________________ आणुपुव्वी 149 अमिधानराजेन्द्रः भाग 2 आणुपुव्वी शनता। भङ्गसमुत्कीर्तने भङ्गकविषयं सूत्रमेव केवलमुच्चार-णीयम, भङ्गोपदर्शने तुतदेव स्वविषयभूतेनार्थेन सहोचार-यिव्यमिति विशेषः। तथा तेषामेवानुपूर्खादिद्रव्याणां स्वस्थान परस्थानान्तरभावचि न्तनप्रकार: समवतारः। तथा तेषामेव आनुपादिद्रव्याणां सत्पदप्ररूपणादिभिरनुयोगद्वारैरनुगमन- विचारणमनुगमः / तत्राऽऽद्यभेदं विवरीषुराहसे किं तं नेगमववहाराणं अट्ठपयपरूवणया? नेगमववहाराणं अठ्ठपयपरूवणया तिपएसिए आणुपुथ्वी, चउप्पएसिए आणुपुथ्वी जाव दसपएसिए आणुपुटवी, संखेज्जपएसिए आणुपुथ्वी, असंखिज्जपएसिए आणुपुटवी, अणंतपएसिए आणुपुथ्वी, परमाणुपोग्गले अणाणुपुथ्वी, दुपएसिए अवत्तव्वए, तिपएसिआ आणुपुथ्वीओ, जाव अणंतपएसिआओ आणुपुटवीओ, परमाणुपोग्गला अणा-णुपुव्वीओ, दुपएसिआई अवत्तव्वयाई सेत्तं गमववहाराणं अट्ठपयपरूवणया। (सूत्र-७४) अथ केयं नैगम- व्यवहारयोः सम्मता अर्थपदप्ररूपणता ? इति / अत्रोत्तरमाह / 'नेगमववहाराणमि' त्यादि, तत्र त्रयः प्रदेशाः परमाणुत्रयलक्षणा यत्र स्कन्धेसा त्र्यणुकानुपूर्वीत्युच्यते, एवं यावदनन्ता अणयो यत्र स: अनन्ताणुक: सोऽप्यानुपूर्वीत्युच्यते। 'परमाणुपोगले' त्ति- एक: परमाणु: परमाण्वन्त- रासंसक्तोऽनानुपूर्वीत्यभिधीयते / द्वौ प्रदेशौ यत्र स द्विप्रदेशिक: स्कन्धोऽवक्तव्यक मित्याख्यायते बहवस्त्रिप्रदेशिकादयः स्कन्धा: आनुपूर्यो, बहवश्वैकाकिपरमाणवोऽनानुपूर्व्यः, बहूनिच व्यणुकस्कन्धद्रव्याण्यवक्तव्यकानि। आनुपूर्व्या प्रकान्ता-यामनानुपूर्व्यवक्तव्यकयो: प्ररूपणमसङ्गतमिति चेत्, न, तत्प्रतिपक्षत्वात्तयोरपि प्ररूपणीयत्वात्, प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थः / इहानुपूर्वी | अनुपरिपाटिरिति पूर्वमुक्तं सा च यत्रैयादिमध्यान्तलक्षण: संपूर्णो गणनानुक्रमोऽस्ति तत्रैवोपपद्यते; नान्यत्र, एतच त्रिप्रदेशिका- | दिस्कन्धेष्वेव। तथा हि- "यस्मात्परमस्ति न पूर्व स आदिः, यस्मात् पूर्वमस्ति न परं सोऽन्तः, तयोश्चान्तरं मध्यमुच्यते,"अयं च संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ; तस्यैकद्रव्यत्वेनाऽऽदिमध्यान्तव्यवहाराभावाद्, अत: एवाय-मनानुपूर्वीत्वेनोक्त:, नापि व्यणुकस्कन्धः, तत्रापि मध्याभावेन संपूर्णगणनानुक्रमाऽभावाद्, अत्राऽऽह- ननु पूर्वस्यानु- पश्चादनुपूर्वं तस्य भाव आनुपूर्वीति पूर्व व्याख्यातम्, एतच्च व्यणुकस्कन्धेऽपि घटत एव परमाणुद्वयस्यापि परस्परापेक्षयापूर्वपश्चाद्भावस्य विद्यमानत्वात्तत: संपूर्णगणनानुक्रमाभावेऽपि कस्मादय-मप्यानुपूर्वी न भवति ? नैतदेवं, यतो यथा मेदिके क्वचित्पदार्थेमध्ये अवधौ व्यवस्थापिते लोकेपूर्वादिविभाग: प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्वादप्येवं न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्यासिद्धत्वात्, यद्येवं परमाणुवत् व्यणुकस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मान्नोच्यते