________________ उस्सप्पिणी ११९७-अभिधानराजेन्द्रः - भाग 2 उस्सप्पिणी नात् इदमुक्तं भवति अवसर्पिण्यादौ महाकाले प्रथमतः प्रवर्तमाने सर्वेऽपि तदवान्तरभूताः कालविशेषाः प्रथमत एव युगपत् प्रवर्तन्ते तदनु स्वस्वप्रमाणसमाप्तौ समाप्नुवन्ति तथैव पुनः प्रवर्तन्ते पुनः परिसमाप्नुवन्ति यावन्महाकालपरिसमाप्तिरिति / यद्यपि ग्रन्थान्तरे ऋतोराषाढादित्वेन कथनादुत्सप्पिण्याश्च श्रावणादित्वे अस्य प्रथमसमयो न संगच्छते ऋत्वर्द्धस्य गतत्वात् तथापि प्रावृट् श्रावणादिवर्षारात्रोऽश्वयुजादिः शरन्मार्गशीर्षादिर्हमन्ता माघादिर्वसन्तश्चैत्रादिग्रीष्मो ज्येष्ठादिर्भगवतीवृत्तिवचनात् श्रावणादित्वपक्षाश्रय-णेन समाधेयमिति न दोषः / किं चेदं सूत्रं गम्भीरग्रन्थान्तरे च व्यक्तानुपलभ्यमानभावार्थं कण्ठेनान्यथाप्यागमाविरोधेन मध्यस्थैर्बहुश्रुतैः परिभावनीयमिति। अथात्र कालस्वरूपं पृच्छति" तीसेणमित्यादि" सर्वं सुगमं नवरं दुष्यमदुष्षमायाः अवसर्पिणीषष्ठारकस्य वेष्टको वर्णको नेतव्यः प्रापणीयस्तन्मानत्वादस्याःगतः उत्सर्पिण्याः प्रथमोऽरः अथ द्वितीयारकस्वरूपं वर्णयति। तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीइक्कते अणंतेहिं वण्णपज्जवेहिं जाव अणंतगुणपरिवुड्डीए परिवुड्डेमाणे परिवुड्डमाणे एत्थ णं दूसमा णामं समा काले पडिवजिस्सइ समणाउसो॥ तीसेणमित्यादि सर्व सुगर्म नवरमुत्सर्पिणीद्वितीयारक इत्यर्थः अथाऽवसर्पिणीदुष्षमातोऽस्या विशेषमाह। ते णं कालेणं ते णं समए णं पुक्खलसंवट्टए णाम महामेहे पाउन्भविस्सइ भरहप्पमाणमित्ते आयामेणं तदणुरूवं च णं विक्खंभबाहल्लेणं तएणं से पुक्खले संवट्टए महामेहे खिप्पामेव पतणतणाइस्सइ खिप्पामे व पतणतणाइत्ता खिप्पामेव पविजुआइस्सइ खिप्पामेव पविजुआइत्ता खिप्पामेव जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं उघमेघं सत्तरत्तं वासं वासिस्सइजेणं भरहस्स वासभूमिभागं इंगालभूअं मुम्मुरभूअं छारीअभूवं तत्तकवेल्लुगभूअं तत्तसमजोइभूतं णिव्वाविस्सइ तंसि च णं पुक्खलसंवट्टगंसि महामेहंसि सत्तरत्तं णिवतितंसि समाणंसि एत्थ णं खीरमेहे णामं महामेहे पाउन्भविस्सइ भरहप्पमाणमेत्ते आयामेणं तदणुरूवं च ण विक्खंभवाहल्लेणं तएणं से खीरमेहणामं महामेहे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुसलमुट्ठिजाव सत्तरत्तं वासं वासिस्सइ। जे णं भरहेवासस्स भूमीएवण्णं गंधं रसं फासं च जणइस्सइतंसिच णं खीरमेहंसि सत्तरत्तणिवतितं समाणंसि इत्थणं धयमेहे णामं महामेहे पउन्मविस्सइ / भरहप्पमाणमेते आयामेणं तदणुरूवं च णं विक्खंभबाहल्लेणं तए णं सेघयमेहमहामेहे खिप्पामेव पतणतणाइस्सइजाव वासं वासिस्सइजेणं भरहस्सवासस्स भूमीए सिणेह भावं जणइस्सइ तंसि च णं घयमेहसि सत्तरत्ता णिवतितंसि समाणं सि एत्थ णं अयमे हे णामं महामे हे पाउन्भविस्सइभरहप्पमाणमित्ते आयामेव जाव वासंवासिस्सइ भरहे वासे रुक्खगुच्छगुम्मलयवल्लितणपटवयहरितग ओसहिपवालंकुरमाईए तस्स वणप्फइकाइए जणइस्सइ तंसि चणं अमयमेहंसि सत्तरत्तं णिवत्तितंसिसमाणंसि एत्थणं रसमेहे णामं महामेहे पाउब्मवि-स्सइ। भरहप्पमाणमित्ते आयामेणं जाव वासंवासिस्सइजेणं तेसिंबहूणं रुक्खगुच्छगुम्मलयवल्लितणपव्वयहरितओसहिपवालंकुरमादीणं तित्तकडुअकसायविलमहुरे पंचविहे रसविसेसेजणइस्सइतएणं भरहे वासे भविस्सइ परूढरुक्खगुच्छगुम्मलयावल्लीतणपटवयहरिअओसहिए उपचिअतयपत्तपवालंकु रपुप्फफलसमुइए सुहोवभोगे आविभविस्सइ। 