि न सन्तीति अनानुपूर्व्यवक्तव्यकद्रव्येषु त्वेकं द्रव्यमाश्रित्य लोकस्याऽ