________________ उसुयार 1192 - अभिधानराजेन्द्रः - भाग 2 उसुयार आकाशसमत्वेन तस्या अपर्यवसितत्वात्तथा नैव त्राणाय जरामरणाद्यपनोदाय तदिति सर्वं जगद्धनं वा तवेति ते। इह च पुनः पुनः सर्वशब्दस्य युष्मदस्मदोश्वोपादानं भिन्नवाक्यत्वाद पुनरुक्तमिति भावनीयं पूर्वेण गर्हितत्वमनेन चानुपकारितां पुरोहितधनाढ्यग्रहणहेतुमादर्श्य संप्रत्यनित्यतां तद्धेतुमाह / मरिप्यसि प्राणांस्त्यक्षसि राजन् ! नृप ! यदा तदा वा यस्मिस्तस्मिन्वा काले अवश्यमेव मर्त्तव्यम् "जातस्य हि ध्रुवं मृत्यु "रित्युक्तं हि " कश्चित्तावत्त्वया दृष्टः, श्रुतो वा शङ्कितोऽपि वा। क्षितो वा यदि वा स्वर्गे,यो जातो न मरिष्यति" तत्रापि चकदाचिदभिलषितवस्तु आदायैवमरिष्यामीत्यत आह। मनोरमाश्चितालादकान् कामगुणानुक्तरूपान् प्रहाय प्रकर्षण त्यक्त्वा त्वमेकाक्येव मरिष्यसिन किंचिदन्यत्त्वया सह यास्यतीत्यभिप्रायः। तथा एके (हुत्ति) एक एवाद्वितीय एव धर्मः सम्यग्दर्शनादिरूपो नरदेव ! नृप ! त्राणं शरणमापत्परिरक्षणाक्षमंन विद्यते नास्त्यन्यदपरमिह इहेति वेत्यभिधानं संयमस्थापनार्थं किंचिदिति स्वजनधनादिकं यदि वा इहेति लोके इहेत्यस्मिन् मृत्यौधर्म एवैकस्त्राणं मुक्तिहेतुत्वेन नान्यत् किंचित्ततःस एवानुष्ठेय इति सूत्रचतुष्टयार्थः। यतश्च धर्मादृते नान्यत्त्राणमतो। नाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिसामि मोणं। अकिंचणा उजुकडा निरामिसा, परिग्गहारंभनियत्तदोसा॥४१॥ दव्वग्गिणा जहा रणे, मज्झमाणेसु जंतुसु / अण्णो सत्ता पमोयंति, रागद्दोससवसंगया।। 42 / / एवमेवं वयं मूढा, कामभोगेसु मुच्छिया। मज्झमाणं न दुज्झामो, रागदोसग्गिणा जयं / / 43 / / भोगे भोचा वमित्ता य, लहुभूयावहा रणो। आमोयमाणा गच्छंति, दिया कामकमा इवा / / 44 // इमे य बद्धा फंदंति, मम हत्थज्जमागया। वयं च सत्ता कामेसु, भणियायो जहा इमे // 45 // सामिसं कललं दिस्सा, वज्झमाणं निरामिवं। आमित सव्वमुज्झिता, विहरिस्सामो निरामिसा॥४६॥ गिद्धावमेइ नच्चा णं, कामे सारबद्धणे।। उरउव्व सुवनपासे वा, संकमाणो तणु चरं / / 47 // णागो व्व बंधणं छित्ता, अप्पणो वसहिं वए। इति पच्छं महारायं, उसुयारे त्ति मे मुयं / / 48 / / नेति निषेधे अहमित्यात्मनिर्देशे रमे इति रतिमवाप्नोमि (पक्खिणो पंजरेवत्ति) वाशब्द औषम्ये भिन्नक्रमश्च ततः पक्षिणीव शकुनिकेव शारिकादिः पञ्जरे प्रतीत एव। किमुक्तं भवति यथाऽसौ दुःखोत्पादिनि पञ्जरे न रतिं प्राप्नोत्येवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे न रमे। अतश्छिन्नसन्ताना प्रक्रमात् विनाशितस्मेह सन्ततिः सती / छिन्नशब्दस्य सूत्रे परनिपातःप्राग्वत् चरिष्याम्यनुष्ठास्यामि मौनं मुनिभावम् / न विद्यमानं कश्चन द्रव्यतो हिरण्यादि भावतः कषायादिरूपमस्या इत्यकि श्चता अत एव ऋजुमायाविरहितं कृतमनुष्ठितमस्या इति ऋजुकृता / कथं चैवंभूतेत्याह। निष्क्रान्ता आमिषाद् गृद्धिहेतोरभिलषितविषयादेर्निर्गत या आमिषमस्या इति निरामिषा (परिग्गहारम्भनियत्तदोसेत्ति) प्राकृतत्वात् पूर्वपरनिपातोऽतन्त्रमिति परिग्रहारम्भदोषा अभिष्वङ्गनिस्त्रिशतादयस्तेभ्यो निवृत्तोपरता परिग्रहारम्भदोषनिवृत्ता / यद्वा परिग्रहारम्भनिवृत्ता