________________ उसुयार 1161 - अभिधानराजेन्द्रः - भाग 2 उसुयार ततो यावन्नैतत्यजति तावद्दीक्षां प्रतिपद्यामहे इत्यभिप्रायस्तत् किं वयःस्थेाद्यर्थ दीक्षां प्रतिपद्यसे उच्यते कैश्चिद्दीक्षा वयःस्थैर्यादिविधायिनीत्याशक्याह नेति निषेधे जीवितमसंयमजीवितमुपलक्षणत्वाद्वयश्च तदर्थं प्रजहामि प्रकर्षणत्यजामि भोगान् शब्दान् किं तु लाभमभिमतवस्त्ववाप्तिरूपमलाभं च तदभावरूपं सुखमभिलषणीयविषयसंभोगजं चस्य भिन्नक्रमत्वात् दुःखं च वाधाऽऽत्मकं (संचिक्खमाणोत्ति) समतया ईक्षमाण पश्यन् किमुक्तं भवति लोभालोभयोस्तथा सुखदुःखयोरुपलक्षणत्वालीवितमरणादीनां च समतामेव भावयंश्चरिष्याम्यासेविष्ये किं तत् मौनं मुनिभावं ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति भाव इति सूत्रार्थः / वासिष्ठ-याह। मा हू तुमे सोयरियाण संहरे, जिण्णो व हंसो पडिसोयगामी। मुंजाहि भोगाई मए समाणं, दुक्खं खु मिक्खाचरियाविहारो॥३३॥ मा इति निषेधेहुरिति वाक्यालंकारे त्वंसोदरेशयिताः सोदर्याः सोदराद्य इति यः प्रत्ययः ते च समानकुक्षिभवा भ्रातरस्तेषामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च (संभरित्ति) अस्मार्षीः क इव (जिण्णो व हंसोत्ति) इव शब्दस्य भिन्नक्रमत्वात् जीर्णो वयोहानिमुपगतो हंस इव प्रधानपक्षीव प्रतिकूलः श्रोतः प्रतिश्रोतस्तद्गामी सन् किमुक्तं भवति यथाऽसौ नदीश्रोतस्यतिकष्ट प्रतिकूलगमनमारभ्यापि तत्राशक्तः पुनरनुश्रोत एवानुधावत्येवं भवानपि दुस्तरं संयमभारं वोढुमसमर्थः पुनः सहोदरान् सह भोगान् वा स्मरिष्यति तदिदमेवास्तुभुक्ष्व भोगान्मया (समाणंति) सुखदुःखहेतु (खुइति) खलु निश्चितं भिक्षाचर्या भिक्षाटनं विहारो ग्रामादिष्वप्रतिब-द्धविहारो दीक्षोपलक्षणं चैतदिति सूत्रार्थः। पुरोहित आह। जहा य भोई तणुयं भुजंगे, निम्मोयणं हेव्व पलेइ मुत्तो। / एमेय जाया पयहंति भोए, तेहं कहं नाणुगमिस्सएगो॥३४॥ छिंदितु जालं अवलंवरोहिया, मच्छा जहा कामगुणो पहाय। धीरेय मीलातवसा उदारा,घोराहु भिक्खायदियंचरंति॥३५॥ यथा च हेभवति ! पठ्यते त्ताहे भोगेत्ति तनुःशरीरं तत्र जातां तनुजां भुजगंमः सो निर्मोचनीये निर्मोकं हित्वा पर्येति समन्ताद्गच्छति मुक्त इति निरपेक्षोनाभिष्वक्त इत्यर्थः (समेतित्ति) एवमेतौ पठ्यते च (इमेतित्ति) अत्र च तथेति गम्यते तत्तथेमौ ते तवजातौ पुत्रौ प्रजहीतः प्रकर्षण त्यजतो भोगान्ततः किमित्याह तौ भोगांस्त्यजन्तौ जातौ अहं कथम् नानुगमिष्यामि प्रव्रज्याग्रहणेनानुसरिष्याम्येको द्वितीयो यदि तावदनयोः कुमारकयोरपीयात् विवेको यनिर्मोकवदत्यन्तसहचरितानपि भोगान् भुजङ्गवत् त्यजतस्ततःकिमिति भुक्तभोगोऽप्यहमेनान्नत्यक्षामि किं वाममासहायस्य गृहवासेनेति भावः। तथा छित्या द्विधा कृत्वा तीक्ष्णपुच्छादिना जालमानायमवलभिव जीर्णत्वादिना निःसारमिव वलीयोऽपीति गम्यते / रोहिता रोहितजातीया मत्स्या मीनाश्चरन्तीति संबन्धः / यथेति दृष्टान्तोपदर्शने यत्तदोश्च तित्यसंबन्धात्तथेति गम्यते ततस्तथा जा-लप्रायान् कामगुणान् प्रहाय परित्यज्य धुरि वहन्ति धौरेयास्तेषा-मिव शीलमुत्क्षिप्तभारवाहितालक्षणः स्वभावो येषां ते धौरेयशी-लास्तपसाऽनशनादिनोदाराः प्रधाना धीराः सत्ववन्त हुरिति य-स्मादभिक्षाचर्यां चरन्त्यासेवन्ते व्रतग्रहणोपलक्षणमेतदतोऽहमपीत्थं व्रतमेव ग्रहीष्य इति भावः इति सूत्रद्वयार्थः / / इत्थं तत्प्रतिबोधिता ब्राह्मण्याह। तहेव कोंचा समइकमता, तयाणि जालाणि दलित्तु हंसा। पलेंति पुत्ताय पई यमज्झं,तेहं कहं नाणुगमिस्सइक्का।। 