'तेणमित्यादि' तस्मिन् काले उत्सर्पिण्यां द्वितीयारकलक्षणे तस्मिन् समये तस्यैव प्रथमसमये पुष्कलं सर्वमशुभानुभावरूपं भरतभूरौक्ष्यदाहिकं प्रशस्तोदकेन संवर्त्तयति नाशयतीतिपुष्कलसंवर्तकः स च पर्यन्यप्रभृतिमेघत्रयापेक्षया महान मेघो दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावकत्वात् महामेघः प्रादुर्भविष्यति प्रकटीभविष्यति भरतक्षेत्रप्रमाणेन साधिकैकसप्ततिचतुःशताधिकचतुर्दशयोजनसहरनरूपेण मात्रा प्रमाणं यस्य स तथा केनायामेन दीर्घभावेन / अयं भावः पूर्वसमुद्रादारभ्य पश्चिमसमुद्रं यावत् वादलकं व्याप्तं भविष्यतीत्यर्थः ततनुरूपश्च तस्य भरतक्षेत्रस्याऽनुरूपः सदृशः सूत्रे च लिङ्गव्यत्ययः प्राकृतत्वात् क्रियाविशेषणं वा केनेत्याह विष्कम्भबाहल्येन अत्र समाहारद्वन्द्ववशादेकवद्भावः कोऽर्थः यावान् व्यासो भरतक्षेत्रस्य इषुस्थाने पञ्चशतयोजनानिषड्विंशतिर्योजनानिषट्कालायोजनकोनविंशतिभागरूपास्तदतिरिक्तस्थानेतु अनियततया तथाऽस्यापि विष्कम्भः बाहल्यं तु यावता जलभारेण यावदवगाढभरतक्षेत्रतप्तभूमिमार्दी कृत्य तापः उपशाम्यते तावज्जलदनिष्पन्नमेव ग्राह्यमिति। अथ स प्रादुर्भूतः सन् यत्करिष्यति तदाह"तएणमित्यादि" ततश्च स पुष्कलसंवर्तकमेघः क्षिप्रमेवान्नमकाल एव' पतणतणाइस्सत्ति ' अनुकरणवचनमेतत् प्रकर्षेण स्तनितं करिष्यति गर्जिष्यतीत्यर्थः / तथा च कृत्वा 'पविजुत्ताइस्सत्ति' प्रकर्षेण विद्युतं करिष्यति तथा च कृत्या क्षिप्रमेव युगं रथावयवविशेषः मुसलं प्रतीतं मुष्टिः पिण्डिताङ्गुलिकः पाणिः येषां यत् प्रमाणमायामबाहल्यादिभिस्तेन मात्रा यासां ताभिःइयता प्रमाणेन दीर्घाभिःस्थूलाभिरित्यर्थःधाराभिः ओघेन सामान्येन सर्वत्र निर्विशेषण मेघो यत्र तंतथाविध सप्ताहोरात्रान् वर्ष वर्षिष्यतिवर्षा करिष्यतीत्यर्थः / जे णमिति पूर्ववत् भरतस्य वर्षस्य क्षेत्रस्य भूमिभागमङ्गारभूतं मुर्मुरभूतं क्षारिकभूतं तप्तकवेल्लुकभूतं तप्तसमज्योतिर्भूतं निर्वापयिष्यति स पुष्करसंवर्तको महामेघः। अथ द्वितीयमेधवक्तव्यमाहातंसि च णमित्यादि तस्मिश्च चशब्दो वाक्यान्तरप्रारम्भार्थः पुष्कलसंवर्तक महामेघे सप्तरात्रं यावनिपतिते सति निर्भर वृष्टे सति। अत्रान्तरे क्षीरमेघो नाम महामेघः प्रादुर्भविष्यति शेषं भरतेत्यादि प्राग्वत् / अथ स प्रादुर्भवन् किं करिष्यतीत्याह'तएणमित्यादि ' अत्र वासिस्सइ पर्यन्तं प्राग्वत् यो मेघो भरतस्य वर्षस्य भूम्या वर्णं गन्धं रसंस्पर्शचजनयिष्यति। अत्र वर्णादयः शुभा एव ग्राह्याः येभ्यो लोकोऽनुकूलं वेदयते अशुभवर्णादयः प्राक्कालानुभावे जनिता वर्तन्त एवेति ननु यदिशुभवर्णादीन् जनयति तदा तरुपत्रादिषु नीलो वर्णो जम्बूफलादिषु कृष्णः मरिचादिषुकटुको रसः का