________________ उस्सप्पिणी 1168 - अभिधानराजेन्द्रः - भाग 2 उस्सप्पिणी वेल्लादिषु तिक्तः चणकादिषु रूक्षः स्पर्शः सुवर्णादिषु गुरुः क्रकचादिषु खरः इत्यादयोऽशुभवर्णादयः कथं संभवेयुरित्युच्यते अशुभपरिणामा अप्येते अनुकूलवेद्यतया शुभा एव यथा मरिचादिगतः कटु करसादिः प्रतिकूलवेद्यतया शुभा अप्यशुभा एव यथा कुष्टादिगतः स्वेतवर्णादिरिति / अथ तृतीयमेघवक्तव्यमाह" तंसि इत्यादि "तस्मिन् क्षीरमेघे सप्तरात्रं निपतिते सति अत्रान्तरे घृतवत् स्निग्धो मेघो घृतमेघो नाम्ना महामेघः प्रादुर्भविष्यतीत्यादि सर्व प्राग्वत्। अथ स प्रादुर्भूतः किं करिष्यतीत्याह (तएणमित्यादि) सर्वं प्राग्वत् नवरं यो घृतमेघो भरतभूमेः स्नेहभावं स्निग्धतां जन-यिष्यतीति। अथ चतुर्थमेघवक्तव्यमाह" तंसि इत्यादि " तस्मिश्च घृतमेवे सप्तरात्रं निपतिते सति अत्र प्रस्तावे अमृतमेघो यथार्थनामा महामेघः प्रादुर्भविष्यति यो वर्षिष्यति इति पर्यन्तं पूर्ववत्। यो मेघो भरते वर्षे वृक्षा गुच्छा गुल्मा लता वल्ल्यः तृणानि प्रतीतानि पवजा इक्ष्वादयः हरितानि दूर्वादीनि औषध्यः शाल्वादयः प्रवाला पल्ल-वाः अड्कुराःशाल्यादिवीजसूचयः इत्यादीन् तृणवनस्पतिकायिकान् बादरवनस्पतिकायिकान् जनयिष्यतीति / अथ पञ्चममेघस्वरूपवक्तव्यमाह" तंसि च णमित्यादि " व्यक्तं परं रसजनको मेघो रसमेघः यो रसमेघस्तेषाममृतमेधोत्पन्नानां बहूनां वृक्षाद्य कुरान्तानां वनस्पतीनां तिक्तो निम्बादिगतः कटु को मरिचादिगतः कषायो विभीतकामलकादिगतः अम्लोऽम्लकाद्याश्रितः मधुरः शर्कराद्याश्रितः एतान् पञ्चविधान् रसविशेषान् जनयिष्यति / लवणरसस्य मधुरादिसंसर्गत्वादेतदभेदेन विवक्षणात् संभाव्यते तच तत्र माधुर्यादिसंसर्गः सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोत्पत्तेः तेन पृथग् निर्देशः / एषां च पञ्चानां मेघानां क्रमेणेदं प्रयोजनसूत्रमुक्त मपि स्पष्टीकरणाय पुनर्लिख्यते / आद्यस्य भरतभूमेदाहोपशाः द्वितीयस्य तस्या एव शुभवर्णगन्धादिजनकत्वं तृतीयस्य तस्या एव स्निग्धताजनकत्वम्। न चात्र क्षीरमेघेनैव शुभवर्णगन्धरसस्पर्शसंपत्तौ भूमिस्निग्धतासंपत्तिरिति वाच्यं स्निग्धताधिक्यसंपादकत्वात्तस्य न हि यादृशी घृते स्निग्धता तादृशी क्षीरे दृश्यत इत्यनुभव एवात्र साक्षी। चतुर्थस्य तस्यां वनस्पतिजनकत्वं पञ्चमस्य वनस्पतिषु स्वस्वयोग्यरसविशेषजनकत्वं यद्यप्यमृतमेघतो वनस्प-तिसंभवे वर्णादिसंपत्तौ तत्सहचारित्वात् रसस्य संपत्तिस्तस्मादेव युक्तिमती तथाऽपि स्वस्वयोग्यरसविशेषान् संपादयितुं रसमेघएव प्रभुरिति तदाच यादृशं भरतंतादृशं तथा चाह। 'तएणं भरहे वासे' इत्यादितत उक्तस्वरूपपञ्चमेघवर्षणानन्तरंणमिति पूर्ववत्। भरतं वर्ष भविष्यति कीदृशमित्याह / प्ररूढा उद्गता वृक्षा गुच्छा गुल्मा लता वल्ल्यस्तृणानिपजा हरितौषधयश्च यत्त तत्तथा! अत्रसमासे कप्रत्ययः एतेनवनस्पतिसत्ताऽभिहिता। उपचितानि पुष्टिमुपगतानित्वक्पत्रप्रवालपल्लवाड्कुरपुष्पफलानि समुदितानि सम्यक् प्रकारेण उदयं प्राप्तानि यत्र तत्तथा तान्तस्य परनिपातः प्राकृतत्वात् / एतेन वनस्पतिषु पुष्पफलान्ता रीतिर्दर्शिता / अत एव सुखोपभोग्यं सुखेनासेवनीयं भविष्यति अत्र वाक्यान्तर-योजनार्थमुपात्तस्य