36 / / नमसीवाकाश इव क्रौच्चाः पक्षिविशेषाः समतिक्रामन्तस्तान तान् देशानुल्लङ्घयन्तस्ततानि विस्तीणानि जालानि बन्धनविशेषरूपाण्यात्मनोऽनर्थहेतून्दलित्वा (हंसत्ति) चशब्दस्य गम्यमानत्वाद्धसाश्चपलेंतित्ति) परियन्तिसमन्ताद् गच्छन्तिपुत्रौ चसुतौ च पतिश्च भर्ता मम संबन्धिनोगम्यमानत्वाद्ये तेजालोपमविषयाभि-ष्वङ्ग भित्वा नमः कल्पे निरुपलोपतया संयमाध्वनि तानि संयमस्थानान्यतिक्रामन्तस्तानहं कथं नानुगमिष्याम्येका सतो किं त्व-नुगमिष्याम्येव / एवंविधं वचनं हि स्त्रीणां पतिः पुत्रो वा गतिरिति / यदि वा जालानि भित्त्वेति हंसानामेव संबध्यते। समतिक्रामन्तः स्वातन्त्रेण गच्छन्त इति तु क्रौञ्चोदाहरणमजातकलत्रादिबन्धनसुतापेक्षं हंसोदाहरणं तु तद्विपरीतपत्यपेक्षमिति भावनीयमिति सूत्रार्थः / इत्थं चतुमिप्येकवाक्यतायां प्रव्रज्याप्रतिपत्तौ यद-भूत्तदाह। पुरोहियं तं ससुयं सदारं, सोचाभिणिक्खंत पहाय भोगे। कुटुंबसारं विउलुत्तमंतं, रायं अभिक्खं समुवाय देवी॥ 37 // वंतासी पुरिसो रायं, न सो होइ पसंसितो। माहणेणं परिचत्तं, धणं आइउमिच्छ सि / / 38 / / सव्वं जगं जइतुह, सव्वं वावि धणं भवे / सवं पिते अपनत्तं, नो वा ताणाइ ते तव / / 36 // मरिहसि रायं जया तया वा, मणोरमे कामगुणे पहाय। एक्को हुधम्मो नरदेवयाणं, न विजए अन्नमिहेह किंचि॥४०॥ पुरोहितं पुरो वसन्तमिति च भृगुनामानं सपुत्रं पुत्रद्वयान्वितं सदारं सपत्नीकं श्रुत्वाऽऽकर्ण्य अभिनिष्क्रम्य गृहान्निर्गत्य प्रहाय प्रकर्षण त्यक्त्वा भोगान् शब्दादीन् प्रव्रजितमिति गम्यते / कुटुम्बसारं धनधान्यादि विपुलं च विस्तीर्णतया उत्तमं च प्रधानतया विपुलोत्तम (यदिति) यत्पुरोहितेन त्यक्तं गृह्णन्तमिति शेषः (राय) राजानं नृपतिमभीक्ष्णं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती नाम तदग्रमहिषी। किमुक्तवतीत्याह वान्तमुद्गीर्णमशितुं भोक्तुं शीलमस्येति वान्ताशी पुरुषः पुमान् य इति गम्यते राजन् ! नृपते ! स न प्रसंशितः ग्लाघितो विद्वद्भिरिति शेषः / स्यादेतत्कथमहं वान्ताशीत्यत आह / ब्राह्मणेन परित्यक्तं परिहृत धनं द्रव्यमादातुं ग्रहीतुमिच्छसि परिहृतं धनं हि गृहीतोज्झितत्वाद्वान्तमिव ततस्तदादातुमिच्छंस्त्वमपि वान्ताशीव न चेदमुचितं भवादृशामित्यभिप्रायः / अथवा काक्वा नीयते राजन् ! वान्ताशी यः स प्रशस्यो न भवत्यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि न चैतद्भवत उचितं यतस्त्वमप्येवं वान्ताशितया अश्लाघ्य एव भविष्यसीति काकर्थः / किं च सर्व निरवशेषं जगद् भुवनं भवेदिति संबन्धो यदीत्यस्यायमर्थो न संभवत्येवैतत्कथञ्चित्संभवे वा (तुहंति) तव सर्वव्यापि धनं रजतरूप्यादिद्रव्यं भेवद्यदि तवेतीहापि योज्यते तथा सर्वमपितेतच पर्याप्तमशक्तमिच्छापरिपूर्ति प्रतीति शेषः /