सत्यं, किंतुपरस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्य-भिधातुमशक्योऽसौ तस्मादानुपूर्यनानुपूर्वीप्रकाराभ्यां वक्तुमशक्यत्वादवक्तव्यकमेव व्यणुकस्कन्धः, तस्माद्यव- स्थितमिदम् आदिमध्यान्तभावेनाऽवधिभूतं मध्यवर्त्तिनमपे-क्ष्याऽसांकर्येण मुख्यस्य पूर्वपश्चाद्धावस्य सद्भावात् त्रिप्रदे- शादिस्कन्ध: एवानुपूर्वी, परमाणुस्तूक्तयुक्त्या अनानुपूर्वी व्यणुकोऽवक्तव्यकः, इत्येवं संज्ञासंज्ञिकसंबन्धकथनरूपा अर्थपदप्ररूपणा कृता भवति / यद्येवं त्रिप्रदेशिका आनुपूर्व्य इत्यादि बहुवचननिर्देश: किमर्थः? एकत्वमात्रेणैव संज्ञासंज्ञि-संबन्धकथनस्य सिद्धत्वात्, सत्यम्, किंत्वानुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थो नैगमव्यवहारयोरित्थंभूताभ्यु- पगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः / अत्राह- नन्वनानु- पूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तव्यकद्रव्यं परमाणुद्वयेन आनुपूर्वीद्रव्यं तुजघन्यतोऽपिपरमाणुत्रयेण इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततः अवक्तव्यकम् ततश्चानुपूर्वीत्येवं निर्देशो युज्यते, पश्चानुपूर्वीक्रमाश्रयणे तु व्यत्ययेन युक्तस्तत्कथं क्रमद्वयमुल्लङ्यान्यथा निर्देश: कृत: ? सत्यमेतत्, किंत्वनानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनार्थ: / यदि वात्र्यणुकचतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यक- द्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वक्ष्यते, ततश्चेत्थं द्रव्यहान्या पूर्वानुपूर्वीक्रमनिर्देश एवायमिति। अलं विस्तरेण। 'सेत्तमि' त्यादि निगमनम्। एआए णं नेगमववहाराणं अठ्ठपयपरूवणयाए किं पओअणं? एआएणं नेगमववहाराणं अट्ठपयपरूवणयाए भंगसमुक्कित्तणया कज्जइ। (सूत्र-७५) 'एताए णमि' त्यादि, एतया अर्थपदप्ररूपणतया किं प्रयोजन-मिति, अत्राऽऽह-एतया अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियते, इदमुक्त भवति- अर्थपदप्ररूपणतायां संज्ञासंज्ञिव्यवहारो निरूपितस्तस्मिंश्व सत्येवं भङ्गका: समुत्कीर्त- यितुं शक्यन्ते, नाऽन्यथा, संज्ञामन्तरेण निर्विषयाणां भङ्गानां प्ररूपयि-तुमशक्यत्वात् तस्माद्युक्तमुक्तम् एतया अर्थपदप्ररूपणतया भङ्गसमुत्कीर्तना क्रियते इति। तामेव भङ्गसमुत्कीर्तनां निरूपयितुमाहसे किं तं नेगमववहाराणं मंगसमुक्कित्तणया ? नेगमववहाराणं मंगसमुक्तित्तणया-अत्थि आनुपूवीर, अत्थि अणाणुपुथ्वीर, अत्थि अश्वत्तध्वए 3, अत्थि आणुपुथ्वीओ 4, अत्थि अणाणुपुथ्वीओ५, अत्थि अव्वत्तव्वयाइं६, इकसंयोगी छ भंगा। द्विकसंयोगीभंगा- अहवा-अत्थि आणुपुर्वी अ अणाणुपुथ्वी अ 1, अहवा-अस्थि आणुपुथ्वी अअणाणुपुथ्वीओ अ२, अहवाअत्थि आणुपुटवीओ अ अणाणुपुर्वी अ३, अहवा अत्थि आणुपुटवीओ अ अणाणुपुटवीओ अ 4, अहवा अस्थि आणुपुटवी अ अव्वत्तव्वए अ५, अहवा अस्थि आणुपुटवी अ अव्वत्तव्वयाइंच, अहवा-अत्थि आणुपुथ्वीओ अ अव्वत्तव्वए अ७, अहवा-अस्थि आणुपुटवीओ अ अवत्तव्वाई च८ अहवा अस्थि अणाणुपुटवी अ अवत्तए अ९, अहवा-अत्थि अणाणु