अत एव चादोषा विकृतिविरहिता / अनयोविंशेषणसमासः। अपरं च दोषाग्निना दावानलेन यथाऽरण्ये वने दह्यमानेषु भस्मसात्क्रियमाणेषु जन्तुषु प्राणिष्वन्येऽपरे सत्वाः प्राणिनो विवेकितः प्रमोदन्ति प्रकर्षेण हृष्यन्ते। किमित्येवंविधास्त इत्याह। रागद्वेषयोर्वश आयत्तता रागद्वेषवशस्तं गताः प्राप्ताः (एवमेवंति) विन्दोरलाक्षणिकत्वादेवमेवत्ति वयं मूढत्ति) मूढानि मोहवशगा निकामभोगेषूक्तरूपेषु (मुच्छियात्त) मूञ्छितानि गृद्धानि दह्यमानमिव दह्यमानं न बुद्ध्यामहे नावगच्छामो रागद्वेषावग्निरिव रागद्वेषाग्निस्तेन कि तज्जगत्प्राणिसमूहं यो हि सविवेको रागादिमांश्च न भवतिसदावानलेनदह्यमानानत्वसत्वानवलोक्याहमप्येवमनेन दहनीय इति तद्रक्षणोपा-यतत्पर एव भवति न तु प्रमादवशगः सन् प्रमोदते। यस्त्वत्यन्तमज्ञो रागादिमांश्च स आयातमचिन्तयन् हृष्यति न तु तदुपशमापाये प्रवर्तते ततो वयमपि भोगापरित्यागादेवं विधान्येवेति भावः / येत्वेवंविधा न भवन्ति ते किं कुर्वन्तीत्याह भोगान् मनोज्ञशब्दादीन् (भो-चेति) भुक्त्वाऽऽसेव्य पुनरुत्तरकालं वान्त्वा चापहाय विपाकदारुणत्वाल्लघुर्वायुस्तद्वद्भुते भवनमेषां लघुभृताः कोऽथो वायूपडारतथाविधाः सन्तो विहरन्तीत्येवंशीला लघुभूतविहारिणोऽप्रति-बद्ध विहारिण इत्यर्थः / यद्वा लघुभूतः संयमस्तेन विहर्तु शीलं येषां ते तथा आसमन्तान्मोदमाना हृष्यन्त आमोदमानास्तथाविधानुष्ठानेनेति गम्यते / गच्छति विवक्षितस्थानमिति शेषः / क इव (दियाकामकमाइवेत्ति) इवशब्दो भिन्नक्रमस्ततो द्विजा इव कमो ऽभिलापस्तेन क्रामन्तीति कामक्रमाः यथा पक्षिणः स्वेच्छया यत्र यत्रावभासन्ते तत्र तत्रमोदमाना भ्राम्यन्ते एवमेतेऽप्यभिष्वङ्गस्य परतन्त्रताहेतोरभावाद्यत्र यत्र संयमयात्रानिर्वहणं तत्र तत्र यान्तीत्याशयः / पुनर्वहिरास्थां निराकुर्वन्तीत्याह इमे इत्युनुभृयमानतया प्रत्यक्षाः शब्दादयश्चः समुच्चये वद्धा नियन्त्रिता अनेकधोषायै रक्षिता इत्यर्थः एते किमित्याह। स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया ये। कीदृश इत्याह (मम हत्थजमागयत्ति) ममेत्यात्मनिर्देश उपलक्षणत्वात्तव नहस्तं करमार्य अद्य वा आगताःप्राप्ताः कोऽर्थः स्ववशा आत्मनोऽज्ञता दर्शयतुमाह। (वयं च सत्तत्ति) वयं पुनः शक्तानि संबन्धान्यभिष्वङ्गवन्तीत्यर्थः अबहुत्वेऽप्यस्मदोद्वयोश्चेति बहुवचनं कामेष्यभिलषणीयशब्दादिषु एवंविधेष्वपि चामीष्वभिष्वङ्ग इति मोहविलसितमिति भावः / यद्वा इमे च चेति चशब्दाद्वयं च स्पन्दामहे इव स्पन्दामहे आयुषश्चञ्चलतया परलोकगमनाय शेषं तथैव यत एवमतो भविष्यामो यथेमे पुरोहितादयः। किमुक्तं भवति यथाऽम भिश्चञ्चलत्वमवलोक्यते परित्यक्तास्तथा वयमपि त्यक्ष्याम इति / स्यादेतदस्थिरत्वेऽपि सुखहेतुत्वात् किमित्यमी स्पन्दन्ते इत्याह / सह मिषेण पिशितरूपेण वर्तत इति सामिषस्तं कललमिह गृधशकुनिकं वा दृष्ट्वाऽवलोक्य वाध्यमान पीड्यमानं पक्षान्तरैरिति गम्यते निरामिषमामिषविरहितमन्यथाभूत दृष्ट्वेतिगम्यते आमिषमभिष्वङ्गहेतुधान्यादि सर्व निरवशेषमुज्झित्वा त्यक्त्वा (विहरिस्सामोत्ति) विहरिष्याम्य प्रतिबद्धविहारितया चरिष्यामीत्यर्थः / निरामिषा परित्यक्ताभिष्वङ्गहेतुः उक्तानुवादे