भविष्यति पदस्य न पौनरुक्त्यं भावनीय-मिति। अथ तत्कालीना मनुजास्तादृशं भरतं दृष्ट्वा यत् करिष्यन्ति तदाह। तए ण ते मणुआ भरहं वासं परूढरुक्खगुच्छगुम्मलयवल्लि- | तणपटवयहरिअओसहिए उवचिअतयपतपवालपल्लवंकुरपुप्फफलसमुइअं सुहोवयोगं जायं चावि पासिहिंति पासित्ता विलेहिं जो णिठ्ठइस्संति णिट्ठाइत्ता हट्ठतुट्ठा अण्णमण्णं सद्दाविस्संति सहाविस्संतित्ता एवं वदिस्संति जातं णं देवाणुप्पिआ भरहे वासेपरूठरुक्खगुच्छमुम्मलयवल्लितणपव्वयहरिअजाव सुहोवभोगं जेणं देवाणुप्पिया अम्हं केइ अज्जप्पमिइं असुभं कुणिमं आहारिस्सइसे णं अणेगाहिं छायाहिं वजणिज्जे तिकट्ट संठिइंठवेस्संति ठवेस्संतित्ता भरहे वासे सुहं सुहेण अभिरममाणा अभिरममाणा विहरिस्संति॥ 'तएणमित्यादि' ततस्ते मनुजा भरतवर्ष यावत् सुखोपभोग्यं चापि द्रक्ष्यन्ति दृष्ट्वा विलोक्य निर्धाविष्यन्ति निर्गमिष्यन्ति नि-(व्य हृष्टा आनन्दितास्तुष्टाः सन्तोषमुपगताः पश्चात्कर्मधारयः / अन्योन्यं शब्दायिष्यन्ति शब्दायित्वा च एवं वदिष्यन्तीति / अथ ते किं वदिष्यन्तीत्याह।"जातंणमित्यादि"जातं भो! देवानु-प्रिया! भरतं वर्ष प्ररूढवृक्षं यावत्सुखोपभोग्यं तस्माद्भो ! देवानु-प्रिया ! अस्माकमस्मजातीयानां कश्चिदद्य प्रभृति अशुभं कुणिमं मांसमाहारमाहारयिष्यति स पुरुषोऽनेकाभिश्छायाभिः इत्थं भावे तृतीया सहभोजनादिपङ्क्तिनिषण्णा याश्छायाः शरीरसंबन्धिन्यस्ताभिर्वर्जनीयः / अयमर्थः आस्तां तेषामस्पृश्यानां शरीरस्पर्शः तच्छरीरच्छायास्पर्शोऽपि वर्जनीयः क्वचिद्वज्जे ' इति सूत्रपाठे तुवा वर्जनीय इत्यर्थ इति कृत्वा संस्थितिं मर्यादां स्थापयिष्यन्ति स्थापयित्वा च भरतवर्षे सुखं सुखेनाभिरममाणा अभिरममाणा सुखेन क्रीडन्तः क्रीडन्तो विहरिष्यन्ति प्रवतिष्यन्त इति।। अथ भरतभूमिस्वरूपं पृच्छति। से णं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइगोयमा! बहुसमरमणिज्जे भूमिभागे भविस्सइ जाव कत्तिमेहिं चेव अकत्तिमेहिं चेव / तासे णं भंते ! समाए मणुआणं केरिसए आयारभावपडो आरे भविस्सइ गोअमा ! तेसिणं मणुआणं छविहे संघयणे छविहे संठाणे बहूईओ रयणीओ उड्डं उच्चत्तेणं जहण्णेणं अतो मुहुत्तं उक्कासेणं साइरेगं वाससयं आउअंपालेहिंति पालेहितित्ता अप्पेगइआ णिरयगामी जाव अप्पेगइआ देवगामी ण सिझंति। 'तीसे णमित्यादि 'सर्व पूर्ववत् ननु कृत्रिममण्यादिकरणं तदानीतनमनुजानामसंभवि शिल्पोपदेशकाचार्याभावादुच्यते द्वितीयारे पुरादिनिवेशराजनीतिव्यवस्थादिकृजातिस्मारकादि पुरुषविशेषद्वारा वा क्षेत्राधिष्ठायकदेवप्रयोगेण वा कालानुभावजनितनैपुण्येन वा तस्य सुसंभवत्वात् कथमन्यथाऽत्रैव ग्रन्थे प्रस्तुतारकमाश्रित्य पुष्करसंवर्तकादिपञ्चमहामेघवृष्ट्यनन्तरं वृक्षादिभिरौषध्यादिभिश्च भारायां संजातायां भरतभूम्यां तत्कालानमनुजा विलेभ्यो निर्गत्य मांसादिभक्षणनियममर्यादां विधास्यन्ति तल्लोपकं चपङ्क्तेर्बहिः करिष्यन्तीत्यर्थाभिधायकं प्रागुक्तं सूत्रं संगच्छत इति। अथ मनुजस्वरूपमाह / 'तीसेणमित्यादि सर्वं अवसर्पिणीदुष्षमारकमनुजस्वरूपवद्भावनीयं नवरं (सिद्धिं ति) सकलकर्मक्षयलक्षणां सिद्धिं न प्राप्नुवन्ति चरणधर्मप्रवृत्त्यभावात् / अत्र भविष्यन्निर्देशप्राप्तेर्वर्तमाननिर्देशः पू